कर्णपर्व
अध्यायः ६७
सञ्जय उवाच।
द्रौणिस्तु रथवंशेन महता परिवारितः।
अपतत्सहसा राजन्यत्र पार्थो व्यवस्थितः।।
तमापतन्तं सहसा शूरः शौरिसहायवान्।
दधार समरे पार्थो वेलेव मकरालयम्।।
ततः क्रुद्धो महाराज द्रोणपुत्रः प्रतापवान्।
अर्जुनं वासुदेवं च च्छादयामास सायकैः।।
अवच्छन्नौ ततः कृष्णौ दृष्ट्वा तत्र महारथाः।
विस्मयं परमं गत्वा प्रैक्षन्त कुरवस्तदा।।
अर्जुनस्तु ततो दिव्यमस्त्रं चक्रे हसन्निव।
तदस्त्रं वारयामास ब्राह्मणो युधि भारत।।
यद्यद्धि व्याक्षिपद्युद्धे फल्गुनोऽस्त्रं जिघांसया।
तत्तदस्त्रैर्महेष्वासो द्रोणपुत्रो जघान ह।।
अस्त्रयुद्धे महाराज वर्तमाने महाभये।
अपश्याम रणे द्रौणिं व्यात्ताननमिवान्तकम्।।
स दिशः प्रदिशश्चैव च्छादयित्वा ह्यजिह्मगैः।
वासुदेवं त्रिभिर्बाणैरविध्यद्दक्षिणे भुजे।।
ततोऽर्जुनो रथान्सर्वान्हत्वा तस्य पदानुगान्।
चकार समरे भूमिं शोणितौघपरिप्लुताम्।
[सर्बलोकवहां रौद्रां परलोकवहां नदीम्]।।
सरथा रथिनः पेतुः पार्थचापच्युतैः शरैः।।
[द्रौणेरपहतान्सङ्खे ददृशु स च तां तथा।
प्रावर्तयन्महाघोरां नदीं परवहां तदा।।
तयोस्तु व्याकुले युद्धे द्रौणेः पार्थस्य दारुणे।
अमर्यादं योधयन्तः पर्यधावन्त पृष्ठतः।।
रथैर्हताश्वसूतैश्च हतारोहैश्च वाजिभिः।
द्विरदैश्च हतारोहैर्महामात्रैर्हतद्विपैः।।
पार्थेन समरे राजन्कृतो घोरो जनक्षयः।
निहता रथिनः पेतुः पार्थचापच्युतैः शरैः।।]
हयाश्च पर्यधावन्त मुक्तयोक्त्रास्ततस्ततः।
तद्दृष्ट्वा कर्म पार्थस्य द्रौणिराहवशोभिनः।।
अर्जुनं जयतां श्रेष्ठं त्वरितोऽभ्येत्य वीर्यवान्।
विधुन्वानो महच्चापं कार्तस्वरविभूषितम्।।
अवाकिरत्ततो द्रौमिः समन्तान्निशितैः शरैः।
भूयोऽर्जुनं महाराज द्रौणिरायम्य पत्रिणा।।
वक्षोदेशे भृशं पार्थं ताडयामास निर्दयम्।
सोऽतिविद्धो रणे तेन द्रोणपुत्रेण भारत।।
गाण्डीवधन्वा प्रसभं शरवर्षैरुदारधीः।
सञ्छाद्य समरे द्रौणिं चिच्छेदास्य च कार्मुकम्।।
स च्छिन्नधन्वा परिधं वज्रस्पर्शसमं युधि।
आदाय चिक्षेप तदा द्रोणपुत्रः किरीटिने।।
तमापन्ततं परिघं जाम्बूनदपरिष्कृतम्।
चिच्छेद सहसा राजन्प्रहसन्निव पाण्डवः।।
स पपात तदा भूमौ निकृत्तः पार्थसायकैः।
विकीर्णः पर्वतो राजन्यथा वज्रेण ताडितः।।
ततः क्रुद्धो महाराज द्रोणपुत्रो महारथः।
