कर्णपर्व
अध्यायः ५९
सञ्जय उवाच।
ततः प्रववृते भूयः सङ्ग्रामो राजसत्तम।
कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः।।
धनूंषि बाणान्परिघानसिपट्टसतोमरान्।
मुसलानि भुशुण्डीश्च शक्तिरिष्टिपरश्वथान्।।
गदाः प्रासाञ्शितान्कुन्तान्भिंडिपालान्महाङ्कुशान्।
प्रगृह्य क्षिप्रमापेतुः परस्परजिघांसया।।
बाणज्यातलशब्देन द्यां दिशः प्रदिशो वियत्।
पृथिवीं नेमिघोषेण नादयन्तोऽभ्ययुः परान्।।
तेन शब्देन महता संहृष्टाश्चक्रुराहवम्।
वीरा वीरैर्महाप्तोरकलहान्तं तितीर्षवः।।
ज्यातलत्रधनुःशब्दाञ्शस्त्राणां च निपात्यताम्।
ताडितानां च पतता निनादांश्च पदातिनाम्।।
बाणशब्दांश्च विविधाञ्शूराणां चाभिगर्जताम्।
श्रुत्वा गजा भृशं त्रेसुः पेतुर्मम्लुश्च सैनिकाः।।
तेषां निनदतां चैव शस्त्रवर्षं च मुञ्चताम्।
बहूनाधिरथिर्वीरः प्रममाथेषुभिः परान्।।
पञ्च पाञ्चालवीराणां रथान्दश च पञ्च च।
साश्वसूतध्वजान्कर्णः शरैर्निन्ये यमक्षयम्।।
योधमुख्या महावीर्याः पाण्डूनां कर्णमाहवे।
शिक्षितास्तमभिद्रुत्य परिवव्रुः समन्ततः।।
ततः कर्णो द्विषत्सेनां शरवर्षैर्विलोडयन्।
विजगाहाण्डजाकीर्णां पद्मिनीमिव यूथपः।।
द्विषत्सैन्यमवस्कन्द्य राधेयो धनुरुत्तमम्।
विधुन्वानः शितैर्बाणैः शिरांस्युन्मथ्य पातयत्।।
`हस्तिनः समहामात्रान्साश्वारोहान्हयानपि।
रथिनोऽप्येकबाणेन भ्रमतश्चावपातयत्'।।
वर्म वा चर्म वाऽश्रित्य निपातमपि देहिनः।
विषेहुर्नास्य संस्पर्शं द्वितीयस्य पतत्त्रिणः।।
वर्मयुक्तेषु देहेषु धनुषोऽस्यञ्शिताञ्शरान्।
मौर्व्या तलत्रे न्यहनत्कशया वाजिनो यथा।।
पाण्डुसृञ्जयपाञ्चालाञ्शरगोचरमागतान्।
ममर्द तरसा कर्णः सिंहो मृगगणानिव।।
ततः पाञ्चालपुत्रश्च द्रौपदेयाश्च मारिष।
यमौ च युयुधानश्च त्वरिताः कर्णमभ्ययुः।।
तेषु व्यायच्छमानेषु कुरुपाञ्चालपाण्डुषु।
प्रियानसून्रणे त्यक्त्वा योधा जघ्नुः परस्परम्।।
सुसन्नद्धाः कवचिनः सशिरस्त्राणभूषणाः।
गदाभिर्मुसलैश्चान्ये परिघैश्च महाबालाः।।
समभ्यधावन्त भृशं कालदण्डैरिवोद्यतैः।
नर्दन्तश्चाह्वयन्तश्च प्रवल्गन्तश्च मारिष।।
ततो निजघ्नुरन्योन्यं पेतुश्चान्योन्यताडिताः।
वमन्तो रुधिरं गात्रैर्विमस्तिष्केक्षमायुधाः।।
दन्तपूर्णैः सरुधिरैर्वक्रैर्दाडिमसन्निभैः।
जीवन्त इव चाप्येके तस्थुः शस्त्रौघबृंहिताः।।
परश्वथैश्चाप्यपरे पट्टसैरसिभिस्तथा।
शक्तिभिर्भिण्डिपालैश्च नखरप्रासतोमरैः।।
ततक्षुश्चिच्छिदुश्चान्ये बिभिदुश्चिक्षिपुस्तथा।
सञ्चकर्तुश्च जघ्नुश्च राजन्योधा महारणे।।
पेतुरन्योन्यनिहता व्यसवो रुधिरोक्षिताः।
क्षरन्तः स्वरसं रक्तं प्रकृत्ताश्चन्दना इव।।
रथै रथा विनिहता हस्तिभिश्चापि हस्तिनः।
नरैर्नरा हताः पेतुरश्वाश्चाश्वैः सहस्रशः।।
ध्वजाः शिरांसि च्छिन्नाः पेतुर्महीतले।।
`वध्यतां दारुणाः शब्दाः पततां स्तनतामपि।
क्षुरैर्भल्लार्धचन्द्रैश्च च्छिन्नाः पेतुर्महीतले।।
नराश्वेभरथानां हिनराश्वेभरथैस्तथा'।।
नरांश्च नागांश्च रथान्हयान्ममृदुराहवे।।
अश्वारोहैर्हताः शूराश्छिन्नहस्ताश्च दन्तिनः।
सपताकाध्वजाः पेतुर्विशीर्णा इव पर्वताः।।
पत्तिभिश्च समाप्लुत्य द्विरदाः स्यन्दनास्तथा।
हताश्च हन्यमानाश्च पतिताश्चैव सर्वशः।।
अश्वारोहाः समासाद्य त्वरिताः पत्तिभिर्हताः।
सादिभिः पत्तिसङ्घाश्च निहता युधि शेरते।।
मृदितानीव पद्मानि प्रम्लाना इव च स्रजः।
हतानां वदनान्यासन्गात्राणि च महाहवे।।
रूपाण्यत्यर्थकान्तानि द्विरदाश्वनृणां नृप।
समुन्नानीव वस्त्राणि ययुर्दुर्दुर्शतां पराम्।।
।। इति श्रीमन्महाभारते कर्णपर्वणि
सप्तदशदिवसयुद्धे एकोनषष्टितमोऽध्यायः।। 59 ।।