कर्णपर्व
अध्यायः ५८
सञ्जय उवाच।
एवमुक्तः प्रत्युवाच धृष्टद्युम्नः प्रतापवान्।
आशिषं तां प्रवक्तव्यां मामको दास्यते तव।।
येनैव ते पितुर्दत्ता यतमानस्य संयुगे।
एष ते प्रतिवाक्यं वै असिर्दास्यति मामकः।
येन कृत्तं तव पितुर्यतमानस्य तच्छिरः।।
यदि तावन्मया द्रोणो निहतो ब्राह्मणब्रुवः।
त्वामिदानीं कथं युद्धे न हनिष्यामि किल्बिषम्।।
एवमुक्त्वा महातेजाः सेनापतिररिन्दमः।
सुतीक्ष्णेनाथ भल्लेन द्रौणिं विव्याध पार्षतः।।
ततो द्रौणिः सुसङ्क्रुद्धः शरैः सन्नतपर्वभिः।
आच्छादयद्दिशो राजन्धृष्टद्युम्नस्य संयुगे।।
नैवान्तरिक्षं न दिशो नापि योधाः सहस्रशः।
दृश्यन्ते वै महाराज शरैश्छन्नाः समन्ततः।
एकः सन्वारयामास प्रेक्षणीयः समन्ततः।।
तथैव पार्षतो राजन्द्रौणिमाहवशोभिनम्।
शरैः सञ्छादयामास सूतपुत्रस्य पश्यतः।।
राधेयोऽपि महाराज पाञ्चालान्सह पाण्डवैः।
द्रौपदेया युधामन्युमुत्तमौजसमेव च।।
सात्यकिश्च महाराज योधांश्चान्यान्सहस्रशः।
एकस्तान्वारयामास प्रेक्षणीयः समन्ततः।।
धृष्टद्युम्नस्तु समरे द्रौणेश्चिच्छेद कार्मुकम्।
क्षुरप्रेण सुतीक्ष्णेन पश्यतां सर्वयोधिनाम्।।
तदपास्य धनुश्छिन्नमन्यदादत्त कार्मुकम्।
वेगवत्समरे घोरं शरांश्चाशीविषोपमान्।।
स पार्षतस्य राजेन्द्र धनुः शक्तिं गदां ध्वजम्।
हयान्सूतं रथं चैव निमेषाद्व्यधमच्छरैः।।
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः।
खङ्गमादत्त विपुलं शतचन्द्रं च भानुमत्।।
द्रौणिस्तदपि राजेन्द्र भल्लैः क्षिप्रं महारथः।
चिच्छेद समरे वीरः क्षिप्रहस्तो दृढायुधः।।
रथादनवरूढस्य धन्विनो बाहुशालिनः।
पश्यतां सर्वसैन्यानां तदद्भुतमिवाभवत्।।
धृष्टद्युम्नं तु विरथं हताश्वरथसारथिम्।
शस्त्रैश्च बहुधा विद्धमस्त्रैश्च शकलीकृतम्।
नातरद्भरतश्रेष्ठ यदमानो महारथः।।
तस्यान्तमिषुभी राजन्यदा द्रौणिर्न गच्छति।
अथ त्यक्त्वा रथं वीरः पार्षतं त्वरितोऽन्वगात्।
प्रगृह्य विपुलं खह्गं जातरूपपरिष्कृतम्।।
तस्य सम्पततो राजन्वपुरासीन्महात्मनः।
गरुडस्येव ततो जिघृक्षोः पन्नगोत्तमम्।।
एतस्मिन्नेव काले तु केशवः परवीरहा।
अब्रवीद्भरतश्रेष्ठमर्जुनं जयतां वरम्।।
पश्य द्रौणिं पार्षतस्य यतमानं वधं प्रति।
यत्नं करोति विपुलं हन्याच्चैनं न संशयः।।
त्रायस्वैनं महाबाहो पार्षतं युद्धदुर्मदम्।
द्रौणेरास्यगतं वीर मृत्योरास्यगतं यथा।।
एवमुक्त्वा महाराज वासुदेवः प्रतापवान्।
प्रैषयत्तुरगान्यत्र द्रौणिर्वीरो व्यवस्थितः।।
ते हयाश्चन्द्रसङ्काशाः केशवेन प्रचोदिताः।
पिबन्त इव चाकाशं जग्मुद्रौणेर्महारथम्।।
दृष्ट्वा द्रौणिर्महाराज वासुदेवधनंजयौ।
धृष्टद्युम्नवधे राजंश्चक्रे यत्नं महाबलः।।
विकृष्यमाणं दृष्ट्वै धृष्टद्युम्नं जनेश्वर।
शरांश्चिक्षेप वै पार्थो द्रौणिं प्रति महारथः।।
ते शरा हेमविकृता गाण्डीवप्रेषिता भृशम्।
द्रौणिमासाद्य विविशुर्वल्मीकमिव पन्नगाः।।
विद्धस्तु तैः शरैर्घोरैद्रोणपुत्रः प्रतापवान्।
उत्सृज्य समरे राजन्पाञ्चालममितौजसम्।।
आरुरोह रथं वीरो धनञ्जयशरार्दितः।
प्रगृह्य च धनुः श्रेष्ठं पार्थं विव्याध सायकैः।।
एतस्मिन्नन्तरे शूरः सहदेवो जनाधिप।
अपोवाह रथेनाजौ पार्षतं शत्रुतापनम्।।
अर्जुनोऽपि महाराज द्रौणिं विव्याध पत्रिभिः।
तं द्रोणपुत्रः संरब्धो बाह्वोरुरसि चार्पयत्।।
क्रोधितस्तु रणे पार्थो नाराचं कालसन्निभम्।
द्रोणपुत्राय चिक्षेप यमदण्डमिवापरम्।।
स ब्राह्मणस्यांसदेशे निपपात महाद्युतेः।
स विह्वलो महाराज शरवेगेन संयुगे।
निषसाद रथोपस्थे वैक्लव्यं परमं ययौ।।
तं तु मत्वा हतं वीरं सारथिः शत्रुकर्शनम्।
अपोवाह रणेनाजौ त्वरमाणो रणाजिरात्।।
अथोद्धृष्टं महाराज पाञ्चालैर्जितकाशिभिः।
मोक्षितं पार्षतं दृष्ट्वा द्रोणपुत्रं च पीडितम्।।
वादित्राणि च दिव्यानि प्रावाद्यन्त सहस्रशः।
सिंहनादश्च सञ्जज्ञे दृष्ट्वा युद्धं तदद्भुतम्।।
ततः कर्णो महाराज व्याक्षिपद्विजयं धनुः।
दृष्ट्वार्जुनं रणे क्रुद्धः प्रेक्षते च मुहुर्मुहुः।
द्वैरथं चापि पार्थेन गन्तुकामो महाद्युतिः।।
एवं कृत्वाऽब्रवीत्पार्थो वासुदेवं धनञ्जयः।
याहि संशप्तकान्कृष्ण कार्यमेतत्परं मम।।
ततः प्रयातो गोविन्दः श्रुत्वा पाण्डवभाषितम्।
रथेनातिपताकेन मनोमारुतरंहसा।।
एवमेष क्षयो वृत्तः पृथिव्यां पृथिवीपते।
तावकानां परेषां च राजन्दुर्मन्त्रिते तव।।
।। इति श्रीमन्महाभारते कर्णपर्वणि
सप्तदशदिवसयुद्धे अष्टपञ्चाशोऽध्यायः।। 58 ।।