कर्णपर्व

अध्यायः ४१

Karna Parva (Sanskrit) · Adhyaya 41
अक्षर का आकार

सञ्जय उवाच।

ततः परानीकभिदं व्यूहमप्रतिमं महत्।
समीक्ष्य कर्णः पार्थानां धृष्टद्युम्नाभिरक्षितम्।।

प्रययौ रथघोषेण सिंहनादरवेण च।
वादित्राणां च निनदैः कम्पयन्निव मेदिनीम्।।

वेपमान इव क्रोधाद्युद्वशौण्डः परन्तपः।
प्रतिव्यूह्य महातेजा यथावद्भरतर्षभ।।

व्यधमत्पाण्डवीं सेनामासुरीं मघवानिव।
युधिष्ठिरं चाभ्यहनदपसव्यं चकारह।।

कर्णस्य रथघोषेण मौर्वीनिष्पेषणेन च।
सुसङ्ग्राहेण रश्मीनां समकम्पन्त सृञ्जयाः।।

तानि सर्वाणि सैन्यानि कर्ण दृष्ट्वा विशाम्पते।
बभूवुः सम्प्रहृष्टानि तावकानि युयुत्सया।।

अश्रूयन्त ततो वाचस्तावकानां विशाम्पते।
कर्णार्जुनमहायुद्धमेतदद्य भविष्यति।।

अद्य दुर्योधनो राजा हतामित्रो भविष्यति।
अद्य कर्णं रणे दृष्ट्वा फल्गुनो विद्रविष्यति।।

अद्य तावद्वयं युद्धे कर्णस्यैवानुगामिनः।
कर्णबाणमयं भीमं युद्धं द्रक्ष्याम संयुगे।।

चिरकालेप्सितमिदमद्येदानीं भविष्यति।
अद्य द्रक्ष्याम सङ्ग्रामं घोरं देवासुरोपमम्।।

अद्येदानीं महद्युद्धं भविष्यति भयानकम्।
अद्येदानीं जयो नित्यमेकस्यैकस्य वा रणे।।

अर्जुनं किल राधेयो वधिष्यति महारणे।
अथवा कं नरं लोके न स्पृशन्ति मनोरथाः।।

इत्युक्त्वा विविधा वाचः कुरवः कुरुनन्दन।
आजघ्नुः पटहांश्चैव तूर्यांश्चैव सहस्रशः।।

भेरीनादांश्च विविधान्सिंहनादांश्च पुष्कलान्‌।
मुरजानां महाशब्दानानकानां महारवान्।।

नृत्यमानाश्च बहुशस्तर्जमानाश्च मारिष।
अन्योन्यमभ्ययुर्युद्धे युद्धरङ्गगता नराः।।

तेषां पदाता नागानां पादरक्षाः समन्ततः।
पट्टसासिधराः शूराश्चापबाणमुसुण्ठिनः।।

भिण्डिपालधराश्चैव शूरलहस्ताः सुचक्रिणः।
तेषां समागमो घोरो देवासुररणोपमः।।

धृतराष्ट्रं उवाच।

कथं सञ्जय राधेयः प्रत्यव्यूहत पाण्डवान्।
धृष्टद्युम्नमुखान्सङ्ख्ये भीमसेनाभिरक्षितान्।
सर्वानेव महेष्वासानजय्यानमरैरपि।।

के च प्रपक्षौ पक्षौ वा मम सैन्यस्य सञ्जय।
प्रविभज्य यथान्यायमवतस्थुः सुदंशिताः।।

कथं पाण्डुसुताश्चापि प्रत्यव्यूहन्त मामकान्।
कथं चैतन्महद्युद्धं प्रावर्तत सुदारुणम्।।

क्व च बीभत्सुरभवद्यत्कर्णोऽयाद्युधिष्ठिरम्।
को ह्यर्जुनस्य सान्निध्ये शक्तो जेतुं युधिष्ठिरम्।।

सर्वभूतानि यो ह्येकः खाण्डवे जितबान्पुरा।
कस्तमन्यस्तु राधेयात्प्रतियुध्येज्जिजीविषुः।।

सञ्जय उवाच।

शृणु व्यूहस्य रचनामर्जुनश्च यथा गतः।
परिवार्य नृपान्सर्वान्सङ्ग्रामश्चाभवद्यथा।।

कृपः शारद्वतो राजन्मागधाश्च तरस्विनः।
सात्वतः कृतवर्मा च दक्षिणं पक्षमाश्रिताः।।

तेषां प्रपक्षे शकुनिरुलूकश्च महारथः।
सादिभिर्विमलप्रासैस्तदानीमभ्यरक्षताम्।।

गान्धारैश्चाप्यसम्भ्रान्तैः पार्वतीयैश्च दुर्जयैः।
शलभानामिव व्रातैः पिशाचैरिव दुर्दृशैः।।