ऐन्द्रेण चास्त्रवेगेन बीभत्सुं समवाकिरत्।।
तस्येन्द्रजालावततं समीक्ष्य
पार्थो राजन्गाण्डिवमाददे सः।
ऐन्द्रं जालं प्रत्यहरत्तरस्वी
वरास्त्रमादाय महेन्द्रसृष्टम्।।
विदार्य तज्जालमथेन्द्रमुक्तं
पार्थस्ततो द्रौणिरथं क्षणेन।
प्रच्छादयामास ततोऽभ्युपेत्य
द्रौणिस्तदा पार्थशराभिभूतः।।
विगाह्य तां पाण्डवबाणवृष्टिं
शरैः परं नाम ततः प्रकाश्य।
शतेन कृष्णं सहसाभ्यविद्ध्या--
त्त्रिभिः शतैरर्जुनं क्षुद्रकाणाम्।।
ततोऽर्जुनः सायकानां शतेन
गुरोः सुतं मर्मसु निर्बिभेद।
अश्वांश्च सूतं च तथा धनुर्ज्या--
मवाकिरत्पश्यतां तावकानाम्।।
स विद्ध्वा मर्मसु द्रौणिं पाण्डवः परवीरहा।
सारथिं चास्य भल्लेन रथनीडादपातयत्।।
स सङ्गृह्य स्वयं वाहान्कृष्णौ प्राच्छदयच्छरैः।
तत्राद्भुतमपरश्याम द्रौणेराशु पराक्रमम्।।
संयच्छंस्तुरगान्यच्च फल्गुनं चाप्ययोधयत्।
तदस्य समरे राजन्सर्वभूतान्यपूजयन्।।
`तेनास्य समरे योधास्तुष्टुवुः सर्व एव ते।
यदा निजगृहे पार्थो द्रोणपुत्रेण धन्विना।।
तदा प्रहस्य बीभस्तुर्द्रोणपुत्रस्य संयुगे।
क्षिप्रं रश्मीनथाश्वानां क्षुरप्रैश्चिच्छिदे जयः।।
प्राद्रवंस्तुरगास्तस्य शरवेगप्रपीडिताः।
ततोऽभून्निनदो घोरस्तव सैन्यस्य भारत।।
पाण्डवास्तु जयं लब्ध्वा तव सैन्यं समाद्रवन्।
समन्तान्निशितान्बाणान्विमुञ्चन्तो जयैषिणः।।
तावकी चतुरङ्गैषा पाण्डवैस्तु महाचमूः।
पुनःपुनरथो वीरैः प्रभग्ना जितकाशिभिः।।
पश्यतां ते महाराज पुत्राणां चित्रयोधिनाम्।
शकुनेः सौबलेयस्य कर्णस्य च विशाम्पते।।
वार्यमाणा महासेना पुत्रैस्तव जनेश्वर।
न चातिष्ठत सङ्ग्रामे पीड्यमाना समन्ततः।।
ततो योधैर्महाराज पलायद्भिः समन्ततः।
अभवद्य्वाकुलं भीतं पुत्राणां ते महद्बलम्।।
तिष्ठतिष्ठेति सततं सूतपुत्रस्य जल्पतः।
नावतिष्ठति सा सेना वध्यमाना महात्मभिः।।
अथोत्क्रुष्टं महाराज पाण्डवैर्जितकाशिभिः।
धार्तराष्ट्रबलं दृष्ट्वा विद्रुतं वै समन्ततः।।
ततो दुर्योधनः कर्णमब्रवीत्प्रणयादिव।
पश्य कर्ण महासेनां पाण्डवैरर्दितां भृशम्।।
त्वयि तिष्ठति सन्त्रासात्समन्तात्प्रपलायते।
एतज्ज्ञत्वा महाबाहो कुरु प्राप्तमरिन्दम।।
सहस्राणि च योधानां त्वामेव पुरुषोत्तम।
क्रोशन्ते समरे वीर द्राव्यमाणानि पाण्डवैः।।
सञ्जय उवाच।
एतच्छ्रुत्वा तु राधेयो दुर्योधनवचो महत्।
मद्रराजमिदं वाक्यमब्रवीत्प्रहसन्निव।।
