कर्णपर्व

अध्यायः ३३

Karna Parva (Sanskrit) · Adhyaya 33
अक्षर का आकार

शल्य उवाच।

मा सूतपुत्र मन्येत(थाः) सौवर्णं हस्तिषङ्गवम्।
प्रयच्छसि मुधैव त्वं द्रक्ष्यस्यद्य धनञ्जयम्।।

मा सूतपुत्र दानेन सौवर्णं हस्तिषङ्गवम्।
प्रयच्छ पुरुषायाद्य द्रक्ष्यसि त्वं धनञ्जयम्।।

बलेन मत्तस्त्यजसि वसु वैश्रवणो यथा।
अयत्नेनैव राधेय द्रष्टास्यद्य धनञ्जयम्।।

पुरा सृजसि यच्चापि वित्तं बहु च मूढवत्।
अपात्रदानाद्ये दोषास्तान्मोहान्नावबुध्यसे।।

यत्प्रवेदयसे वित्तं बहु तेन खलु त्वया।
शक्यं बहुविधैर्यज्ञैर्यष्टुं सूत यजस्व तैः।।

यच्च प्रार्थयसे हन्तुं कृष्णौ मोहाद्वृथैव तत्।
न हि शुश्रुम सम्मर्दे क्रोष्ट्रा सिंहौ निपातितौ।।

अप्रार्थितं प्रार्थयसे सुहृदो न हि सन्ति ते।
ये त्वां निवारयन्त्याशु प्रपतन्तं हुताशने।।

कार्याकार्यं न जानीषे कालपक्कोऽस्यसंशयम्।
बह्वबद्धमकर्णीयं को हि ब्रूयाज्जिजीविषुः।।

समुद्रतरणं दोर्भ्यां कण्ठे बद्ध्वा यथा शिलाम्।
गिर्यग्राद्वा निपतनं तादृक्त्व चिकीर्षितम्।।

सहितः सर्वयोधैस्त्वं व्यूढानीकैः सुरक्षितः।
धनञ्जयेन युध्यस्व श्रेयश्चेत्प्राप्तुमिच्छसि।।

हितार्थं धार्तराष्ट्रस्य ब्रवीमि त्वां न हिंसया।
श्रद्धस्वेदं मया प्रोक्तं यदि तेऽस्ति जिजीविषा।।

कर्ण उवाच।

स्वबाहुवीर्यमाश्रित्य प्रार्थयाम्यर्जुनं रणे।
त्वं तु मित्रमुखः शत्रुर्मां भीषयितुमिच्छसि।।

न मामस्मादभिप्रायात्कश्चिदद्य निवर्तयेत्।
अपीन्द्रो वज्रमुद्यम्य किमु मर्त्यः कथञ्चन।।

सञ्जय उवाच।

इति कर्णस्य वाक्यान्ते शल्यः प्राहोत्तरं वचः।
चुकोपयिषुरत्यर्थं कर्णं मद्रेश्वरः पुनः।।

यदा वै त्वां फल्गुनबाहुवेगा--
ज्ज्याचोदिता वेगवन्तोऽग्निकल्पाः।
अन्वेतारः कङ्कपत्राः शिताग्रा--
स्त्यक्ष्यत्येषा स्वां तदा कर्ण बुद्धिः।।

यदा दिर्व्य धनुरादाय पार्थः
प्रतापयन्पृतनां सव्यसाची।
त्वां मर्दयिष्यत्यसुखैः पृषत्कै--
स्तदापृच्छां त्यक्ष्यसे पाण्डवस्य।।

बालश्चन्द्रं मातुरङ्के शयानो
यथा कश्चित्प्रार्थयतेऽपहर्तुम्।
तद्वन्मोहाद्दयोतामानं रथस्थं
जेतुं पार्थं काङ्क्षसे सूतपुत्र।।

हरादस्त्रं तीक्ष्णधारं यथाऽद्य
सर्वाणि गात्राणि निकर्षसि त्वम्।
सुतीक्ष्णशस्त्रोपमकर्मणेह
युयुत्ससे फल्गुनेनाद्य कर्ण।।

