कर्णपर्व

अध्यायः ५७

Karna Parva (Sanskrit) · Adhyaya 57
अक्षर का आकार

दृतराष्ट्र उवाच।

पाण्ड्ये हते किमकरोदर्जुनो जयतांवरः।
एकवीरेण कर्णेन द्राविते च युधिष्ठिरे।।

समाप्तविद्यो बलवान्युक्तो वीरश्च पाण्डवः।
सर्वभूतेष्वनुज्ञातः शङ्करेण महात्मना।।

तस्मान्महद्भयं तीव्रममित्रघ्नाद्धनञ्जयात्।
स यत्तत्राकरोत्पार्थस्तन्ममाचक्ष्व सञ्जय।।

सञ्जय उवाच।

हते पाण्ड्येऽर्जुनं कृष्णस्त्वरन्नाह वचो हितम्।
हतं पश्य स्वराजानमपयातांश्च पाण्डवान्।।

कर्णं पश्य महारङ्गे ज्वलन्तमिव पावकम्।
असौ भीमो महेष्वासः प्रतिवृत्तो रणं प्रति।।

त इमे नानुवर्तन्ते धृष्टद्युम्नपुरोगमाः।
पाञ्चालाः सृञ्जयाश्चैव पाण्डवानां चमूमुखम्।।

`निवृत्तैश्च पुनः पार्थैर्भग्नं शत्रुबलं महत्'।
कौरवान्द्रवतो ह्येष कर्णो वारयते भृशम्।।

अन्तकप्रतिमो वेगे शक्रतुल्यपराक्रमः।
असौ गच्छति कौन्तेय द्रौणिः शस्त्रभृतां वरः।।

तमेष प्रद्रुतः सङ्ख्ये धृष्टद्युम्नो महारथः।
अश्वत्थाम्ना हताः सङ्ख्ये सर्वे कौन्तेय सृञ्जयाः।।

रथाश्वनरनागानां कृतं च कदनं महत्।
इत्येतत्सर्वमाचष्ट वासुदेवः किरीटिने।।

एतच्छ्रुत्वा च दृष्ट्वा च भ्रातृणां व्यसनं महत्।
वाहयाश्वान्हृषीकेश क्षिप्रमित्याह पाण्डवः।।

ततः प्रायाद्धृषीकेशो रथेनाप्रतिमो युधि।
`ततो रेणुः समभवत्पुनस्तत्र महारणे।।

ततो राजन्महानासीत्सङ्गामो रोमहर्षणः।
सिंहनादरवाश्चात्र प्रादुरासन्समागमे।
उभयोः सेनयो राजन्मृत्युं कृत्वा निवर्तनम्।।

ततः हुनः समाजग्मुरभीताः कुरुसृञ्जयाः।
युधिषरमुखाः पार्था वैकर्तनमुखा वयम्।।

ततः प्रववृते यूद्धं घोररूपं विशाम्पते।
कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनम्।।

तस्मिन्प्रवृत्ते सङ्ग्रामे तुमुले रोमहर्षणे।
संशप्तकेषु वीरेषु किञ्चिच्छेषेषु भारत।।

धृष्टद्युम्नो महाराज सहितः सर्वराजभिः।
कर्णमेवाभिदुद्राव पाण्डवाश्च महारथाः।।

आगच्छमानांस्तान्दृष्ट्वा सङ्ग्रमे विजयैषिणः।
दधारैको रणे कार्णो जलौघानिव पर्वतः।।

समासाद्य तु ते कर्णं व्यशीर्यन्त महारथाः।
यथाऽचलं समासाद्य वार्योधाः सर्वतोदिशम्।।

तयोरासीन्महाराज सङ्ग्रामो घोरदर्शनः।
प्रवृद्धयोर्महारङ्गे बलिनोर्विजिगीषतोः।।

धृष्टद्युम्नस्तु राधेयं शरेणानतपर्वणा।
छादयामास सङ्क्रुद्धस्तिष्ठतिष्ठेति चाब्रवीत्।।

विजयं तु धनुः श्रेष्ठं विधृन्वानो महारथः।
पार्षतस्य धनुश्छित्त्वा शरांश्चाशीविषोपमान्।।

