कर्णपर्व
अध्यायः ६५
सञ्जय उवाच।
ततः श्वेताश्वसंयुक्ते नारायणसमाहिते।
तिष्ठन्रथवरे श्रीमानर्जुनः समपद्यत।।
तद्बलं नृपतिश्रेष्ठ तावकं विजयो रणे।
व्यक्षोभयदुदीर्णाश्वं महोदधिमिवानिलः।।
दुर्योधनस्तव सुतः प्रमत्ते श्वेतवाहने।
अभ्येत्य सहसा क्रुद्धः सैन्यार्धेनाभिसंवृतः।।
पर्यवारयदायान्तं युधिष्ठिरममर्षणम्।
क्षुरप्राणां त्रिसप्तत्या ततोऽविध्यत पाण्डवम्।।
अक्रुध्यत भृशं तत्र कुन्तीपुत्रो युधिष्ठिरः।
स भल्लांस्त्रिंशतस्तूर्णं तव पुत्रे न्यवेशयत्।।
ततो धावन्त कौरव्या जिघृक्षन्तो युधिष्ठिरम्।।
दुष्टभावान्पराञ्ज्ञात्वा समवेता महारथाः।
आजग्मुस्तं परीप्सन्तः कुन्तीपुत्रं युधिष्ठिरम्।।
`सञ्जय उवाच।
युधिष्ठिरश्चित्रसेनं शरवर्षैरवाकिरत्।
चित्रसेनस्तु कौन्तेयं सङ्क्रुद्धः समवारयत्।।
मुहूर्ताद्विमुखीकृत्य चित्रसेनं स धर्मराट्।
तावकं सैन्यमभ्यघ्नत्समन्तान्निशितैः शरैः।।
तावका हि माबाहो दुर्योधनपुरोगमाः।
युधिष्ठिरं जिघृक्षन्तः सर्वसैन्यं समाक्षिपन्।।
दृष्टप्रभावांस्तान्मत्वा समवेतान्महारथान्।
आजग्मुः सम्परीप्सन्तः पाण्डवेयं युधिष्ठिरम्'।।
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः।
अक्षौहिण्या परिवृतास्तेऽभ्यधावन्युधिष्टिरम्।।
भीमसेनश्च नाराचैर्मृद्रंस्तव महारथान्।
अभ्यधावदभिप्रेप्सू राजानं शत्रुभिर्वृतम्।।
तांस्तु सर्वान्महेष्वासान्कर्णो वैकर्तनो वृषा।
शरवर्षेण महता प्रत्यवारयदागतान्।।
शरौघान्विसृजन्तस्ते प्रेयन्तश्च कुञ्जरान्।
न शेकुर्यत्नवन्तोऽपि राधेयं प्रतिवीक्षितुम्।।
तांश्च सर्वान्महेष्वासान्सर्वशस्त्रविशारदान्।
महता शरवर्षेण राधेयः प्रत्यवारयत्।।
दुर्योधनं च विंशत्या नाराचानां कृती बली।
अविध्यत्तूर्णमभ्येत्य सहदेवो महीपतिम्।।
स विद्धः सहदेवेन रराज बलसन्निधौ।
प्रभिन्न इव मातङ्गो रुधिरेण परिप्लुतः।।
दृष्ट्वा तव सुतं तत्र गाढविद्धं सुतेजनैः।
अभ्यधावद्दृढं क्रुद्धो राधेयो रथिनां वरः।।
दुर्योधनं तथा दृष्ट्वा शीघ्रमस्त्रमुदीर्य सः।
अवधीत्पाण्डवानीकं पाञ्चालांश्चैव मारिष।।
ततो यौधिष्ठिरं सैन्यं वध्यमानं महात्मना।
सहसा प्राद्रावद्राजन्मूतपुत्रशरार्दितम्।।
विविधा विशिखास्तत्र सम्पतन्ति परस्परम्।
भल्लाः पुङ्खसमाश्लिष्टाः सूतपुत्रधनुश्च्युताः।।
अन्तरिक्षे शरौघाणां पततां च परस्परम्।
सङ्घर्पेण महाराज पावकः समजायत।।
तकतो दशदिशः कर्णः शलभैरिव यायिभिः।
अभ्यघ्नंस्तरसा राजञ्शरैः परशरीरगैः।।
रक्तचन्दनसन्दिग्धौ मणिहेमविभूषितौ।
बाहू व्यत्यक्षिपत्कर्णः परमास्त्रं विदर्शयन्।।
ततः सर्वा दिशो राजन्सायकैर्विप्रमोहयन्।
अपीडयद्भृशं कर्णो धर्मराजं युधिष्ठिरम्।।
ततः क्रुद्धो महाराज धर्मपुत्रो युधिष्ठिरः।
निशितैरिषुभिः कर्णं पञ्चाशद्भिः समार्पयत्।।
[बाणान्धकारमभवत्तद्युद्धं घोरदर्शनम्।
हाहाकारो महानासीत्तावकानां विशाम्पते।।
वध्यमाने तदा सैन्ये धर्मपुत्रेण मारिष।
सायकैर्विविधैस्तीक्ष्णैः कङ्कपत्रैः शिलाशितैः।
भल्लैरनेकैर्विविधैः शक्त्यृष्टिमुसलैरपि।।
यत्र यत्र स धर्मात्मा दुष्टां दृष्टिं व्यसर्जयत्।
तत्र तत्र व्यशीर्यन्त तावका भरतर्षभ।।
कर्णोऽपि भृशसङ्कुद्रो धर्मराजं युधिष्ठिरम्।
नाराचैरर्धचन्द्रैश्च वत्सदन्तैश्च संयुगे।।
अमर्षी क्रोधनश्चैव रोषप्रस्फुरिताननः।
सायकैरप्रमेयात्मा युधिष्ठिरमभिद्रवत्।।
युधिष्ठिरश्चापि स तं स्वर्णपुङ्खैः शितैः शरैः।।]
प्रहसन्निव तं कर्णः कङ्कपत्रैः शिलाशितैः।
उरस्यविध्यद्राजानं कुन्तीपुत्रं युधिष्ठिरम्।।
स पीडितो भृशं तेन धर्मराजो युधिष्ठिरः।
उपविश्य रथोपस्थे सूतं याहीत्यनोदयत्।।
अक्रोशन्त ततः सर्वे धार्तराष्ट्राः सराजकाः।
गृह्णीध्वमिति राजानमभ्यधावन्त सर्वशः।।
ततः शताः सप्तदश केकयानां प्रहारिणाम्।
पञ्चालैः सहिता राजन्धार्तराष्ट्रान्न्यवारयन्।।
तस्मिन्सुतुमुले युद्धे वर्तमाने जनक्षये।
दुर्योधनश्च भीमश्च समेयातां महाबलौ।।
।। इति श्रीमन्महाभारते कर्णपर्वणि
सप्तदशदिवसयुद्धे पञ्चषष्टितमोऽध्यायः।। 65 ।।