पश्य मे भुजयोर्वीर्यमस्त्राणां च जनेश्वर।
अद्य हन्मि रणे सर्वान्पाञ्चालान्पाण्डुभिः सह।।
वाहयाश्वान्नरव्याघ्र मद्राधिप न संशयः।
एवमुक्त्वा महाराज सूतपुत्रः प्रतापवान्।।
प्रगृह्य विजयं वीरो धनुःश्रेष्ठं पुरातनम्।
सज्यं कृत्वा महाराज सम्मृज्य च पुनः पुनः।।
सन्निवार्य च तान्योधान्सत्येन शपथेन च।
प्रायोजयदमेयात्मा भार्गवास्त्रं महाबलः।।
तस्माद्राजन्सहस्राणि प्रयुतान्यर्बुदानि च।
कोटिशश्च शरास्तीक्ष्णा निरगच्छन्महामृधे।।
ज्वलितैस्तैः शरैर्घोरैः कङ्कबर्हिणवाजितैः।
सञ्चन्ना पाण्डवी सेना न प्राज्ञायत किञ्चन।।
हाहाकारो महानासीत्पाण्डवानां विशाम्पते।
पीडितानां बलवता भार्गवास्त्रेण संयुगे।।
निपतद्भिर्गजै राजन्नश्वैश्चापि सहस्रशः।
रथैश्चापि नरव्याघ्र नरैश्चैव समन्ततः।।
प्राकम्पत मही राजन्निहतैस्तैः समन्ततः।
व्याकुलं सर्वमभवत्पाण्डवानां महद्बलम्।।
कर्णस्त्वेको युधां श्रेष्ठो विधूम इव पावकः।
दहञ्शत्रून्नरव्याघ्रः शुशुभे स परन्तपः।।
ते वध्यमानाः कर्णेन पाञ्चालाश्चेदिभिः सह।
तत्र तत्र व्यमुह्यन्त वनदाहे यथा द्विपाः।।
चुक्रुशुश्च नरव्याघ्र यथाप्राणं नरोत्तमाः।
तेषां तु क्रोशतां दीनं भीतानां रणमूर्धनि।।
धावतां च ततो राजंस्त्रस्तानां च समन्ततः।
वध्यमानांस्तु तान्दृष्ट्वा सूतपुत्रेण मारिष।।
वित्रेसुः सर्वभूतानि तिर्यग्योनिगतान्यपि।।
ते वध्यमाताः समरे सूतपुत्रेण सृञ्जयाः।
अर्जुनं वासुदेवं च क्रोशन्ति च मुहुर्मुहुः।
प्रेतराजपुरे यद्वत्प्रेतराजं विचेतसः।।
श्रुत्वा तु निनदं तेषां वध्यतां कर्णसायकैः।
अथाब्रवीद्वासुदेवं कुन्तीपुत्रो धऩञ्जयः।
भार्गवास्त्रं महाघोरं दृष्ट्वा तत्र समीरितम्।।
पश्य कृष्ण महाबाहो भार्गवास्त्रस्य विक्रमम्।
नैतदस्त्रं हि समरे शक्यं हन्तुं कथञ्चन।।
सूतपुत्रं च संरब्धं पश्य कृष्ण महारणे।
अन्तकप्रतिमं वीर्ये कुर्वाणं कर्म दारुणम्।।
अभीक्ष्णं चोदयन्नश्वान्प्रेक्षते मां मुहुर्मुहुः।
नच शक्ष्यामि कर्णस्य संयुगेऽहं पलायितुम्।।
जीवन्प्राप्नोति पुरुषः सङ्ख्ये जयपराजयौ।
मृतस्य तु हृपीकेश भङ्ग एव कुतो जयः।।
एष कर्णो रणे भाति मध्याह्न इव भास्करः।
निवर्तय रथं कृष्ण जीवन्भद्राणि पश्यति।।
।। इति श्रीमन्महाभारते कर्णपर्वणि
सप्तद्वशदिवसयुद्धे सप्तषष्टितमोऽध्यायः।। 67 ।।