कर्णपर्व

अध्यायः ६०

Karna Parva (Sanskrit) · Adhyaya 60
अक्षर का आकार

सञ्जय उवाच।

हस्तिभिस्तु महामात्रास्तव पुत्रेण चोदिताः।
धृष्टद्युम्नं घ्नतेत्याशु क्रुद्धाः पार्षतमभ्ययुः।।

प्राच्याश्च दाक्षिणात्याश्च प्रवरा गजयोधिनः।
अङ्गा वङ्गाश्च पुण्ड्राश्च मागधास्ताम्रलिप्तकाः।।

मेकलाः कोशला मद्रा दशार्णा निषधास्तथा।
गजयुद्धेषु कुशलाः कलिङ्गैः सह भारत।।

शरतोमरनाराचैर्वृष्टिमन्त इवाम्बुदाः।
सिषिचुस्ते ततः सर्वे पाञ्चालबलमाहवे।।

तानभिद्रवतो नागान्मदवेगसमुद्धतान्।
विपाठक्षुरनाराचैर्धृष्टद्युम्नो ह्यवीवृषत्।।

एकैकं दशभिः ष़ड्भिरष्टाभिरपि पार्षतः।
द्विरदानभिविव्याध क्षिप्रं गिरिनिभाञ्शरैः।।

प्रच्छाद्यमानं द्विरदैर्मेघैरिव दिवाकरम्।
पर्ययुः पाण्डुपाञ्चाला नदन्तो ह्यात्तकार्मुकाः।।

तान्नागानभिवर्षन्तो ज्यातलत्रविनादिनः।
वीरनृत्यं प्रनृत्यन्तः शूरतालप्रचोदितैः।
नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः।।

सात्यकिश्च शिखण्डी च चेकितानश्च वीर्यवान्।
समन्तात्सिषिचुर्वीरा मेघास्तोयैरिवाचलान्।।

ते म्लेच्छैः प्रेषिता नागा नरानश्वान्रथानपि।
हस्तैराक्षिप्य ममृदुः पद्भिश्चाप्यतिमन्यवः।।

बिभिदुश्च विषाणाग्रैः समाक्षिप्य च चिक्षिपुः।
विषाणलग्नाश्चाप्यन्ये परिपेतुर्विभीषणाः।।

प्रमुखे वर्तमानं तु द्विपमङ्गस्य सात्यकिः।
नाराचेनोग्रवेगेन भित्त्वा मर्माण्यताडयत्।।

तस्यावर्जितकायस्य द्विरदादुत्पतिष्यतः।
नाराचेनाहनद्वक्षः सात्यकिः सोऽपतद्भुवि।।

पुण्ड्रस्यापततो नागं चलन्तमिव पर्वतम्।
सहदेवः प्रसन्नाग्रैर्नाराचैरहनत्त्रिभिः।।

विपताकं वियन्तारं विवर्मध्वजजीवितम्।
तं कृत्वा द्विरदं भूयः सहदेवोऽङ्गमभ्ययात्।।

सहदेवं तु नकुलो वारयित्वाङ्गमार्दयत्।
नाराचैर्यमदण्डाभैस्त्रिभिर्नागं शतेन तम्।।

दिवाकरकप्रख्यानङ्गश्चिक्षेप तोमरान्।
नकुलाय शतान्यष्टौ त्रिधैकैकं तु सोऽच्छिनत्।।

तथाऽर्धचन्द्रेण शिरस्तस्य चिच्छेद पाण्डवः।
स पपात हतो म्लेच्छस्तेनैव सह दन्तिना।।

अथाङ्गपुत्रे निहते हस्तिशिक्षाविशारदे।
अङ्गाः क्रुद्धा महामात्रा नागैर्नकुलमभ्ययुः।।

चलत्पताकैः सुमुखैर्हेमकक्ष्यातनुच्छदैः।
मिमर्दिषन्तस्त्वरिताः प्रदीप्तैरिव पर्वतैः।।

मेकलोत्कलकालिङ्गा निषधास्ताम्रलिप्तकाः।
शरतोमरवर्षाणि विमुञ्चन्तो जिघांसवः।।

तैश्छाद्यमानं नकुलं निशाकरमिवाम्बुदैः।
परिपेतुः सुसंरब्धाः पाण्डुपाञ्चालसात्यकाः।।

ततस्तदभवद्युद्धं रथिनां हस्तिभिः सह।
सृजतां शरवर्षाणि तोमरांश्च सहस्रशः।।

नागानां प्रास्फुटन्कुम्भा मर्माणि च नखानि च।
दन्ताश्चैवातिविद्धानां नाराचैर्हेमभूषणैः।।

तेषामष्टौ महानागांश्चतुःषष्ट्या सुतेजनैः।
नाराचैः सहदेवस्तान्पातयामास सादिभिः।।

अञ्जोगतिभिरायम्य प्रयत्नाद्धनुरुत्तमम्।
नाराचैरहनन्नागान्नकुलः कुलनन्दनः।।

ततः पाञ्चालशैनेयौ द्रौपदेयाः प्रभद्रकाः।
शिखण्डी च महानागान्सिषिचुः शरवृष्टिभिः।।

ते पाण्डुयोधाम्बुधरैः शत्रुद्विरदपर्वताः।
बाणवर्षैर्हताः पेतुर्वज्रवर्षैरिवाचलाः।।

एवं हत्वा तव गजांस्ते पाण्डुरथकुञ्जराः।
द्रुतं सेनां च वर्षन्तो भिन्नकूलामिवापगाम्।।

तां ते सेनां समालोड्य पाण्डुपुत्रस्य सैनिकाः।
विक्षोभयित्वा च पुनः कर्णं समभिदुद्रुवुः।।

।। इति श्रीमन्महाभारते कर्णपर्वणि
सप्तदशदिवसयुद्धे षष्टितमोऽध्यायः।। 60 ।।