कर्णपर्व
अध्यायः ६८
सञ्जय उवाच।
ततो जनार्दनः श्रुत्वा तस्य वाक्यं विशाम्पते।
रथेनापययौ क्षिप्रं सङ्ग्रामादिति भारत।।
प्रत्यनीकमवस्थाप्य भीमं भीमपराक्रमम्।
अलं विषहितुं ह्येष कुरूणां सम्प्रपश्यताम्।।
कर्णं च समरे राजन्ग्राहयिष्यञ्श्रमं प्रति।
विश्वमार्थं च कौरव्य पार्थस्य च महात्मनः।
अपयातो रणाद्वीरो राजानं द्रष्टुमेव च।।
अर्जुनं चाब्रवीत्कृष्णो भृशं राजा परिक्षतः।
तमाश्वास्य कुरुश्रेष्ठ ततः कर्णं हनिष्यसि।।
ततो धनञ्जयः श्रुत्वा राजानं शल्यपीडितम्।
याहियाहिति बहुशो वासुदेवमचोदयत्।
राजानं प्रति वार्ष्णेय दूयते मे दृढं मनः।।
स चोद्यमानः पार्थेन केशिघ्नो वृष्णिनन्दनः।
रथेनापययौ क्षिप्रं सङ्ग्रामाद्धोरदर्शनात्।।
गच्छन्नेव तु कौन्तेयो धर्मराजदिदृक्षया।
सैन्यमालोकयामास नापश्यत्तत्र चाग्रजम्।।
युद्धं कृत्वा तु कौन्तेयो द्रोणपुत्रेण भारत।
दुःसहं वज्रिणा सङ्ख्ये पराजित्य गुरोः सुतम्।।
द्रौणिं पराजित्य ततोग्रधन्वा
कृत्वा महद्दुष्करं शूरकर्म।
आलोकयामास ततः स्वसैन्यं
धनञ्जयः शत्रुभिरप्रधृष्यः।।
संयुध्यमानान्पृतनामुखस्था--
ञ्शूरः शूरान्हर्षयन्सव्यसाची।
पूर्वापदानैः प्रथितैः प्रशंस--
न्स्थितांश्चकारात्मरथाननीके।।
अपश्यमानस्तु किरीटमाली
युधिष्ठिरं भ्रातरमाजमीढम्।
उवाच भीमं तरसाभ्युपेत्य
राज्ञः प्रवृत्तिस्त्विह कुत्र चेति।।
भीमसेन उवाच।
अपयात इतो राजा धर्मपुत्रो युधिष्ठिरः।
कर्णबाणाभितप्ताङ्गो यदि जीवेत्कथञ्चन।।
अर्जुन उवाच।
तस्माद्भवाञ्शीघ्रमितः प्रयातु
ज्ञातुं प्रवृत्तिं पुरुषर्षभस्य।
नूनं स विद्धोऽतिभृशं पृषत्कैः
कर्णेन राजा शिबिरं गतोऽसौ।।
यः सम्प्रहारैर्युधि सम्प्रवृत्ते
द्रोणेन विद्धोऽतिभृशं तरस्वी।
तस्थौ स तत्रापि जयप्रतीक्षो
द्रोणेन यावन्न हतः किलासीत्।।
स संशयं गमितः पाण्डवाग्र्यः
सङ्ख्येऽद्य कर्णेन महानुभावः।
ज्ञातुं प्रयाह्याशु तमद्य भीम
स्थास्याम्यहं शत्रुगणान्निरुध्य।।
भीमसेन उवाच।
त्वमेव जानीहि महानुभाव
राज्ञः प्रवृत्तिं भरतर्षभस्य।
अहं हि यद्यर्जुन याम्यमित्रा
वदन्ति मां भीत इति प्रवीराः।।
ततोऽब्रवीदर्जुनो भीमसेनं
संशप्तकाः प्रत्यनीकस्थिता मे।
एतानहत्वाद्य मया न शक्य--
मितोपयातुं रिपुसङ्खमध्यात्।।
अथाब्रवीदर्जुनं भीमसेनः
स्ववीर्यमासाद्य कुरुप्रवीर।
संशप्तकान्प्रतियोत्स्यामि सङ्ख्ये
सर्वानहं याहि धनञ्जय त्वम्।।
तद्भीमसेनस्य वचो निशम्य
धनञ्जयो भ्रातुरमित्रमध्ये।
द्रष्टुं कुरुश्रेष्ठमभिप्रयास्य--
न्प्रोवाच वृष्णिप्रवरं तदानीम्।।
अर्जुन उवाच।
`राजानं प्रति वार्ष्णेय दूयते मे दृढं मनः'।
चोदयाश्वान्हृषीकेश विहायैतद्बलार्णवम्।
अजातशत्रुं राजानं द्रष्टुमिच्छामि केशव।।
सञ्जय उवाच।
`तं रथ चोदयामास बीभत्सोर्वचनाद्धरिः'।।
ततो हयान्सर्वदाशार्हमुख्यः
प्रचोदयन्भीममुवाच चेदम्।
नैतच्चित्रं तव कर्माद्य भीम
यास्यावहे जहि पार्थारिसङ्घान्।।
ततो ययौ हृषीकेशो यत्र राजा युधिष्ठिरः।
शीघ्राच्छीघ्रतरो राजन्वाजिभिर्गरुडोपमैः।।
प्रत्यनीके त्ववस्थाप्य भीमसेनमरिन्दमम्।
सन्दिश्य चैनं राजेन्द्र युद्धं प्रति वृकोदरम्।।
ततस्तु गत्वा पुरुषप्रवीरौ
राजानमासाद्य शयानमेकम्।
रथादुभौ प्रत्यवरुह्य तस्मा--
द्ववन्दतुर्धर्मराजस्य पादौ।।
`इत्येवमुपसङ्गृह्य उभौ तु पाञ्जली स्थितौ।
शस्त्रक्षतौ महाराज रुधिरेण समुक्षितौ।
निहत्य वाहिनीं तुभ्यमपयातौ रणाजिरात्'।।
तं दृष्ट्वा पुरुषव्याघ्रं क्षेमिणं पुरुषर्षभम्।
मुदाभ्यनन्दतां कृष्णावश्विनाविव वासवम्।।
तावभ्यनन्दद्राजापि विवस्वानश्विनाविव।
हते महासुरे जम्भे शक्रविष्णू यथा गुरुः।।
मन्यमानो हतं कर्णं प्रीतः परपुरञ्जयः।
`स भूत्वा पुरुषव्याघ्रो राजा तत्र युधिष्ठिरः'।
हर्षगद्गदया वाचा प्रीतः प्राह परन्तपः।।
।। इति श्रीमन्महाभारते कर्णपर्वणि
सप्तदशदिवसयुद्धे अष्टषष्टितमोऽध्यायः।। 68 ।।