चतुर्विंशत्सहस्राणि रथानामनिवर्तिनाम्।
संशप्तका युद्वशौण्डा वामपाश्वमपालयन्।।

समन्वितास्तव सुतैः कृष्णार्जुनजिघांसवः।
तेषां प्रपक्षाः काम्भोजाः शकाश्च यवनैः सह।।

निदेशात्सूतपुत्रस्य सरथाश्वेभपत्तयः।
आह्वयन्तोऽर्जुनं तस्थुः केशवं च महाबलम्।।

ततः सेनामुखे कर्णोऽप्यवातिष्ठत दंशितः।
चित्रवर्माङ्गदः स्रग्वी पालयन्वाहिनीमुखम्।।

रक्षमाणैः सुसंरब्धैः पुत्रैः शस्त्रभृतां वरः।
वाहिनीं प्रमुखे वीरः सम्प्रकर्षन्नशोभत।।

अशोकस्तु महाबाहुः सूर्यवैश्वानरप्रभः।
महाद्विपस्कन्धगतः पिङ्गाक्षः प्रियदर्शनः।
दुःशासनो वृतः सैन्यैः स्थितो व्यूहस्य पृष्ठतः।।

तन्मध्ये स महाबाहुः स्वयं दुर्योधनो नृपः।
चित्राश्वैश्चित्रसन्नाहैः सोदर्यैरभिरक्षितः।।

रक्ष्यमाणो महावीर्यैः सहितैर्मद्रकेकयैः।
अशोभत महाराज देवैरिव शतक्रतुः।।

अश्वत्थामा कुरूणां च ये प्रवीरा महारथाः।
नित्यमत्ताश्च मातङ्गाः शूरैर्म्लेच्छैः समन्विताः।
अन्वयुस्तद्रथानीकं क्षरन्त इव तोयदाः।।

ते ध्वजैर्वैजयन्तीभिर्ज्वलद्भिः परमायुधैः।
सादिभिश्चास्थिता रेजुर्द्रुमवन्त इवाचलाः।।

तेषां पदातिनागानां पादरक्षाः सहस्रशः।
पट्टसासिधराः शूरा बभूवुरनिवर्तिनः।।

सादिभिः स्यन्दनैर्नागैरधिकं समलङ्कृतैः।
स व्यूहराजो विबभौ देवासुरचमूपमः।।

बार्हस्पत्यः सुविहितो नायकेन विपश्चिता।
नृत्यतीव महाव्यूहः परेषां भयमादधत्।।

तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः।
हस्त्यश्वरथमातङ्गाः प्रावृषीव बलाहकाः।।

ततः सेनामुखे कर्णं दृष्ट्वा राजा युधिष्ठिरः।
धनञ्जयममित्रघ्नमेकवीरमुवाच ह।।

पश्यार्जुन महाव्यूहं कर्णेन विहितं रणे।
युक्तं पक्षैः प्रपक्षैश्च परानीकं प्रकाशते।।

तत्समीपगतं ह्येतत्प्रत्यमित्रं महद्बूलम्।
यथा नाभिभवत्यस्मांस्तथा नीतिर्विधीयताम्।।

सञ्जय उवाच।

एवमुक्तोऽर्जुनो राज्ञा प्राञ्जलिर्नृपमब्रवीत्।।

यथा यथा भवानाह तत्तथा न तदन्यथा।
यत्तस्य विहितं कार्यं तत्करिष्यामि सुव्रत।
प्रधानमथ चैवास्य विनाशं च करोम्यहम्।।

तस्मात्त्वं जहि राधेयं भीमसेनः सुयोधनम्।
वृषसेनं च नकुलः सहदेवोऽपि सौबलम्।।

दुःशानं शतानीको हार्दिक्यं शिनिपुङ्गवः।
धृष्टद्युम्नो द्रोणसुतं स्वयं योत्स्याम्यहं कृपम्।।

द्रौपदेया धार्तराष्ट्राञ्शिष्टान्सह शिखण्डिना।
ते ते च तांस्तानहितानस्माकं घ्न्तु मामकाः।।

सञ्जय उवाच।

इत्युक्तो धर्मराजेन तथेत्युक्त्वा धनञ्जयः।
व्यादिदेश स्वसैन्यानि स्वयं चागाच्चमूमुखम्।।

धनञ्जयो महाराज दक्षिणं पक्षमास्थितः।
भीमसेनो महाबाहुर्वामं पक्षमुपाश्रितः।।

सात्यकिर्द्रौपदेयाश्च स्वयं राजा च पाण्डवः।
व्यूहस्य प्रमुखे तस्थुः स्वेनानीकेन संवृताः।।

स्वबलेनारिसैन्यं तत्प्रत्यवस्थाप्य पाण्डवः।
प्रत्यव्यूहत्पुरस्कृत्य धृष्टद्युम्नशिखण्डिनौ।।

तत्सादिनागकलिलं पदातिरथसङ्कुलम्।
धृष्टद्युम्नमुखं घोरमशोभत महद्बलम्।।

।। इति श्रीमन्महाभारते कर्णपर्वणि
एकचत्वारिंशोऽध्यायः।। 41 ।।