कर्णपर्व

अध्यायः ५१

Karna Parva (Sanskrit) · Adhyaya 51
अक्षर का आकार

सञ्जय उवाच।

भीमसेनं सपाञ्चालं चेदिकेकयसंवृतम्।
सेनापतिः स्वयं क्रुद्धो वारयामास सायकैः।।

ततस्तु चेदिकारूशान्सृढ्जयांश्च महारथान्।
कर्णो जघान समरे भीमसेनस्य पश्यतः।।

भीमसेनस्ततः कर्णे विहाय रथसत्तमम्।
प्रययौ कौरवं सैन्यं कक्षमग्निरिव ज्वलन्।।

सूतपुत्रोऽपि समरे पाञ्चालान्केकयांस्तथा।
सृञ्जयांश्च महेष्वासान्निजघानं सहस्रशः।।

संशप्तकेषु पार्थश्च कौरवेषु वृकोदरः।
पाञ्चालेषु तथा कर्णः क्षयं चक्रुर्महारथाः।।

ते क्षत्रिया दह्यामानास्त्रिभिस्तैः पावकोपमैः।
जग्मुर्विनाशं समरे राजन्दुर्मन्त्रिते तव।।

ततो दुर्योधनः क्रुद्दो नकुलं नवभिः शरैः।
विव्याध भरतश्रेष्ठ चतुरश्चास्य वाजिनः।।

ततः परममेयात्मा तव पुत्रो जनाधिप।
क्षुरेण सहदेवस्य ध्वजं चिच्छेद काञ्चनम्।।

नकुलस्तु ततः क्रुद्धस्तव पुत्रं च सप्तभिः।
जघान समरे राजन्सहदेवश्च पञ्चभिः।।

तावुभौ भरतश्रेष्ठौ ज्येष्ठौ सर्वधनुष्मताम्।
विव्याधोरसि सङ्क्रुद्धः पञ्चभिः पञ्चभिः शरैः।।

ततोऽपराभ्यां भल्लाब्यां धनुषी समकृन्तत।
यमयोः प्रसभं वीरो विव्याधाशु त्रिभिस्त्रिभिः।।

तावन्ये धनुषी श्रेष्ठे शक्रचापनिभे शुभे।
प्रगृह्य रेजतुः शूरौ देवपुत्रसमौ युधि।।

ततस्तौ रभसौ युद्धे भ्रातरौ भ्रातरं युधि।
शरैर्ववर्षतुर्घोरैर्महामेघौ यथाऽचलम्।।

ततः क्रुद्धो महाराज तव पुत्रो महारथः।
पाण्‍डुपुत्रौ महेष्वासौ वारयामास पत्रिभिः।।

धनुर्मण्डलमेवास्य ददृशे युधि भारत।
सायकाश्चाप्यदृश्यन्त निश्चरन्तः समन्ततः।।

`तस्य सायकसञ्छन्नौ माद्रेयौ न विरेजतुः।
मेघच्छन्नौ यथा व्योम्नि चन्द्रसूर्यौ गतप्रभौ।।

ते तु बाणा महाराज स्वर्णपुङ्खाः शिलाशिताः'।
आच्छादयन्दिशः सर्वाः सूर्यस्येव मरीचयः।।

वाणभूते ततस्तस्मिन्सञ्छन्ने च नभस्तले।
राज्ञस्तु ददृशे रूपं कालान्तकयमोपमम्।।

पराक्रमं तु तं दृष्ट्वा तव सूनोर्महारथाः।
मृत्योरुपान्तिकं प्राप्तौ माद्रीपुत्रौ स्म मेनिरे।।

ततः सेनापती राजन्पाण्डवानां महारथः।
पार्षतः प्रययौ तत्र यत्र राजा सुयोधनः।।

माद्रीपुत्रौ ततः शूरौ व्यतिक्रम्य महारथौ।
धृष्टद्युम्नस्तव सुतं पीडयामास सायकैः।।

