कर्णपर्व

अध्यायः ६६

Karna Parva (Sanskrit) · Adhyaya 66
अक्षर का आकार

सञ्जय उवाच।

कर्णोऽपि शरजालेन केकयानां महारथान्।
व्यधमत्परमेष्वासानग्रानीके व्यवस्थितान्।।

तेषां प्रयतमानानां राधेयस्य निवारणे।
रथान्पञ्चशतान्कर्णः प्राहिणोद्यमसादनम्।।

अविषह्यतमं दृष्ट्वा राधेयं युधि योधिनः।
भीमसेनमुपागच्छन्कर्णबाणप्रपीडिताः।।

रथानीकं विदार्यैव शरै राजन्ननेकधा।
कर्ण एकरथेनैव युधिष्ठिरमुपाद्रवत्।।

सेनानिवेशं गच्छन्तं मार्गणैर्भृशपीडितम्।
यमयोर्मध्यगं वीरं शनैर्यान्तं विचेतसम्।।

स समासाद्य राजानं दुर्योधनहितेप्सया।
सूतपुत्रस्त्रिभिस्तीक्ष्णैर्विव्याध परमेषुभिः।।

तथैव राजा राधेयं प्रत्यविध्यत्स्तनान्तरे।
शरैस्त्रिभिश्च यन्तारं चतुर्भिश्चतुरो हयान्।।

चक्ररक्षौ नृपसुतौ माद्रीपुत्रौ परन्तपौ।
तावप्यधावतां कर्णं राजानं मा वधीदिति।।

तौ पृथक्शरवर्षाभ्यां राधेयं समवर्षताम्।
नकुलः सहदेवश्च परमं यत्नमास्थितौ।।

तथैव तौ प्रत्यविध्यत्सूतपुत्रः प्रतापवान्।
भल्लाभ्यां शितधाराभ्यां महात्मानावरिन्दमौ।।

दन्तवर्णांस्तु राधेयो निजघान मनोजवान्।
युधिष्ठिरस्य सङ्ग्रामे कालवालान्हयोत्तमान्।।

ततोऽपरेण भल्लेन शिरस्त्राणमपातयत्।
कौन्तेयस्य महेष्वासः प्रहसन्निव सूतजः।।

तथैव नकुलस्यापि हयान्हत्वा महारथः।
ततोऽपरेण भल्लेन भृशं तीक्ष्णेन भारत।
धनुश्चिच्छेद वीरस्य माद्रीपुत्रस्य धीमतः।।

तौ हताश्वौ हतरथौ पाण्डवौ भृशविक्षतौ।
भ्रातरावारुरुहतुः सहदेवरथं तदा।।

तौ दृष्ट्वा मातुलस्तत्र विरथौ परवीरहा।
अभ्यभाषत राधेयं मद्रराजोऽनुकम्पया।।

मार्गितव्यस्त्वया कर्ण कुन्तीपुत्रो धनञ्जयः।
अतस्त्वं धर्मराजेन किमर्थमिह युध्यसे।।

[क्षीणशस्त्रास्त्राकवचः क्षीणबाणो विबाणधिः।
श्रान्तसारथिवाहश्च च्छन्नोऽस्त्रैररिभिस्तथा।
पार्थमासाद्य राधेय उपहास्यो भविष्यसि।।]

तथापि कर्णः संरब्धो युधिष्ठिरमपीडयत्।
शरैस्तीक्ष्णैर्महावीर्यैर्माद्रीपुत्रौ च पाण्डवौ।।

ततः शल्यः प्रहस्येदं कर्णं पुनरुवाच ह।
रथस्थमतिसंरब्धं युधिष्ठिरवधे स्थितम्।।

यदर्थं धार्तराष्ट्रेण सततं मानितो भवान्।
तं पार्थ जहि राधेय किं ते हत्वा युधिष्ठिरम्।
`हते यस्मिन्ध्रुवं पार्थः सर्वाञ्जेष्यति नो रथान्।।

तस्मिन्हि धार्तराष्ट्रस्य निहते तु ध्रुवो जयः।
ध्वजोऽसौ दृश्यते तस्य रोचमानोंऽशुमानिव।
सारो ह्येष महाबाहो किं ते हत्वा युधिष्ठिरम्।।'

शङ्खयोर्ध्मातयोः शब्दः सुमहानेष कृष्णयोः।
श्रूयते चापघोषश्च प्रावृषीवाम्बुदस्य ह।।

असौ निघ्नन्रथोदारानर्जुनः शरवृष्टिभिः।
सर्वां ग्रसति नः सेनां कर्ण पश्यैनमाहवे।।

पृष्ठरक्षौ च शूरस्य युधामन्यूत्तमौजसौ।।

उत्तरं चास्य वै शूरश्चक्रं रक्षति सांत्यकिः।
धृष्टद्युम्नस्तथा चास्य चक्रं रक्षति दक्षिणम्।।

भीमसेनश्च वै राज्ञा धार्तराष्ट्रेण युध्यते।
यथा न हन्यात्तं भीमः सर्वेषां नोऽद्य पश्यताम्।
कुरु राधेय वै राजा यथा मुच्येत तत्तथा।।

xxxx भीमसेनेन ग्रस्तमाहवशोभिना।
यदि नामाद्य मुच्येत विस्मयः सुमहान्भवेत्।।

परित्राह्येनमभ्येत्य संशयं परमं गतम्।
किं नु माद्रीसुतौ हत्वा राजानं वा युधिष्ठिरम्।।

इति शल्यवचः श्रुत्वा राधेयः पृथिवीपते।
दृष्ट्वा दुर्योधनं चैव भीमग्रस्तं महाहवे।।

राजगृध्नुर्भृशं चैव शल्यवाक्यप्रचोदितः।
अजातशत्रुमुत्सृज्य माद्रीपुत्रौ च पाण्डवौ।।

तव पुत्रं परित्रातुमभ्यधावत वीर्यवान्।
मद्रराजप्रणुदितैरश्वैराकाशगैरिव।।

गते कर्णे तु कौन्तेयः पाण्डुपुत्रो युधिष्ठिरः।
अपायाज्जवनैरश्वैः सहदेवस्य मारिष।।

[ताभ्यां स सहितस्तूर्णं व्रीडन्निव नरेश्वरः]।
प्राप्य सेनानिवेशं स्वं मार्गणैर्भृशविक्षतः।।

अवतीर्य रथात्तूर्णमाविशच्छयनं शुभम्।
अपेतशल्यो राजा तु हृच्छल्येनाभिपीडितः।।

सोऽब्रवीद्धातरौ राजा माद्रीपुत्रौ महारथौ।
गच्छन्त त्वरितौ वीरौ यत्र भीमो व्यवस्थितः।।

`ततस्ते पाण्डवाः सर्वे समाभाष्य परस्परम्।
अनीकं भीमसेनस्य पाण्डवावभ्यगच्छताम्'।
जीमूत इव नर्दंस्तु युध्यते स वृकोदरः।।

ततोऽन्यं रथमास्थाय नकुलो रथपुङ्गवः।
सहदेवश्च तेजस्वी भ्रातरौ शत्रुकर्शनौ।।

तुरगैरग्र्यरंहोभिर्यत्र भीमस्तरस्विनौ।
अनीकैः सहितौ तत्र भ्रातरौ समवस्थितौ।।

।। इति श्रीमन्महाभारते कर्णपर्वणि
सप्तदशदिवसयुद्धे षट्‌षष्टितमोऽध्यायः।। 66 ।।