कर्णपर्व
अध्यायः ५०
सञ्जय उवाच।
द्रौणिर्युधिष्ठिरं दृष्ट्वा शैनेयेनाभिरक्षितम्।
द्रौपदेयैस्तथा शूरैरभ्यवर्तत हृष्टवत्।।
किरन्निषुगणान्घोरान्हेमपुङ्खाञ्शिलाशितान्।
दर्शयन्विविधान्मार्गाञ्शिक्षया लघुहस्तवान्।।
खं पुरयञ्शरैस्तीक्ष्णैर्वेगवद्भिः समन्ततः।
युधिष्ठिरस्य समरे दिशः सर्वाः समावृणोत्।।
भारद्वाजशरैश्छन्नं न प्राज्ञायत किञ्चन।
बाणभूतमभूत्सर्वमायोधनशिरो महत्।।
बाणजालं दिविष्ठं तत्स्वर्णपुङ्खविभूषितम्।
शुशुभे भरतश्रेष्ठ विमानमिव विष्ठितम्।।
तेन च्छन्ने रणे राजन्बाणजालेन भास्वता।
अभ्रच्छायेव सजज्ञे हृतरश्मिस्तमोनुदः।।
तदद्भुतमपश्याम बाणभूते नभस्थले।
न स्म सम्पतते भूतं द्रौणेर्दृष्ट्वा पराक्रमम्।।
सात्यकिर्यतमानस्तु धर्मराजस्तु पाण्डवः।
तथेतराणि सैन्यानि न स्म चक्रुः पराक्रमम्।।
लाघवं द्रोणपुत्रस्य दृष्ट्वा तत्र महारथाः।
व्यस्मयन्त महाराज न चैनं प्रत्युदीक्षितुम्।।
शेकुस्ते सर्वराजानस्तपन्तमिव भास्करम्।
वध्यमाने ततः सैन्ये द्रौपदेया महारथाः।।
सात्यकिर्धर्मराजश्च पाञ्चालाश्चापि सङ्गताः।
त्यक्त्वा मृत्युभयं घोरं द्रौणायनिभुपाद्रवन्।।
सात्यकिः सप्तविंशत्या द्रौणिं विद्ध्वा शिलीमुखैः।
पुनर्विव्याध नाराचैः सप्तभिः स्वर्णभूषितैः।।
युधिष्ठिरस्त्रिसप्तत्या प्रतिविन्ध्यश्च सप्तभिः।
श्रुतकर्मा त्रिभिर्वाणैः श्रुतकीर्तिश्च सप्तभिः।
सुतसोमस्तु नवभिः शतानीकश्च सप्तभिः।
अन्ये च वहवः शूरा विव्यधुस्तं समन्ततः।।
स तु क्रुद्धस्ततो राजन्नाशीविप इव श्वसन्।
सात्यकिं पञ्चविंशत्या प्राविध्यत शिलीमुखैः।।
श्रुतकीर्तिं च नवभिः सुतसोमं च पञ्चभिः।
अष्टभिः श्रुतकर्माणं प्रतिबिन्ध्यं त्रिभिः शरैः।।
शतानीकं च नवभिर्धर्मपुत्रं च पञ्चभिः।
तथेतरांस्ततः शूरान्द्वाभ्यां द्वाभ्यामताडयत्।
श्रुतकीर्तेस्तथा चापं चिच्छेद निशितैः शरैः।।
अथान्यद्वनुरादाय श्रुतकीर्तिर्महारथः।
द्रौणायनिं त्रिभिर्विद्व्वा विव्याधान्यैः शितैः शरैः।।
ततो द्रौणिर्महाराज शरवर्षेण भारिष।
छादयामास तत्सैन्यं समन्ताद्भरतर्षभ।।
ततः पुनरमेयात्मा धर्मराजस्य कार्मुकम्।
द्रौणिश्चिच्छेद विहसन्विव्याध च शरैस्त्रिभिः।।
ततो धर्मसुतो राजन्प्रगृह्यान्यन्महद्धनुः।
द्रोणपुत्रं त्रिपष्टxx ततु बाह्वोरुरसि चार्पययत्।।
सात्यकिस्तु ततः क्रुद्धो द्रौणेः प्रहरतो रणे।
अर्धचन्द्रेणतीक्ष्णेन धनुश्छित्त्वाऽनदद्भृशम्।।