तमविध्यदमेयात्मा तव पुत्रो ह्यमर्पणः।
पाञ्चाल्यं पञ्चविंशत्या प्रहस्य पुरुषर्षभः।।

ततः पुनरमेयात्मा तव पुत्रो ह्यमर्षणः।
विद्ध्वा ननाद पाञ्चाल्यं षष्ट्या पञ्चभिरेव च।।

तथास्य सशरं चापं मुष्टिदेशे विशाम्पते।
क्षुरप्रेण सुतीक्ष्णेन राजा चिच्छेद संयुगे।।

तदपास्य धनुश्छिन्नं पाञ्चाल्यः शत्रुकर्शनः।
अन्यदादत्त वेगेन धनुर्भारसहं नवम्।।

क्रोधाद्रुधिररक्ताक्षः संरम्भात्प्रज्वलन्निव।
अशोभत महेष्वासो धृष्टद्युम्नः कृतव्रणः।।

स पञ्चदश नाराचाञ्श्वसतः पन्नगानिव।
जिघांसुर्भरतश्रेष्ठं धृष्टद्युम्नो व्यपासृजत्।।

ते वर्म हेमविकृतं भित्त्वा राज्ञः शिलीमुखाः।
विविशुर्वसुधां वेगात्कङ्कबर्हिणवाससः।।

सोऽतिविद्धो महाराज पुत्रस्तेऽतिव्यराजत।
वसन्तकाले सुमहान्प्रफुल्ल इव किंशुकः।।

स च्छिन्नवर्मा नाराचप्रहारैर्झर्झरीकृतः।
धृष्टद्युम्नस्य भल्लेन क्रुद्धश्चिच्छेद कार्मुकम्।।

अथैनं छिन्नधन्वानं त्वरमाणो महीपतिः।
सायकैर्दशभी राजन्भ्रुवोर्मध्ये समार्पयत्।।

तस्य तेऽशोभयन्वक्त्रं कर्मारपरिमार्जिताः।
प्रफुल्लं पङ्कजं यद्वद्धमरा मधुलिप्सवः।।

तदपास्य धनुश्छिन्नं दृष्टद्युम्नो महामनाः।
अन्यदादत्त वेगेन धनुर्भल्लांश्च षोडश।।

ततो दुर्योधनस्याश्वान्हत्वा सूतं च पञ्चभिः।
धनुश्चिच्छेद भल्लेन जातरूपपरिष्कृतम्।।

रथं सोपस्करं छत्रं शक्तिं खङ्गं गदां ध्वजम्।
भल्लैश्चिच्छेद दशभिः पुत्रस्य तव पार्षतः।।

तपनीयाङ्गदं छत्रं नागं मणिमयं शुभम्।
ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः।।

दुर्योधनं तु विरथं छिन्नवर्मायुधध्वजम्।
भ्रातरं समुदैक्षन्त सोदरा भरतर्षभ।।

तमारोप्य रथे राजन्कुण्डधारो महारथम्।
अपाहरदसम्भ्रान्तो धृष्टद्युम्नस्य पश्यतः।।

कर्णस्तु सात्यकिं हित्वा राजगृघ्नुरमर्षणः।
द्रोमहन्तारमुग्रेषुं ससाराभिमुखो रणे।।

तं पृष्ठतोऽन्वयात्तूर्णं शैनेयोऽभिहतः शरैः।
वारणं जघनोपान्ते विषाणाभ्यामिव द्विपः।।

स भारतपुरोगानां राज्ञां च सुमहात्मनाम्।
कर्णपार्षतयोर्युद्वे सङ्क्रद्धानां महारणे।।

न पाण्डवानां नास्माकं कश्चिदासीत्पराङ्मुखः।
प्रत्यदृश्यत यत्कर्णः पाञ्चालांस्त्वरितो ययौ।।

