कर्णपर्व
अध्यायः ८६
सञ्जय उवाच।
ततः कर्णः कुरुषु प्रद्रुतेषु
वरूथिना श्वेतहयेन राजन्।
पाञ्चालपुत्रान्व्यधमत्सूतपुत्रो
महेषुमिर्वात इवाभ्रसङ्घान्।।
सूतं रथादञ्जलिकैर्निपात्य
जघान चाश्वाञ्जनमेजयस्य।
शतानीकं सुतसोमं च भल्लै--
रवाकिरद्धनुषी चाप्यकृन्तत्।।
धृष्टद्युम्नं निर्बिभेदाथ षड्भि--
र्जघानाश्वान्दक्षिणांस्तस्य सङ्ख्ये।
हत्वा चाश्वान्सात्यकेः सूतपुत्रः
कैकेयपुत्रं न्यवधीद्विशोकम्।।
तमभ्यधावन्निहते कुमारे
सेनापतिः कैकयो मित्रवर्मा।
शरैर्विधुन्वन्भृशमुग्रवेगैः
कर्णात्मजं चाप्यहनत्सुदेवम्।।
तस्यार्धचन्द्रैस्त्रिभिरुच्चकर्त
प्रहस्य बाहू च शिरश्च कर्णः।
स स्यन्दनाद्गामगमद्गतासुः
परश्वथैः साल इवावरुग्णः।।
हताश्वमञ्जोगमिभिः सुषेणः
शिनिप्रवीरं निशितैः पृषत्कैः।
प्रच्छाद्य नृत्यन्निव कर्णपुत्रः
शैनेयबाणाभिहतः पपात।।
पुत्रे हते क्रोधपरीतयेताः
कर्णः शिनीनां प्रवरं जिघांसुः।
हतोऽसि हे सात्यक इत्युदीर्य
व्यवासृजद्बाणममित्रसाहम्।।
तमस्य चिच्छेद शरं शिखण्डी
त्रिभिस्त्रिभिश्च प्रतुतोद कर्णम्।
शिखण्डिनः कार्मुकं च ध्वजं च
च्छित्त्वा क्षुराभ्यां न्यहनत्सुजातः।।
शिखण्डिनं षड्भिरविध्यदुग्रो
धार्ष्टद्युम्नेः स शिरश्चोच्चकर्त।
ततोऽभिनत्सुतसोमं क्षुरेण
सुसञ्झितेनाधिरथिर्महात्मा।।
अथाक्रन्दे तुमुले वर्तमाने
धार्ष्टद्युम्ने निहते तत्र कृष्णः।
अपाञ्चाल्यं क्रियते याहि पार्थ
कर्णं जहीलाब्रवीद्राजसिंह।।
ततः प्रहस्याशु नरप्रवीरो
रथं रथेनाधिरथेर्जगाम।
भये तेषां त्राणमिच्छन्सुबाहु--
रभ्याहतानां रथयूथपेन।।
ततोऽपरे भारत दुष्प्रकम्प्याः
पाञ्चालानां रथसङ्घाः समेताः।
प्रतिश्रिता ह्यन्तरिक्षे ग्रहाभा
धनुःप्रवीरास्तु रथप्रवीराः।।
विस्फार्य गाण्डीवमथोग्रघोषं
ज्यया समाहत्य तले भृशं च।
बाणान्धकारं सहसैव कृत्वा
जघान नागाश्वरथध्वजांश्च।।
[प्रतिश्रुतः प्राचरदन्तरिक्षे
गुहा गिरीणामपतन्वयांसि।
यन्मण्डलज्येन विजृम्भमाणो
रौद्रे मुहूर्तेऽभ्यपतत्किरीटी।।]
तं भीमसेनोऽनुययौ रथेन
पृष्ठे रक्षन्पाण्डवमेकवीरः।
तौ राजपुत्रौ त्वरितौ रथाभ्यां
कर्णाय यातावरिभिर्विषक्तौ।।
तत्रान्तरे सुमहान्सूतपुत्र--
श्चक्रे युद्धं सोमकान्सम्प्रमथ्य।
रथाश्वमातङ्गणाञ्जघान
प्रच्छादयामास शरैर्दिशश्च।।
तमुत्तमौजा जनमेजयश्च
क्रुद्धौ युधामन्युशिखण्डिनौ च।
कर्णं बिभेदुः सहिताः पृषत्कैः
सन्नर्दमानाः सह पार्षतेन।।
ते पञ्च पाञ्चालरथाः समेता
वैकर्तनं कर्णमभिद्रवन्तः।
तस्माद्रथाच्च्यावयितुं न शेकु--
र्धैर्यात्कृतात्मानमिवेन्द्रियार्थाः।।
तेषां धनूंषि ध्वजवाजिसूतां--
स्तूर्णं पताकाश्च निकृत्य बाणैः।
तान्पाञ्चालानभ्यहनत्पृवत्कैः
कर्णस्ततः सिंह इवोन्ननाद।।
तस्यास्यतस्तानभिनिघ्नतश्च
ज्याबाणहस्तस्य धनुःस्वेनन।
साद्रिद्रुमा स्यात्पृथिवी विशीर्णे--
त्यतीव मत्वा जनता व्यपीदत्।।
स शक्रचापप्रतिमेन धन्वना
भृशायतेनाधिरथिः शरान्सृजन्।
बभौ रणे दीप्तमरीचिमण्डलो
यथांशुमाली परिवेषवांस्तथा।।
शिखण्डिनं द्वादशभिः पराभिन--
च्छितैः शरैः षड्भिरथोत्तमौजसम्।
त्रिभिर्युधामन्युमविध्यदाशुगै--
