कर्णपर्व

अध्यायः ६४

Karna Parva (Sanskrit) · Adhyaya 64
अक्षर का आकार

सञ्जय उवाच।

ततः सरथनागाश्वाः पाञ्चालाः पाण्डुसृञ्जयाः।
सेनापतिं परीप्सन्तो रुरुधुस्तनयं तव।।

ततः प्रववृते युद्वं तावकानां परैः सह।
घोरं प्राणभृतां काले भीमरूपं परन्तप।।

नकुलो वृषसेनं तु विद्ध्वा पञ्चभिरायसैः।
पितुः समीपे तिष्ठन्तं त्रिभिरन्त्यैरविध्यत।।

नकुलं तु ततः शूरो वृषसेनो हसन्निव।
नाराचेन सुतीक्ष्णेन विव्याध हृदये भृशम्'।।

सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शन।
शत्रुं विव्याध विंशत्या सूतं चैवास्य सप्तभिः।।

ततः शरसहस्रेण तावुभौ पुरुषर्षभौ।
अन्योन्यमाच्छादयतां तवाभज्यत वाहिनी।।

स दृष्ट्वा प्रद्रुतां सेनां धार्तराष्ट्रस्य सूतजः।
निवारयामास बलादनुपत्य विशाम्पते।।

`एतस्मिन्नन्तरे युद्धं कष्टमासीद्विशाम्पते'।
निवृत्ते तु ततः सैन्ये नकुलः कौरवान्ययौ।।

कर्णपुत्रस्तु समरे हित्वा नकुलमेव तु।
जुगोप चक्रं त्वरितो राधेयस्यैव मारिष।।

उलूकस्तु रणे क्रुद्धः सहदेवेन मारिष।
`निवारितः शरशतैः क्रुद्धेन रणमूर्धनि।।

तस्याश्वांश्चतुरो हत्वा सहदेवः प्रतापवान्।
सारथिं प्रेषयामास यमस्य सदनं प्रति।।

उलूकस्तु ततो यानादवप्लुत्य विशाम्पते।
त्रिगर्तानां बलं तूर्णं जगाम पितृनन्दनः।।

सात्यकिः शकुनिं विद्ध्वा विंशत्या निशितैः शरैः।
ध्वजं चिच्छेद भल्लेन सौबलस्य हसन्निव।।

सौबलस्तस्य समरे क्रुद्धो राजन्प्रतापवान्।
विदार्य कवचं भूयो ध्वजं चिच्छेद काञ्चनम्।।

तथैनं निशितैर्बाणैः सात्यकिः प्रत्यविध्यत।
सारथिं च महाराज त्रिभिरेव समार्पयत्।।

अथास्य वाहांस्त्वरितः शरैर्नित्ये यमक्षयम्।
ततोऽवप्लुत्य सहसा शकुनिर्भरतर्षभ।।

आरुरोह रथं तूर्णमुलूकस्य महात्मनः।
अपोवाहाथ शीघ्रं स शैनेयाद्युद्धशालिनः।।

सात्यकिस्तु रण राजंस्तावकानामनीकिनीम्।
अभिदुद्राव वेगेन ततोऽनीकमभज्वत।।

शैनेयशरसञ्छन्नं तव सैन्यं विशाम्पते।
भेजे दशा दिशस्तूर्णं न्यपतच्च गतासुवत्।।

भीमसेनं तव सुतो वारयामास संयुगे।।

तं तु भीमो मुहूर्तेन व्यश्वसूतरथध्वजम्।
चक्रे लोकेश्वरं तत्र तेनातुष्यन्त वै जनाः।।

ततोऽपायान्नृपस्तस्माद्भीमसेनभयार्दितः।
कुरुसैन्यं ततः सर्वं भीमसेनमुपाद्रवत्।
तत्र नादो महानासीद्धीमसेनं जिघांसताम्।।

युधामन्युः कृपं विद्ध्वा धनुरस्याशु चिच्छदे।
अथान्यद्धनुरादाय कृपः शस्त्रभृतां वरः।
युधामन्योर्ध्वजं सूतं छत्रं चापातयत्क्षितौ।।

ततोऽपायाद्रथेनैव युधामन्युर्महारथः।।

उत्तमौजाश्च हार्दिक्यं भीमं भीमपराक्रमम्।
छादयामास सहसा मेघो वृष्ट्येव पर्वतम्।।

तद्युद्धमासीत्सुमहद्धोररूपं परन्तप।
तादृशं न मया युद्धं दृष्टपूर्वं विशाम्पते।।

कृतवर्मा ततो राजन्नुत्तमौजसमाहवे।
हृदि विव्याध सहसा रथोपस्थ उपाविशत्।।

सारथिस्तमपोवाह रथेन रथिनां वरम्।
ततस्तु सात्वतो राजन्पाण्डुसैन्यमभिद्रवत्।।

[दुःशासनः सौबलश्च गजानीकेन पाण्डवम्।
महता परिवार्यैव क्षुद्रकैरभ्यताडयत्।।

ततो भीमः शरशतैर्दुर्योधनममर्षणम्।
विमुखीकृत्य तरसा गजानीकमुपाद्रवत्।।

तमापतन्तं सहसा गजानीकं वृकोदरः।
दृष्ट्वैव सुभृशं क्रुद्धो दिव्यमस्त्रमुदैरयत्।।

गजैर्गजानभ्यहनद्वज्रेणेन्द्र इवासुरान्।।

ततोऽन्तरिक्षं बाणौघैः शलभैरिव पादपम्।
छादयामास समरे गजान्निघ्नन्वृकोदरः।।

ततः कुञ्जरयूथानि समेतानि सहस्रशः।
व्यधमत्तरसा भीमो मेघसङ्घानिवानिलः।।

सुवर्णजालापिहिता मणिजालैश्च कुञ्जराः।
रेजुरभ्यधिकं संख्ये विद्युत्वन्त इवाम्बुदाः।।

ते वध्यमाना भीमेन गजा राजन्विदुद्रुवुः।
केचिद्विभिन्नहृदयाः कुञ्जरा न्यपतन्भुवि।।

पतितैर्निपतद्भिश्च गजैर्हेमविभूषितैः।
अशोभत मही तत्र विशीर्णैरिव पर्वतैः।।

दीप्ताभै रत्नवद्भिश्च पतितैर्गजयोधिभिः।
रराज भूमिः पतितैः क्षीणपुण्यैरिव ग्रहैः।।

ततो भिन्नकटा नागा भिन्नकुम्भकरास्तथा।
दुद्रुवुः शतशः संख्ये भीमसेनशराहताः।।

केचिद्वमन्तो रुधिरं भयार्ताः पर्वतोपमाः।
व्यद्रवञ्छरविद्धाङ्गा धातुचित्रा इवाचलाः।।

महाभुजगसङ्काशौ चन्दनागुरुरूषितौ।
अपश्यं भीमसेनस्य धनुर्विक्षिपतो भुजौ।।

तस्य ज्यातलनिर्घोषं श्रुत्वाशनिसमस्वनम्।
विमुञ्चन्तः शकृन्मूत्रं गजाः प्रादुद्रुवुर्भृशम्।।

भीमसेनस्य तत्कर्म राजन्नेकस्य धीमतः।
निघ्नतः सर्वभूतानि रुद्रस्येव च निर्बभौ।।]

।। इति श्रीमन्महाभारते कर्णपर्वणि
सप्तदशदिवसयुद्धे चतुःषष्टितमोऽध्यायः।। 64 ।।