तस्मिन्क्षणे नरश्रेष्ठ गजवाजिरथक्षयः।
प्रादुरासीदुभयतो राजन्मध्यगतेऽहनि।।

पाञ्चालास्तु महाराज त्वरिता विजिगीषवः।
सर्वतोऽभ्यद्रवन्कर्णं पतत्त्रिण इव द्रुमम्।।

तेषामाधिरथिः क्रुद्धः प्रधानान्वै तरस्विनः।
विचिन्वन्निव बाणौघैः समासादयदग्रतः।।

व्याघ्रकेतुः सुशर्मा च शुक्रश्चित्रायुधः क्रतुः।
दुर्जयो रोचमानश्च सिंहसेनस्तथाऽष्टमः।
महता रथवंशेन परिवव्रुर्नरोत्तमम्।।

सृजन्तः सायकांस्तूर्णं कर्णमाहवशोभिनम्।
यतमानांस्तु ताञ्शूरान्मनुजेन्द्रः शितैः शरैः।
अष्टाभिरष्टौ राधेयः पाञ्चालान्न्यहनद्रणे।।

अथापरान्महाराज सूतपुत्रः प्रतापवान्।
जघान बहुसाहस्रान्योधान्युद्वविशारदान्।।

विष्णुं च विष्णुवर्माणं देवापिं भद्रमेव च।
दण्डधारं च समरे चित्रं चिंत्रायुधं हरिम्।।

सिंहकेतुं रोचमानं शलभं च महारथम्।
निजघान सुसङ्क्रुद्वश्चेदीनां च महारथान्।।

तेषामाददतः प्राणानासीदाधिरथेर्वपुः।
शोणिताभ्युक्षिताङ्गस्य रुद्रस्यैवातिभैरवम्।।

तत्र भारत कर्णेन मातङ्गास्ताडिताः शरैः।
सर्वतोऽभ्यद्रवन्भीताः कुर्वन्तो महदाकुलम्।।

निपेतुरुर्व्यां समरे कर्णसायकताडिताः।
कुर्वन्तो विविधान्नादान्वज्रनुन्ना इवाचलाः।।

गजवाजिमनुष्यैश्च निपतद्भिः समन्ततः।
रथैर्भग्नैर्ध्वजैश्चैव समास्तीर्यत मेदिनी।।

नैवं भाष्मो न च द्रोणो नान्ये युधि च तावकाः।
चक्रुः स्म तादृशं कर्म यादृशं कृतवान्रणे।।

मृगमध्ये यथा सिंहो दृश्यते निर्भयश्चरन्।
पाञ्चालानां तथा मध्ये कर्णोऽचरदभीतवत्।।

सूतपुत्रोऽथ नागेषु हयेषु च रथेषु च।
नरेषु च नरव्याघ्रश्चकार कदनं महत्।।

यथा मृगगणांस्त्रस्तान्सिंहो द्रावयते दिशः।
पाञ्चालानां रथव्रातान्कर्णो व्यद्रावयत्तथा।।

सिंहं स्म हि यथा प्राप्य न जीवन्ति मृगाः क्वचित्।
तथा कर्णमनुप्राप्ता न जीवन्ति स्म सृञ्जयाः।।

वैश्वानरमुखं प्राप्य दह्यन्ते शलभा यथा।
कर्णाग्रिं समरे प्राप्य दग्धा भारत सृञ्जयः।।

चेदिष्वेकेन कर्णेन पाञ्चालेषु च भारत।
वेश्राव्य नाम निहता बहवः शूरसम्पताः।।

मम चासीन्मती राजन्दृष्ट्वा कर्णस्य विक्रमम्।
नैकोऽप्याधिरथेर्जीवन्पाञ्चाल्यो मोक्ष्यते युधि।।

सङ्ख्ये विमर्द्य पाञ्चालान्सूतपुत्रः पुनः पुनः।
अभ्यधावत्सुसङ्क्रुद्धः कुन्तीपुत्रं युधिष्ठिरम्।।