हन्यादसिं तीक्ष्णधारं यथाऽतः
सुतेजनं निहितं वै पृथिव्याम्।
तथा खनस्यद्य शितान्पृषत्का--
न्यथार्थयस्यर्जुनेनेह युद्धम्।।

त्रिशूलमाश्लिष्य सुतीक्ष्णधारं
सर्वाणि गात्राणि विघर्षसि त्वम्।
सुतीक्ष्णधारोपमकर्मणा त्वं
युयुत्ससे योऽर्जुनेनाद्य कर्ण।।

क्रुद्धं सिंहं केसरिणं बृहन्तं
बालो मूढः क्षुद्रमृगस्तरस्वी।
समाह्वयेद्वृष्टमुपेत्य योद्धुं
तथा त्वमद्याह्वयसे हि पार्थम्।।

मा सूतपुत्राह्वय राजपुत्रं
महावीर्यं केसरिणं यथैव।
वने शृगालः पिशितेन तृप्तः
पार्थं समासाद्य विनङ्क्ष्यसि त्वम्।।

ईषादन्तं महानागं प्रभिन्नकरटामुखम्।
शशको हयसे युद्वे कर्ण पार्थं धनञ्जयम्।।

विलस्थं कृष्णसर्पं त्वं जाल्यात्काष्ठेन विध्यसि।
महाविषं पूर्णकोपं यत्पार्थं योद्वुमिच्छसि।।

सिंहं केसरिणं क्रुद्धमभिक्रम्याभिनर्दसे।
शृगाल इव मूढस्त्वं नृसिंहं कर्ण पाण्डवम्।।

सुपर्णं पतगश्रेष्ठं वैनतेयं तरस्विनम्।
स्वगेवाह्वयसे पार्थं तथा कर्णं धनञ्जयम्।।

सर्वाम्भसां निधिं भीमं मूर्तिमन्तं झषाकुलम्।
चन्द्रोदये विवर्धन्तमप्लुवस्त्वं तितीर्षसि।।

ऋषभं दुन्दुभिग्रीवं तीक्ष्णशृङ्गं प्रहारिणम्।
वत्स आह्वयसे युद्वे कर्ण पार्थं धनञ्जयम्।।

महामेघं महाघोषं दर्दुरः प्रतिनर्दसि।
बाणतोयप्रदं काले नरपर्जन्यमर्जुनम्।।

यथा च श्वा गृहस्थस्तु व्याघ्रं वनगतं भषेत्।
तथा त्वं भषसे कर्ण नरव्याघ्रं धनञ्जयम्।।

शृगालो हि वने कर्ण शशैः परिवृतो वसन्।
मन्यते सिंहमात्मानं यावत्सिंहं न पश्यति।।

तथा त्वमपि राधेय सिंहमात्मानमिच्छसि।
अपश्यञ्शत्रुदमनं नरसिंहं रणेऽर्जुनम्।।

व्याघ्रं त्वं मन्यसेऽऽत्मानं यावत्कृष्णौ न पश्यसि।
समास्थितावेकरथे सूर्याचन्द्रमसाविव।।

यावद्ग्राण्डीवघोषं त्वं न शृणोषि महाहवे।
तावदेव त्वया कर्ण शक्यं वक्तुं यथेच्छसि।।

रथशङ्खधनुःशब्दैर्नादयन्तं दिशो दश।
नर्दन्तमिव शार्दूलं दृष्ट्वा क्रोष्टा भविष्यसि।।

नित्यमेव शृगालस्त्वं नित्यं सिंहो धनञ्जयः।
वीरप्रद्वेषणान्मूढ तस्मात्क्रोष्टेव लक्ष्यसे।।

यथाऽऽखुः स्याद्विडालश्च श्वा व्याघ्रश्च बलाबले।
यथा शृगालः सिंहश्च यथा च शशकुञ्जरौ।।

यथाऽनृतं च सत्यं च यथा चापि विषामृते।
तथा त्वमपि पार्थश्च प्रख्यातावात्मकर्मभिः।।

।। इति श्रीमन्महाभारते कर्णपर्वणि
त्रयस्त्रिंशोऽध्यायः।। 33 ।।