छिन्नधन्वा ततो द्रौणिः शक्त्या शक्तिमतां वरः।
सारथिं पातयामास शैनेयस्य रथाद्रुतम्।।
अथान्यद्वनुरादाय द्रोणपुत्रः प्रतापवान्।
शैनेयं शरवर्षेण च्छादयामास भारत।।
तस्याश्वाः प्रद्रुताः सङ्ख्ये पतिते रथसारथौ।
तत्रतत्रैव धावन्तः समदृश्यन्त भारत।।
युधिष्ठिरपुरोगास्तु द्रौणिं शस्त्रभृतां वरम्।
अभ्यवर्षन्त वेगेन विसृजन्तः शिताञ्छरान्।।
सहसा पततस्तान्वै क्रुद्वरूपान्परन्तपः।
प्रहसन्प्रतिजग्राह द्रोणपुत्रो महारणे।।
ततः शरशतज्वालः सेनाकक्षं महारणे।
द्रौणिर्ददाह समरे कक्षमग्निरिवोत्थितः।।
तद्बलं पाण्डुपुत्रस्य द्रोणपुत्रप्रतापितम्।
चुक्षुभे भरतश्रेष्ठ तस्मिन्नेव चमूमुखे।।
तद्बलं पाण्डवेयस्य द्रोणपुत्रः शरार्चिषा।
तापयन्भरतश्रेष्ठ गभस्तिभिरिवांशुमान्।।
तत्पच्यमानं मर्षेण ब्राह्मणस्य च सायकैः।
क्षुभ्यते पाण्डवं सैन्यं तिमिनेव नदीमुखम्।।
दृष्ट्वा चैव महाराज द्रोणपुत्रपराक्रमम्।
सर्वान्दुर्योधनः पार्थान्हतान्युद्वेऽभ्यमन्यत।।
युधिष्ठिरस्तु त्वरितो द्रौणिं पीड्य महारथम्।
अब्रवीद्द्रोणपुत्रं स रोषामर्षसमन्वितः।।
`जानामि त्वां युधि श्रेष्ठ वीर्यवन्तं बलान्वितम्।
कृतास्त्रं कृतिनं चैव तथा लघुपराक्रमम्।।
बलमेतद्भवान्सर्वं पार्षते यदि दर्सयेत्।
ततस्त्वां बलवन्तं च कृतविद्यं च विद्महे।।
न हि वै पार्पतं दृष्ट्वा समरे शत्रुसूदनम्।
भवेत्तव बलं किञ्चिद्ब्रवीमि त्वां न तु द्विजम्'।।
नैव नाम तव प्रीतिर्नैव नाम कृतज्ञता।
यतस्त्वं पुरुषव्याघ्र मामेवाद्य जिघांससि।।
ब्राह्मणेन तपः कार्यं शमश्च दमएव च।
क्षत्रियेण धनुर्नाभ्यं स भवान्ब्राह्मणब्रुवः।।
मिषतस्ते महावाहो युधि जेष्यामि कौरवान्।
कुरुष्व समरे कर्म ब्रह्मबन्धे यथेष्टतः।।
एवमुक्तो महाराज द्रोणपुत्रः सयन्निव।
युक्त तत्त्वं च सञ्चिन्त्य नोत्तरं किञ्चिदब्रवीत्।।
अनुक्त्वा च ततः किञ्चिच्छरवर्षेण पाण्डवम्।
छादयामास समरे क्रुद्धोऽन्तक इव प्रजाः।।
स च्छाद्यमानस्तु तदा द्रोणपुत्रेण मारिष।
पार्थोऽपयातः शीघ्रं वै प्रगृह्य महतीं चमूम्।।
अपयाते ततस्तस्मिन्धर्मपुत्रे युधिष्ठिरे।
द्रोणपुत्रः स्थितो राजन्प्रत्यादेशान्महात्मनः।।
ततो युधिष्ठिरो राजंस्त्यक्त्वा द्रौणिं महाहवे।
प्रययौ तावकं सैन्यं युक्तः क्रुराय कर्मणे।।
।। इति श्रीमन्महाभारते कर्णपर्वणि
सप्तदशदिवसयुद्धे पञ्चाशोऽध्यायः।। 50 ।।