कर्णपर्व

अध्यायः ४२

Karna Parva (Sanskrit) · Adhyaya 42
अक्षर का आकार

धृतराष्ट्र उवाच।

तथा व्यूढेष्वनीकेषु संसक्तेषु च सञ्जय।
संशप्तकाः कथं पार्थं कथं कर्णं च पाण्डवाः।।

एतद्विस्तरशो युद्धं प्रब्रूहि कुशलो ह्यसि।
न हि तृप्यामि वीराणां शृण्वानो युधि विक्रमम्।।

सञ्जय उवाच।

तत्संस्थिमथो दृष्ट्वा प्रत्यमित्रं महद्बलम्।
प्रत्यव्यूहत्ततः कर्णो हितार्थं तनयस्य ते।।

तत्सादिनागकलिलं पदातिरथसङ्कुलम्।
धृष्टद्युम्नमुखं घोरमशोभत महद्बलम्।।

पारावतसवर्णाश्वश्चन्द्रसूर्यसमद्युतिः।
स पार्षतो बभौ धन्वी कालो विग्रहवानिव।।

पार्षतं त्वभितस्तस्थुर्द्रौपदेया युयुत्सवः।
सानुगा दीप्तवपुषश्चन्द्रं तारागणा इव।।

अथ व्यूढेष्वनीकेषु प्रेक्ष्य संशप्तकान्रणे।
क्रुद्धोऽर्जुनोऽभिदुद्राव व्याक्षिपन्गाण्डिवं धनुः।।

अथ संशप्तकाः पार्थमभ्यधावन्वधैषिणः।
विजये धृतसङ्कल्पा मृत्युं कृत्वानिवर्तनम्।।

तदश्वसङ्घबहुलं पत्तिनागरथाकुलम्।
उदीर्यमाणं संरब्धं धनञ्जयमभिद्रवत्।।

तदुद्यतं महत्सैन्यं सागरौघसमं जवे।
पार्थवेलां समासाद्य विष्ठितं समदृश्यत।।

मृद्गन्तं शवर्षौघैर्द्रुतमर्जुनमार्दयत्।।

स सम्प्रहारस्तुमुलस्तेषामासीत्किरीटिना।
तस्यैव तु यथा राजन्निवातकवचैः सह।।

रथानश्वान्ध्वजान्नागान्पत्तीन्गजगतानपि।
इषून्धनूंषि खङ्गांश्च चक्राणि च परश्वथान्।।

सायुधानुद्यतान्बाहून्विविधान्यायुधानि च।
चिच्छेद द्विषतां पार्थः शिरांसि च सहस्रशः।।

तस्मिन्सैन्यमहावर्ते पातालतलसन्निभे।
निमग्नं तं रथं मत्वा नेदुः संशप्तका मुदा।।

स पुरस्तादरीन्हत्वा पुनरुत्तरतोऽवधीत्।
दक्षिणेन च पश्चाच्च क्रुद्धो रुद्रः पशूनिव।।

अथ पाञ्चालचेदीनां सृढ्जयानां च मारिष।
त्वदीयैः सह सङ्ग्राम आसीत्परमदारुणः।।

कृपश्च कृतवर्मा च शकुनिश्चापि सौबलः।
हृष्टसेनाः सुसंरब्धा रथानीकप्रहारिणः।।

कोसलैः काश्यमत्स्यैश्च कारूशैः केकयैरपि।
शूरसेनैः शूरवरैर्युयुधुर्युद्धदुर्मदाः।।

तेषामन्तकरं युद्धं देहपाप्मविनाशनम्।
क्षत्रविट्‌शूद्रवीराणां धर्म्यं स्वर्ग्यं यशस्करम्।।

दुर्योधनोऽथ सहितो भ्रातृभिर्भरतर्षभ।
गुप्तः कुरुप्रवीरैश्च मद्राणां च महारथैः।।

पाण्डवैः सह पाञ्चालैश्चेदिभिः सात्यकेन च।
युध्यमानं रणे कर्णं कुरुवीरोऽभ्यपालयत्।।

कर्णोऽपि निशितैर्बाणैर्विनिहत्य महाचमूम्।
प्रमृद्य च रथश्रेष्ठान्युधिष्ठिरमपीडयत्।।

विपत्रायुधदेहासून्कृत्वा शत्रून्सहस्रशः।
युक्त्वा स्वर्गयशोभ्यां च स्वेभ्यो मुदमुदावहत्।।

तद्विगाह्य महानीकं सूतपुत्रो महारथः।
नदीं प्रवर्तयामास शोणितौघतरङ्गिणीम्।।

शोणितोदां क्षुण्णमत्स्थां नागनक्रदुरत्ययाम्।
मांलमज्जाकर्दमिनीं चक्रकूर्ममहोडुपाम्।।

पातितैर्मेघसङ्काशैस्तत्रतत्र महाद्विपैः।
अशनीभिरिव ध्वस्ता नदी राजन्विराजते।।

तां शरोर्मिमहावर्तां छत्रहंससमाकुलाम्।
तनुत्रोष्णीषसङ्घाटामस्थिपाषाणसङ्कुलाम्।।

अपारामनपारां च शङ्खदुन्दुभिघोषिणीम्।
रौद्रां नदीं महाराज रजसा सर्वतोवृताम्।।

अतितीक्ष्णां नराकीर्णां नदीमन्तकगामिनीम्।
समं च विषमं चैव समायान्तीं महाभयाम्।।

आकुलाश्चात्र सीदन्ति नराः शोणितकर्दमे।
नरैरभिपरिक्षिप्ता यथा राजन्महाद्रुमाः।।

ततस्ते तत्रतत्रैव प्रचरन्तो महानदीम्।
विचेरुः सर्वतो योधा नौवारणमहारथैः।।

शोणितेन समं राजन्कृतमासीत्समन्ततः।
नदीवेगैर्यथा भूमिस्तद्वदासीद्विशापते।।

एवं भारत सङ्ग्रामो नरवाजिगजक्षयः।
कुरूणां सृञ्जयानां च देवासुरसमोऽभवत्।।

।। इति श्रीमन्महाभारते कर्णपर्वणि
सप्तदशदिवसयुद्धे द्विचत्वारिंशोऽध्यायः।। 42 ।।