धृष्टद्युम्नश्च राजानं द्रौपदेयाश्च मारिष।
परिवव्रुरमित्रघ्नं शतशश्चापरे जनाः।।

शिखण्डी सहदेवश्च नकुलो नाकुलिस्तथा।
जनमेजयः शिनेर्नप्ता बहवश्च प्रभद्रकाः।।

एते पुरोगमा भूत्वा धृष्टद्युम्नश्च संयुगे।
कर्णमस्यन्तमिष्वस्त्रैस्ततक्षुरमितौजसम्।।

तांस्तत्राधिरथिः सङ्ख्ये चेदिपाञ्चालपाण्डवान्।
एको बहूनभ्यपतद्गरुत्मानिव पन्नगान्।।

तैः कर्णस्याभवद्युद्धं घोररूपं विशाम्पते।
तादृग्यादृक्पुरावृत्तं देवानां दानवैः सह।।

तान्समेतान्महेष्वासाञ्शरवर्षौधवर्षिणः।
एको व्यधमदव्यग्रस्तमांसीव दिवाकरः।।

भीमसेनस्तु संसक्ते राधेये पाण्डवैः सह।
सर्वतोऽभ्यहनत्क्रुद्धो यमदण्डनिभैः शरैः।।

बाह्लीकान्केकयान्मात्स्यान्वासात्यान्मद्रसैन्धवान्।
एकः सङ्ख्ये महेष्वासो योधयन्बह्वशोभत।।

तत्र मर्मसु भीमेन नाराचैस्ताडिता गजाः।
प्रपतन्तो हतारोहाः कम्पयन्ति स्म मेदिनीम्।।

वाजिनश्च हतारोहाः पत्तयश्च गतासवः।
अशेरत महाराज वमन्तो रुधिरं बहु।।

ताडिताः सहसा नागा भीमसेनेन मारिष।
निपतन्ति महावेगा वज्ररुग्णा इवाचलाः।।

पतितैस्तैर्महाराज वेगवद्भिर्महारथैः।
शुशुभे वसुधा राजन्विकीर्णैरिव पर्वतैः।।

सहस्रशश्च रथिनः पत्तयः पतितायुधाः।
अक्षताः समदृश्यन्त भीमाद्भीता गतासवः।।

रथिभिः सादिभिः सूतैः पादातैर्वाजिभिर्गजैः।
भीमसेनशरैश्छिन्नैराच्छन्ना सुधाभवत्।।
तत्स्तम्भितमिवातिष्ठद्भीमसेनभयार्दितम्।

दुर्योधनबलं सर्वं निरुत्साहं कृतं रणे।
निश्चेष्टं तुमुलं दीनं बभौ तस्मिन्महारणे।।

प्रसन्नसलिले काले यथा स्यात्सागरो नृप।
तद्वत्तव बलं तद्वै निश्चलं समवस्थितम्।।

मन्युवीर्यबलोपेतं दर्पात्प्रत्यवरोपितम्।
अभवत्तव पुत्रस्य तत्सैन्यं निष्प्रभं तदा।।

ते बले भरतश्रेष्ठ वध्यमाने परस्परम्।
रुधिरौघपरिक्लिन्ने रुधिरार्द्रे बभूवतुः।।

सूतपुत्रोऽवधीत्क्रुद्वः पाण्डवानामनीकिनीम्।
भीमसेनः कुरूणां च त्रिगर्तानां धनञ्जयः।।

वर्तमाने तथा रोद्रे सङ्ग्रामेऽद्भुतदर्शने।
निहत्य पृतनामध्यं संशप्तकगणान्बहून्।
अर्जुनो जयतां श्रेष्ठो वासुदेवमथाब्रवीत्।।