ववर्ष शरवर्षाणि तोयवर्षानिवाम्बुदः।
छादयामास सङ्क्रुद्धः पार्षतं नवभिः शरैः।।

ते हेमविकृतं वर्म भित्त्वा तस्य महात्मनः।
शोणिताक्ता व्यराजन्त शक्रगोपा इवानघ।।

तदपास्य धनुश्छिन्नं धृष्टद्युम्नः प्रतापवान्।
ततोऽन्यद्धनुरादाय सारवद्भारसाधनम्।
कर्णं विव्याध सप्तत्या शरैः सन्नतपर्वभिः।।

तथैव राजन्कर्णोऽपि पार्षतं शत्रुतापनम्।
द्रोणशत्रुं महेष्वासो विव्याध निशितैः शरैः।।

पुनरन्यं महाराज शरं कनकभूषणम्।
प्रेषयामास समरे मृत्युदण्डमिवापरम्।।

तमापतन्तं सहसा घोररूपं विशाम्पते।
चिच्छेद शतधा राजन्पार्षतः कृतहस्तवत्।।

दृष्टवान्पतितं भूमौ शरं कर्णो विशाम्पते।।

पार्षतः शरवर्षेण समन्तात्पर्यवारयत्।
विव्याध चैनं त्वरितो नाराचैः सप्तभिस्तदा।।

तं प्रत्यविध्यद्दशभिः शरैर्हेमविभूषितैः।
तयोर्युद्धं समभवद्दृष्टिश्रोत्रमनोहरम्।।

आसीद्धोरं च चित्रं च प्रेक्षणीयं च सर्वशः।।

सर्वेषां तत्र भूतानां रोमहर्षो व्यजायत।
दृष्ट्वा तत्समरे कर्म कर्णपार्षतयोर्नृप।।

एतस्मिन्नन्तरे द्रौणिरभ्ययात्तं महारथम्।
पार्षतं शत्रुदमनं शत्रुवीर्यासुनाशनम्।।

स दृष्ट्वा समरे यान्तमभीतं च महारथम्।
अभ्यभाषत सङ्क्रुद्धः पार्षतं शत्रुतापनम्।।

रथं रथेन सम्पीड्य पार्षतस्य तु ब्राह्मणः।।

तिष्ठतिष्ठेति ब्रह्मघ्न न मे जीवन्विमोक्ष्यसे।
इत्युक्त्वा सुभृशं वीरः शीघ्रकृन्निशितैः शरैः।
छादयामास समरे यतमानो महारथः।।

यत्नतः परया शक्त्या धृष्टद्युम्नं महारथम्।
योधयामास समरे क्रुद्धरूपो विशाम्पते।।

तयोस्तु सन्निपाते हि घोररूपो विशाम्पते।।

यथा हि समरे द्रौणिः पार्षतं दृश्यत मारिष।
नातिहृष्टमना ह्यासीन्मन्वानो मृत्युमात्मनः।।

स ज्ञात्वा पितुरत्यन्तरैरिणं तु महाहवे।
आत्मानं समरे ज्ञात्वाऽशस्त्रवध्यं महाबलः।
जवेनाभिययौ द्रौणिं कालः कालक्षये यथा।।

द्रौणिस्तु दृष्ट्वा राजेन्द्र धृष्टद्युम्नमवस्थितम्।
क्रोधेन निःश्वसन्वीरः पार्षदं समभिद्रवत्।।

तावन्योन्यं तु दृष्ट्वैव संरम्भं जग्मतुः परम्।
प्रगृह्य महती चापे शरासनसमन्विते।।

अथाब्रवीन्महाराज द्रोणपुत्रः प्रतापवान्।
धृष्टद्युम्नं समीपस्थं त्वरमाणो विशाम्पते।।

पाञ्चालापशदाद्य त्वां प्रेषयामि यमक्षयम्।
पापं हि यत्त्वया कर्म कृतं तातं घ्नता रणे।।

अद्य त्वं प्राप्स्यसे तद्वै यथा ह्यकुशलस्तथा।
अरक्ष्यमाणः पार्थेन यदि तिष्ठसि संयुगे।
नापक्रामसि वा मोहात्सत्यमेतद्ब्रवीमि ते।।

।। इति श्रीमन्महाभारते कर्णपर्वणि
सप्तदशदिवसयुद्धे सप्तपञ्चाशोऽध्यायः।। 57 ।।