कर्णपर्व
अध्यायः ४९
सञ्जय उवाच।
कृतवर्मा कृपो द्रौणिः सूतपुत्रश्च मारिष।
उलूकः सौबलश्चैव राजा च सह सोदरैः।।
सीदमानां चमूं दृष्ट्वा पाण्डुपुत्रभयार्दिताम्।
समुज्जह्रुः स्म वेगेन भिन्नां नावमिवार्णवे।।
ततो युद्धमतीवासीन्मुहूर्तमिव भारत।
भीरूणां त्रासजननं शूराणां हर्षवर्धनम्।।
कृपेण शरवर्षाणि प्रतिमुक्तानि संयुगे।
सृञ्जयांश्छादयामासुः शलभानां व्रजा इव।।
शिखण्डी च ततः क्रुद्धो गौतमं त्वरितो ययौ।
ववर्ष शरवर्षाणि समन्ताद्द्विजपुङ्गवम्।।
कृपस्तु शरवर्षं तद्विनिहत्य महास्त्रवित्।
शिखण्डिनं रणे क्रुद्धो विव्याध दशभिः शरैः।।
ततः शिखण्डी कुपितः शरैः सप्तभिराहवे।
कृपं विव्याध कुपितं कङ्कपत्रैरजिह्मगैः।।
ततः कृपः शरैस्तीक्ष्णैः सोऽतिविद्धो महारथः।
`ततः सुनिशितैस्तीक्ष्णैः क्षुरप्रैर्हेमभूषितैः'।
व्यश्वसूतरथं चक्रे शिखण्डिनमथो द्विजः।।
हताश्वात्तु ततो यानादवप्लुत्य महारथः।
खङ्गं चर्म तथा गृह्य सत्वरं ब्राह्मणं ययौ।।
तमापतन्तं सहसा शरैः सन्नतपर्वभिः।
वारयामास समरे तदद्भुतमिवाभवत्।।
तत्राद्भुतमपश्याम शिलानां प्लवनं यथा।
निश्चेष्टो यद्रणे राजञ्छिखण्डी समतिष्ठत।।
कृपेण वारितं दृष्ट्वा शिखण्डिनमथो नृप।
प्रत्युद्ययौ कृपं तूर्णं धृष्टद्युम्नो महारथः।।
धृष्टद्युम्नं ततो यान्तं शारद्वतरथं प्रति।
प्रतिजग्राह वेगेन कृतवर्मा महारथः।।
युधिष्ठिरमथायान्तं शारद्वतरथं प्रति।
सपुत्रं सहसैन्यं च द्रोणपुत्रो न्यवारयत्।।
नकुलं सहदेवं च त्वरमाणौ महारथौ।
प्रतिजग्राह ते पुत्रः शरवर्षेण वारयन्।।
भीमसेनं करूशांश्च केकयान्सह सृञ्जयैः।
कर्णो वैकर्तनो युद्धे वारयामास भारत।।
शिखण्डिने ततो बाणान्कृपः शारद्वतो युधि।
प्राहिणोत्तवरया युक्तो बीभत्सोरथ सन्निधौ।।
ताञ्छरान्प्रेषितांस्तेन समन्तात्स्वर्णभूषितान्।
चिच्छेद खङ्गमाविध्य भ्रामयंश्च पुनः पुनः।।
शतचन्द्रं च तच्चर्म गौतमस्तस्य भारत।
व्यधमत्सायकैस्तूर्णं तत उच्चुक्रुशुर्जनाः।।
स विचर्मा महाराज खङ्गपाणिरुपाद्रवत्।
कृपस्तं शरसङ्घातैराद्रवन्तमपीडयत्।।
शारद्वतशरैर्ग्रस्तं क्लिश्यमानं महाबलः।
चित्रकेतुसुतो राजन्सुकेतुस्त्वरितो ययौ।।
विकिरन्ब्राह्मणं युद्धे बहुभिर्निशितैः शरैः।
अभ्यापतदमेयात्मा गौतमस्य रथं प्रति।।
दृष्ट्वा विषक्तं तं चैव ब्राह्मणं च निवारितम्।
अपयातस्ततस्तूर्णं शिखण्डी राजसत्तम।।
सुकेतुस्तु ततो राजन्गौतमं नवभिः शरैः।
विद्ध्वा विव्याध सप्तत्या पुनश्चैनं त्रिभिः शरैः।।
अथास्य सशरं चापं पुनश्चिच्छेद मारिष।