स्त्रिभिस्त्रिभिः सोमकपार्षतात्मजौ।।
पराजिताः पञ्च महारथास्तु ते
महाहवे सूतसुतेन मारिष।
निरुद्यमास्तस्थुरमित्रनन्दना
यथेन्द्रियार्थात्मवता पराजिताः।।
निमज्जतस्तानथ कर्णसागरे
विपन्ननावो वणिजो यथार्णवे।
उद्दध्रिरे नौभिरिवार्णवाद्रथैः
सुकल्पितैर्द्रौपदिजाः स्वमातुलान्।।
ततः शिनीनामृषभः शितैः शरै--
र्निकृत्य कर्णप्रहितानिषून्वहून्।
विदार्य कर्णं निशितैरयस्मयै--
स्तवात्मजं ज्येष्ठमविध्यदष्टमिः।।
कृपोऽथ भोजश्च तवात्मजस्तथा
स्वयं च कर्णो निशितैरताडयत्।
स तैश्चतुर्भिर्युयुधे यदूत्तमो
दिगीश्वरैर्दैत्यपतिर्यथा तथा।।
समाततेनेष्वसनेन कूजता
महास्वनेनाशनिपातदीधितिः।
बभूव दुर्धर्षतरः स सात्यकिः
शरन्नभोमध्यगतो यथा रविः।।
पुनः समास्थाय रथान्सुदंशिताः
शिनिप्रवीरं जुगुपुः परन्तपाः।
समेत्य पाञ्चालमहारथा रणे
मरुद्रणाः शक्रमिवारिनिग्रहे।।
ततोऽभवद्युद्धमतीव दारुणं
तवाहितानां तव सैनिकैः सह।
रथाश्वमातङ्गविनाशनं तथा
यथा सुराणामसुरैः पुराऽभवत्।।
रथा द्विपा वाजिपदातयस्तथा
भ्रमन्ति नानाविधशस्त्रवेष्टिताः।
परस्परेणाभिहताश्च चस्खलु--
र्विनेदुरार्ता व्यसवोऽपतंस्तथा।।
तथागतं भीममभीस्तवात्मजः
ससार राजावरजः किरञ्शरैः।
तमभ्यधावत्त्वरितो वृकोदरो
महारुरुं सिंह इवाभिपेदिवान्।।
ततस्तयोर्युद्धमतीव दारुणं
प्रदीव्यतोः प्राणदुरोदरं द्वयोः।
परस्परेणाभिनिविष्टरोषयो--
रुदग्रयोः शम्बरशक्रयोर्यथा।।
शरैः शरीरार्तिकरैः सुतेजनै--
र्निजघ्नतुस्तावितरेतरं भृशम्।
सकृत्प्रभिन्नाविव वासितान्तरे
महागजौ दोर्भिरदीनघातिनौ।।
आलोक्य तौ चैव परस्परं ततः
समं च शूरौ च ससारथी तदा।
भीमोऽब्रवीद्याहि दुःशासनाय
दुःशासनो याहि वृकोदराय।।
तयो रथौ सारथिसम्प्रचोदितौ
समं रथौ तौ महसा समीयतुः।
नानायुधच्छत्रपताकिकाध्वजौ
दिवीव पूर्वं बलशक्रयो रणे।।
भीम उवाच।
दिष्ट्याऽसि दुःशासन अद्य दृष्टः
क्षणं प्रतीच्छे सहवृद्धि मूलम्।
चिरोदितं यन्मया ते सभायां
कृष्णाभिमर्शेन गृहाण मत्तः।।
स एवमुक्तस्तु ततो महात्मा
दुःशासनो वाक्यमुवाच वीरः।
सर्वं स्मरन्नेव विसंस्मरामि
उदीर्यमाणं शृणु भीमसेन।।
स्मरामि चात्मप्रभवं चिराय
यज्जातुषे वेश्मनि रात्र्यहानि।
विश्वासहीना मृगयां चरन्तो
वसन्ति सर्वत्र निराकृतास्तु।।
महाभयं रात्र्यहानि स्मरन्त--
स्तथोपभोगाच्च सुखाच्च हीनाः।
वनेष्वटन्तो गिरिगह्वराणि
पाञ्चालराजस्य पुरं प्रविष्टाः।।
मायां यूयं कामपि सम्प्रविष्टा
यतो वृतः कृष्णया फल्गुनो वः।
संभूय पापैस्तदनार्यवृत्तं
कृतं तदा मातृकृतानुरूपम्।।
एका वृता पञ्चभिः साभिपन्ना।
ह्यलज्जमानेश्च परस्परस्य।
स्मरे सभायां सुबलात्मजेन
दासीकृता यत्सह कृष्णया च।।
सञ्जय उवाच।
इत्येवमुक्तस्तु तवात्मजेन
पाण्डोः सुतः कोपवशं भृशं
धनुः क्षुराभ्यां ध्वजमेव चाच्छिनत्।
ललाटमप्यस्य बिभेद पत्रिणा
शिरश्च कायात्प्रजहार सारथेः।।
स राजपुत्रोऽन्यदवाप्य कार्मुकं
वृकोदरं द्वादशभिः पराभिनत्।
स्वयं नियच्छंस्तुरगानजिह्मगैः
शरैश्च भीमं पुनरप्यवीवृषत्।।
।। इति श्रीमन्महाभारते
कर्णपर्वणि सप्तदशदिवसयुद्धे
षडशीतितमोऽध्यायः।। 86 ।।