कर्णपर्व
अध्यायः ४०
सञ्जय उवाच।
दुर्योधनस्ततः कर्णमुपेत्य भरतर्षभ।
अब्रवीन्मद्रराजं च तथैवान्यान्महारथान्।।
यदृच्छयाऽयमव्यग्रो धर्मः परमकः सखा।
सुखिनः क्षत्रियाः कर्ण लभन्ते युद्धमीदृशम्।।
यादृशं क्षत्रियैः शूरैः शूराणां दीव्यतां युधि।
इष्टं भवति राधेय तदिदं समुपस्थितम्।।
हत्वा तु पाण्डवान्युद्धे स्थिरामुर्वीं प्रशासथ।
निहता वा परैर्युद्धे वीरलोकानवाप्स्यथ।।
दुर्योधनस्य वचनं श्रुत्वा तत्क्षत्रियर्षभाः।
सिंहनादानुदक्रोशन्वादित्राणि च जघ्निरे।।
तस्मिन्प्रमुदिते सैन्ये त्वदीये भरतर्षभ।
हर्षयंस्तावकान्योधान्द्रौणिर्विचनमब्रवीत्।।
प्रत्यक्षं सर्वसैन्यानां भवतां चापि पश्यताम्।
न्यस्तशस्त्रो मम पिता धृष्टद्युम्नेन पातितः।।
स तेनाहममर्षेण पित्रर्थे चापि भारत।
धृष्टद्युम्नमहत्वाऽहं न विमोक्ष्यामि दंशनम्।।
कृत्वाऽनृतां प्रतिज्ञां वो नास्मि प्राप्ता महत्फलम्।
अर्जुनं भीमसेनं च यश्च मां प्रतियोत्स्यति।
सर्वांस्तान्प्रमथिष्यामि इति मे निश्चिता मतिः।।
सञ्जय उवाच।
एवमुक्ते ततः सर्वा हर्षिता भारती चमूः।
अभ्यवर्तत कौन्तेयांस्तथा तां चापि पाण्डवाः।।
स सन्निपातो रथयूथपानां
महाहवे भारत लोभनीये।
जनक्षयः कालयुगान्तकल्पः
प्रावर्तताग्रे कुरुसृञ्जयानाम्।।
ततः प्रवृत्ते युधि सम्प्रहारे
भूतानि सर्वाणि सदैवतानि।
आसन्समेतानि सहाप्सरोभि--
निरीक्षतीभिर्युधि वीरसङ्घान्।।
दिव्यैश्च गन्धैः परमैश्च पुष्पै--
रन्यैश्च रत्नैर्विविधैर्नराग्र्याः।
रणेषु कर्मोद्वहताः प्रहृष्टा-
ननन्दयन्नप्सरसः प्रहृष्टाः।।
समीरणस्तांस्तु निषेव्य गन्धा--
न्निषेवते तानपि योधमुख्यान्।
निषेव्यमाणास्त्वनिलेन योधाः
परस्परं चुक्रुशुराजिमध्ये।।
तथा तु तस्मिंस्तुमुले प्रवृत्ते
दुर्योधनः क्रोधममृष्यमाणः।
`अवेभ्य भीमं बलमध्यसंस्थः
समार्पयत्क्षुद्रकाणां शतेन।।
दुःशासनश्चित्रसेनश्च वीर--
स्तथोलूकः कितवः सौबलश्च।
गजानीकैः सर्वतो भीमसेनं
तथाविषक्तं सहसैवाभ्यगच्छन्।।
तमापतन्तं सम्प्रेक्ष्य गजानीकं वृकोदरः।
दुर्योधनं महाबाहुः शरवर्षैरवाकिरत्।।
दुर्योधनं ततो भीमः सायकैर्वज्रसन्निभैः।
पाण्डवो विमुखीकृत्य गजानभ्यद्रवद्बली।।
ततः पावकसङ्काशैर्भीमबाणैरवक्रगैः।
शलभैरिव नागांस्तानर्दयामास पाण्डवः।।
ततः कुञ्जरयूथानि भीमसेनो महाबलः।
व्यधमन्निशितैर्बाणैर्महावातो घनानिव।।
नित्यमत्ताश्च मातङ्गाः शूरैर्मत्तैरधिष्ठिताः।
आरोहकैर्महामात्रैस्तोमराङ्कुरापाणिभिः।।
सुवर्णजालैः प्रच्छन्ना मणिजालैश्च कुञ्जराः।
रूप्यजाम्बूनदाभासः क्षुरमालाभ्यलङ्कृताः।।
वध्यमानाः शरै राजन्भीमसेनेन ते गजाः।
विभिन्नहृदयाः केचित्तत्रैवाभ्यपतन्भुवि।।
निपतद्भिर्महावेगैर्हेमभाण्डविभूषितैः।
अशोभत महाराज धातुचित्रैरिवाचलैः।।
दीप्ताभरणवद्भिश्च गजपृष्ठनिपातितैः।
सङ्गरः शुशुभे राजन्क्षीणपुण्यैरिवामरैः।।
महापरिघसङ्काशौ चन्दनागरुरूषितौ।
अपश्यं भीमसेनस्य धनुर्विक्षिपतो भुजौ।।
तस्य ज्यातलनिर्घोषमस्यतः सव्यदक्षिणम्।
तं श्रुत्वाऽभ्यद्रवन्नागा भीमसेनभयार्दिताः।।
तस्य भीमस्य तत्कर्म राजन्नेकस्य धीमतः।
अपश्याम महाराज तद्भूतमिवाभवत्'।।
।। इति श्रीमन्महाभारते कर्णपर्वणि
सप्तदशदिवसयुद्धे चत्वारिंशोऽध्यायः।। 40 ।।