प्रभग्नं बलमेतद्धि योत्स्यमानं मया सह।
एते धावन्ति सगणाः संशप्तकमहारथाः।।

`दुर्जया ह्येव समरे देवैरपि सवासवैः'।
अपारयन्तो मद्बाणान्सिंहशब्दं मृगा इव।।

दीर्यते च महत्सैन्यं सृञ्जयानां महारणे।
`कुरवश्चाभिधावन्ति भीमसेनभयार्दिताः'।।

हस्तिकक्ष्यो ह्यसौ कृष्ण केतुः कर्णस्य धीमतः।
दृश्यते राजसैन्यस्य मध्ये विचरतो मुहुः।।

न च कर्णं रणे शक्ता जेतुमेते महारथाः।
जानीते हि भवान्कर्णं वीर्यवन्तं पराक्रमे।।

तत्र याहि यतः कर्णो द्रावयत्येष नो बलम्।
त्रिगर्तान्वर्जयन्याहि सूतपुत्रं महारथम्।
एतन्मे रोचते कृष्ण यथा वा तव रोचते।।

एतच्छ्रुत्वा वचस्तस्य गोविन्दः प्रहसन्निव।
अब्रवीदर्जुनं तूर्णं कौरवान्याहि पाण्डव।।

ततस्तव महासैन्यं गोविन्दप्रेरिता हयाः।
हंसवर्णा विशंस्तूर्णं वहन्तोऽर्जुनमाहवे।।

केशवप्रेरितैरश्वैः श्वेतैः काञ्चनभूषणैः।
प्रविशद्भिस्तव बलं चतुर्दिशमदीर्यत।।

मेघस्तनितनिर्हादः स रथो वानरध्वजः।
चलत्पताकस्तां सेनां विमानं द्यामिवाविशत्।।

तौ विदार्य महासेनां प्रविष्टौ केशवार्जुनो।
क्रुद्धौ संरम्भरक्ताक्षौ विभ्राजेतां महाद्युती।।

युद्धशौण्डौ समाहूतावागतौ तौ रणाध्वरम्।
यज्वभिर्विधिना हूतौ मखं देवाविवाश्विनौ।।

`क्रोधताम्रेक्षणौ शूरौ शुशुभाते महाबलौ।
मदोत्कटौ यथा नागौ दृष्टिसञ्चारचारिणौ'।।

क्रुद्धौ तौ तु नरव्याघ्रो योगवन्तौ बभूवतुः।
तलशब्देन रुषितौ महानागाविवोत्कटौ।।

विगाह्य तु रथानीकमश्वसङ्घांश्च फल्गुनः।
व्यचरत्पृतनामध्ये पाशहस्त इवानत्कः।।

तं दृष्ट्वा युधि विक्रान्तं सेनायां तव भारत।
संशप्तकगणान्भूयः पुत्रस्ते समचूचुदत्।।

ततो रथसहस्रेण द्विरदानां त्रिभिः शतैः।
चतुर्दशसहस्रैस्तु तुरगाणां महाहवे।
द्वाभ्यां शतसहस्राभ्यां पदातीनां च धन्विनाम्।।

शूराणां लब्धलक्षाणां विदितानां समन्ततः।
अभ्यवर्तन्त कौन्तेयं छादयन्तो महारथाः।।

शरवर्षैर्महाराज सर्वतः पाण्डुनन्दनम्।
स च्छाद्यमानः समरे शरैः परबलार्दनः।।

दर्शयन्रौद्रमात्मानं पाशहस्त इवान्तकः।
निघ्नन्संशप्तकान्पार्थः प्रेक्षणीयतरोऽभवत्।।

ततो विद्युत्प्रभैर्बाणैः कार्तस्वरविभूषितैः।
निरन्तरमिवाकाशमासीच्छन्नं किरीटिना।।

किरीटिचापनिर्मुक्तैः सम्पतद्भिर्महाशरैः।
समाच्छन्नं बभौ सर्वं काद्रवेयैरिव प्रभो।।

