कर्णपर्व
अध्यायः ६३
धृतराष्ट्र उवाच।
निवृत्ते भीमसेने च पाण्डवे च युधिष्ठिरे।
वध्यमाने बले चापि मामके पाण्डुसृञ्जयैः।।
द्रवमाणे बलौघे च निराक्रन्दे मुहुर्मुहुः।
`अवशेषं न पश्यामि मम सैन्येषु सञ्जय।।
अहो बत दशां प्राप्तो न हि शक्ष्यामि जीवितुम्।
जयकाङ्क्षी कथं सूत पुत्राणामनिवर्तिनाम्।।
कथं जीवामि निहताञ्श्रुत्वा च मम सैनिकान्।
बहुनाऽद्य किमुक्तेन दैवं तेषां परायणम्'।।
मामकाः किमकुर्वन्त तन्ममाचक्ष्व सञ्जय।।
सञ्जय उवाच।
दृष्ट्वा भीमं महाबाहुं तव पुत्रः प्रतापवान्।
क्रोधरक्तेक्षणो राजन्भीमसेनमभिद्रवत्।।
`तिष्ठतिष्ठ पृथापुत्र पश्य मेऽद्य पराक्रमम्।
अद्य त्वां प्रेषायष्यामि यमस्य सदनं प्राते।
इत्युक्त्वा प्रययौ कर्णो यत्र भीमो व्यवस्थितः'।।
तावकं तु बलं दृष्ट्वा भीमसेनात्पराङ्मुखम्।
यत्नेन महता कर्णः पर्यवस्थापयद्बली।।
व्यवस्थाप्य महाबाहुस्तव पुत्रस्य वाहिनीम्।
प्रत्युद्ययौ तदा कर्णः पाण्डवान्युद्धदुर्मदान्।।
प्रत्युद्ययुश्च राधेयं पाण्डवानां महारथाः।
धुन्वानाः कार्मुकाण्याजौ विक्षिपन्तश्च सायकान्।।
भीमसेनः शिनेर्नप्ता शिखण्डी जनमेजयः।
धृष्टद्युम्नश्च बलवान्सर्वे चापि प्रभद्रकाः।।
पाञ्चालानां नरव्याघ्राः समन्तात्त्व वाहिनीम्।
अभ्यद्रवन्त सङ्क्रुद्धाः समरे जितकाशिनः।।
तथैव तावका राजन्पाण्डवानामनीकिनीम्।
अभ्यद्रवन्त त्वरिता जिघांसन्तो महारथान्।।
रथनागाश्वकलिलं पत्तिध्वजसमाकुलम्।
बभूव पुरुषव्याघ्र सैन्यमद्भुतदर्शनम्।।
शिखण्डी तु ययौ कर्णं धृष्टद्युम्नः सुतं तव।
दुःशासनं महाराज महासेनः समभ्ययात्।।
नकुलो वृषसेनं तु चित्रसेनं युधिष्ठिरः।
उलूकं समरे राजन्सहदेवः समभ्ययात्।।
सात्यकिः शकुनिं चापि द्रौपदेयाश्च कौरवान्।
अर्जुनं च रणे यत्तो द्रोणपुत्रो महारथः।।
युधामन्युं महेष्वासं गौतमोऽभ्यपतद्रणे।
कृतवर्मा च बलवानुत्तमौजसमाद्रवत्।।
भीमसेनः कुरून्सर्वान्पुत्रांश्च तव मारिष।
सहानीकान्महाबाहुरेक एव न्यवारयत्।।
शिखण्डी तु ततः कर्णं विचरन्तमभीतवत्।
भीष्महन्ता महाराज वारयामास पत्रिभिः।।
प्रतिरुद्धस्ततः कर्णो रोपात्प्रस्फुरिताधरः।
शिखण्डिनं त्रिभिर्बाणैर्भ्रुवोर्मध्येऽभ्यताडयत्।।
धारयंस्तु स तान्वाणाञ्शिखण्डी बह्वशोभत।
राजतः पर्वतो यद्वत्त्रिभिः शृङ्गैः समन्वितः।।
सोऽतिविद्धो महेष्वासः सूतपुत्रेण संयुगे।
कर्णं विव्याध समरे नवत्या निशितैः शरैः।।
तस्य कर्णो हयान्हत्वा सारथिं च शरैः।
उन्ममाथ ध्वजं चास्य क्षुरप्रेण महारथः।।
हताश्वात्तु ततो यानादवप्लुत्य महारथः।
शक्तिं चिक्षेप कर्णाय सङ्क्रुद्धः शत्रुतापनः।।
तां छित्त्वा समरे कर्णस्त्रिभिर्भारत सायकैः।
शिखण्डिनमथाविध्यन्नवभिर्निशितैः शरैः।।
कर्णचापच्युतान्बाणान्वर्जयंस्तु नरोत्तमः।
अपयातस्ततस्तूर्णं शिखण्डी भृशविक्षतः।।
ततः कर्णो महाराज पाण्डुसैन्यान्यशातयत्।
तूलराशिं समासाद्य यथा वायुर्महाबलः।।
धृष्टद्युम्नो महाराज तव पुत्रेण पीडितः।
दुःशासनं त्रिभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे।।
तस्य दुःशासनो बाहुं सव्यं विव्याध मारिष।
स तेन रुक्मपुङ्खेन भल्लेन नतपर्वणा।।
धृष्टद्युम्नस्तु निर्विद्धः शरं घोरममर्षणः।
दुःशासनाय सङ्क्रुद्धः प्रेषयामास भारत।।
आपतन्तं महावेगं धृष्टद्युम्नसमीरितम्।
शरैश्चिच्छेद पुत्रस्ते त्रिभिरेव विशाम्पते।।
अथापरैः षोडशभिर्भल्लैः कनकभूषणैः।
धृष्टद्युम्नं समासाद्य बाह्वोरुरसि चार्पयत्।।
ततः स पार्षतः क्रुद्धो धनुश्चिच्छेद मारिष।
क्षुरप्रेण सुतीक्ष्णेन तत उच्चुक्रुशुर्जनाः।।
अथान्यद्धनुरादाय पुत्रस्ते प्रहसन्निव।
धृष्टद्युम्नं शरव्रातैः समन्तात्पर्यवारयत्।।
तव पुत्रस्य ते दृष्ट्वा विक्रमं सुमहात्मनः।
व्यस्मयन्त रणे योधाः सिद्धाश्चाप्सरसस्तथा।।
धृष्टद्युम्नं तु पश्याम घटमानं महाबलम्।
दुःशासनेन संरुद्धं सिंहेनेव महागजम्।।
।। इति श्रीमन्महाभारते कर्णपर्वणि
सप्तदशदिवसयुद्धे त्रिषष्टितमोऽध्यायः।। 63 ।।