सारथिं च शरेणास्य मृशं मर्मस्वताडयत्।।
गौतमस्तु ततः क्रुद्धो धनुर्गृह्य नवं दृढम्।
सुकेतुं त्रिंशता बाणैः सर्वमर्मस्वताडयत्।।
स विह्वलितसर्वाङ्गः प्रचचाल रथोत्तमे।
भूमिकम्पे यथा वृक्षश्चचालाकम्पितो भृशम्।।
चलतस्तस्य कायात्तुं शिरो ज्वलितकुण्डलम्।
सोष्णीषं सशिरस्त्राणं क्षुरप्रेण त्वपातयत्।।
तच्छिरः प्रापतद्भूमौ श्येनाहृतमिवामिषम्।
ततोऽस्य कायो वसुधां पश्चात्प्रापतदच्युत।।
तस्मिन्हते महाराज पुत्रास्तस्य पदानुगाः।
गौतमं समरे त्यक्त्वा दुद्रुवुस्ते दिशो दश।।
धृष्टद्युम्नं तु समरे सन्निवार्य महारथः।
कृतवर्माऽब्रवीद्वृष्टस्तिष्ठतिष्ठेति भारत।।
तदभूत्तुमुलं युद्वं वृष्णिपार्षतयो रणे।
आमिषार्थे यथा युद्धं श्येनयोः क्रुद्धयोर्नृप।।
धृष्टद्युम्नस्तु समरे हार्दिक्यं नवभिः शरैः।
आजघानोरसि क्रुद्वः पीडयन्हृदिकात्मजम्।।
कृतवर्मा तु समरे पार्षतेन दृढाहतः।
पार्षतं सरथं साश्वं छादयामास सायकैः।।
सरथश्छादितो राजन्धृष्टद्युम्नो न दृश्यते।
मेघैरिव परिच्छन्नो भास्करो जलधारिभिः।।
विधूय तं बाणगणं शरैः कनकभूषणैः।
व्यरोचत रणे राजन्धृष्टद्युम्नः कृतव्रणः।।
ततस्तु पार्षतः क्रुद्धः शस्त्रवृष्टिं सुदारुणाम्।
कृतवर्माणमासाद्य व्यसृजत्पृतनापतिः।।
तामापतन्तीं सहसा शस्त्रवृष्टिं सुदारुणाम्।
शरैरनेकसाहस्रैर्हार्दिक्योऽवारयद्युधि।।
दृष्ट्वा तु वारितां युद्धे शस्त्रवृष्टिं दुरासदाम्।
कृतवर्माणमासाद्य वारयामास पार्षतः।।
`यथा युग्मरथेनाजौ वाहान्वाहेरमिश्रयत्।
गृहीत्वा चर्म खङ्गं च रथं तस्यावपुप्लुवे।।
मिलितेष्वथ वाहेषु प्रत्यासन्ने च पार्षते।
दृष्ट्वाऽपदानं तस्याशु गदां जग्राह सात्वतः।।
गदापाणिस्ततो राजन्रथात्तूर्णमवप्लुतः।
तमदृष्ट्वा रथोपस्थे सारथिं समताडयत्।।
खङ्गेन शितधारेण स हतः प्रापतद्रथात्।
कृतवर्मा ततो हृष्टस्तलशब्दं चकार ह।।
पार्षतं चाब्रवीद्राजन्नेह्येहीति पुनःपुनः।
स तं न ममृषे युद्वे तलशब्दं समीरितम्।।
अवप्लुत्य रथात्तस्मात्स्वरथं पुनरास्थितः।
अभ्ययात्स तु तत्तूर्णं तिष्ठतिष्ठेति चाब्रवीत्।।
ततो राजन्महेष्वासं कृतवर्माणमाशु वै।
गदां गृह्य पुनर्वेगात्कृतवर्माणमाहनत्।।
सोऽतिविद्वो बलवता न्यपतन्मूर्च्छया हतः।
श्रुतर्वा रथमारोप्य अपोवाह रणाजिरात्'।।
धृष्टद्युम्नस्तु समरे दृष्ट्वा शत्रुं महारथः।
कौरवान्समरे तूर्णं वारयामास सायकैः।।
ततस्ते तावका योधा धृष्टद्युम्नमुपाद्रवन्।
सिंहनादरवांश्चक्रुस्ततो युद्धमवर्तत।।
।। इति श्रीमन्महाभारते कर्णपर्वणि
सप्तदशदिवसयुद्धे एकोनपञ्चाशोऽध्यायः।। 49 ।।