रुक्मपुङ्खाञ्शरान्घोरान्प्रसन्नान्नतपर्वणः।
अवासृजदमेयात्मा दिक्षु सर्वासु पाण्डवः।।

मही वियद्दिशः सर्वाः समुद्रा गिरयोऽपि वा।
स्फुटन्तीति जना जज्ञुः पार्थस्य तलनिःस्वनात्।।

हत्वा दशसहस्राणि पार्थिवानां महारथः।
संशप्तकानां कौन्तेयः प्रपक्षं त्वरितोभ्ययात्।।

प्रपक्षं च समासाद्य पार्थः काम्भोजरक्षितम्।
प्रममाथ बलं भल्लैर्दानवानिव वासवः।।

प्रचिच्छेदाशु भल्लेन द्विषतामाततायिनाम्।
शस्त्रपाणींस्तथा बाहूंस्तथापि च शिरांस्युत।।

अङ्गांङ्गावयवैश्छिन्नैर्व्यायुधास्तेऽपतन्भुवि।
विष्वग्वाताभिसम्भग्ना बहुशाखा इव द्रुमाः।।

हस्त्यश्वरथपत्तीनां व्रातान्निघ्नन्तमर्जुनम्।
सुदक्षिणादवरजः शरवृष्ट्याभ्यवीवृषत्।।

तस्यास्यतोऽर्धचन्द्राभ्यां स बाहू परिघोपमौ।
पूर्णचन्द्राभवक्त्रं च क्षुरेणापाहरच्छिरः।।

तत्पपात ततो वेगात्स्वलोहितपरिष्कृतम्।
मनः शिलागिरेः शृङ्गं व्ज्रेणेवावदारितम्।।

सुदक्षिणादवरजं काम्भोजा ददृशुर्हतम्।
प्रांशुं कमलपत्राक्षमत्यर्थं प्रियदर्शनम्।
काञ्चनस्तम्भसदृशं भिन्नं हेमगिरिं यथा।।

ततोऽभवत्पुनर्युद्धं घोरमत्यर्थमद्भुतम्।
नानावस्थाश्च योधानां बभूवुस्तत्र युध्यताम्।।

पार्थेषुनिहतैरश्वैः काम्भोजैर्यवनैः शकैः।
शोणिताक्तैस्तदा रक्तं सर्वामासीद्विशां पते।।

रथैर्हताश्वसूतैश्च हतारोहैश्च वाजिभिः।
द्विरदैश्च हतारोहैर्महामात्रैर्हतद्विपैः।।

अन्योन्येन महाराज विनाशः पृथिवीक्षिताम्।
आसीत्क्रुद्वेऽर्जुने कर्णे भीमसेने च दारुणम्।।

तस्पिन्प्रपक्षे पक्षे च वध्यमाने मदोत्कटः।
अर्जुनं जयतां श्रेष्ठं त्वरितो द्रौणिरभ्ययात्।।

विधुन्वानो महच्चापं कार्तस्वरविभूषितम्।
आददानः शरान्घोरान्स्वरश्मीनिव भास्करः।।

तयोरासीन्महद्युद्धं धर्मभ्रात्रोरनैष्ठिकम्।
विस्मापयिषतोर्लोकं यशश्चोत्तममिच्छतोः।।

संशप्तकांस्तु कौन्तेयः कुरूंश्चापि वृकोदरः।
सूतपुत्रस्तु पाञ्चालांस्त्रयोऽघ्नंस्त्वरिताः शरैः।।

एवमेष महाराज विनाशः पृथिवीक्षिताम्।
युद्वं घोरं तथा त्वासीत्त्रिधाभूते चमूमुखे।।

।। इति श्रीमन्महाभारते कर्णपर्वणि
सप्तदशदिवसयुद्धे एकपञ्चाशोऽध्यायः।। 51 ।।

*.एतदनन्तरं झ.पुस्तके विद्यमाना कथा
अस्मिन्पाठे---57–58 तमाध्याययोर्वर्तते।