कर्णपर्व

अध्यायः ६१

Karna Parva (Sanskrit) · Adhyaya 61
अक्षर का आकार

सञ्जय उवाच।

तेषां प्रवृत्ते सङ्ग्रामे विपुले शोणितोदके।
रराज लोहितेनोर्वी संसिक्ता बहुधा भृशम्।।

ततो रजसि संशान्ते प्रकाशः सर्वतोऽभवत्।
एतस्मिन्नन्तरे पार्थं कृष्णो वचनमब्रवीत्।
दर्शयन्निव कौन्तेयं धर्मराजं युधिष्ठिरम्।।

एष पाण्डव ते भ्राता धार्तराष्ट्रैर्महाबलैः।
जिघांसुभिर्महेष्वासैः शीघ्रं पार्थोऽनुसार्यते।।

तमन्वगेव पाञ्चालाश्चेदिमात्स्याश्च भारत।
अनुयान्ति महात्मानं परीप्सन्तो महाजवाः।।

एष दुर्योधनः पार्थ गजानीकेन दंशितः।
राजा सर्वस्य लोकस्य राजानमनुधावति।।

जिघांसुः पुरुषव्याघ्रं भ्रातृभिः सहितो बली।
आशीविषसमस्पर्शैः सर्वायुधविशारदैः।।

नदद्भिः सिंहनादांश्च धमद्भिश्चापि वारिजान्।
बलवद्भिर्महेष्वासैर्विधून्वानैर्धनूंषि च।।

एते जिघृक्षवो यान्ति द्विपाश्वरथपत्तयः।
युधिष्ठिरं धार्तराष्ट्रो रत्नोत्तममिवार्थिनः।।

पश्य सात्वतभीमाभ्यां निरुद्धा विष्ठिताः पुनः।
जिहीर्षवोऽमृतं दैत्याः शक्राग्निभ्यामिवाहवे।।

एते बहुत्वात्त्वरिताः पुनर्गच्छन्ति पाण्डवम्।
समुद्रमिव वार्योघाः प्रावृट्‌काले महारथाः।।

मृत्योर्मुखगतं मन्ये कुन्तीपुत्रं युधिष्ठिरम्।
हुतमग्नौ च कौन्तेयं दुर्योधनवशं गतम्।।

यथायुक्तमनीकं हि धार्तराष्ट्रस्य पाण्डव।
नास्य शक्रोऽपि मुच्येत सम्प्राप्तो बाणगोचरम्।।

दुर्योधनस्य वीरस्य शरौघाञ्शीघ्रमस्यतः।
सङ्क्रुद्धस्यान्तकस्येव को वेगं संसहेद्रणे।।

रसतस्तस्य वीरस्य द्रौणेः शारद्वतस्य च।
कर्णस्य चेषुवेगो वै पर्वतानपि शातयेत्।।

कर्णेन च कृतो राजा विमुखोऽद्य तु दृश्यते।।

बलवाँल्लुघुहस्तश्च कृती युद्धविशारदः।
राधेयः पाण्डवश्रेष्ठं शक्तः पीडयितुं रणे।
सहितो धृतराष्ट्रस्य पुत्रैः शूरैर्महाबलैः।।

तस्यैभिर्युध्यमानस्य सङ्ग्रामे शंसितात्मनः।
अन्यैरपि च पार्थस्य कृतं कर्म महारथैः।।

उपवासकृशो राजा भृशं भरतसत्तमः।
ब्राह्मो बले स्थितो ह्येष न क्षात्रे हि बले विभुः।।

कर्णेन चाभियुक्तोऽयं भूपतिः शत्रुतापनः।
संशयं समनुप्राप्तः पाण्डवो वै युधिष्ठिरः।।

न जीवति महाराजो मन्ये पार्थ युधिष्ठिरः।
यद्भीमसेनः सहते सिंहनादममर्षणः।।

नर्दतां धार्तराष्ट्राणां पुनःपुनररिन्दमः।
धमतां च महाशङ्खान्सङ्ग्रामे जितकाशिनाम्।।

युधिष्ठिरं पाण्डवेयं हतेति भरतर्षभ।
सञ्चोदयत्यसौ कर्णो धार्तराष्ट्रान्महाबलान्।।

स्थूणाकर्णास्त्रजालेन पार्थ पाशुपतेन च।
प्रच्छादयन्ति राजानमनुयान्ति महारथाः।।

।। इति श्रीमन्महाभारते कर्णपर्वणि
सप्तदशदिवसयुद्धे एकषष्टितमोऽध्यायः।। 61 ।।