कर्णपर्व

अध्यायः ३२

Karna Parva (Sanskrit) · Adhyaya 32
अक्षर का आकार

सञ्जय उवाच।

प्रयत्नेन तदा कर्णो हर्षयन्वाहिनीं तव।
एकैकं समरे दृष्ट्वा पाण्डवं पर्यपृच्छत।।

यो ममाद्य महात्मानं दर्शयेच्छ्वेतवाहनम्।
तस्मै दद्यामभिप्रेतं धनं यन्मनसेच्छति।।

न चेत्तदभिमन्येत तस्मै दद्यामहं पुनः।
शकटं रत्नसम्पूर्णं यो मे ब्रूयाद्वनञ्जयम्।।

न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्।
शतं दद्यां गवां तस्मै नैत्यकं कांस्यदोहनम्।।

शतं ग्रामवरांश्चैव दद्यामर्जुनदर्शिने।
तथा तस्मै पुनर्दद्यां श्वेतमश्वतरीरथम्।
युक्तमञ्जनकेशीभिर्यो मे ब्रूयाद्वनञ्जयम्।।

न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्।
अन्यं वाऽस्मै पुनर्दद्यां सौवर्णं हस्तिषङ्गवम्।।

तथाप्यस्मै पुनर्दद्यां स्त्रीणां शतमलङ्कृतम्।
श्यामानां निष्ककण्ठीनां गीतवाद्यविपश्चिताम्।।

न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्।
तस्मै दद्यां शतं नागाञ्शतं ग्रामाञ्शतं रथान्।।

सुवर्णस्य च मुख्यस्य हयाग्र्याणां शतं शतान्।
ऋद्व्या गुणैः सुदान्तांश्च धुर्यवाहान्सुशिक्षितान्।।

तथा सुवर्णशृङ्गीणां गोधेनूनां चतुःशतम्।
दद्यां तस्मै सवत्सानां यो मे ब्रूयाद्वनञ्जयम्।।

न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्।
अन्यदस्मै वरं दद्यां श्वेतान्पञ्चशतान्हयान्।।

हेमभाण्डपरिच्छन्नान्सुमृष्टमणिभूषणान्।
सुदान्तानपि चैवाहं दद्यामष्टादशापरान्।।

रथं च शुभ्रं सौवर्णं दद्यां तस्मै स्वलङ्कृतम्।
युक्तं परमकाम्भोजैर्यो मे ब्रूयाद्वनञ्जयम्।।

न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्।
अन्यदस्मै वरं दद्यां कुञ्जराणां शतानि षट्।।

काञ्चनैर्विविधैर्भाण्डैराच्छन्नान्हेममालिनः।
उत्पन्नानपरान्तेषु विनीतान्हस्तिशिक्षकैः।।

न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्।
अन्यदस्मै वरं दद्यां वैश्यग्रामांश्चतुर्दश।।

सुस्फीतान्धनसंयुक्तान्प्रत्यासन्नवनोदकान्।
अकुतोभयान्सुसम्पन्नान्राजभोज्यांश्चतुर्दश।।

दासीनां निष्ककण्ठीनां मागधीनां शतं तथा।
प्रत्यग्रवयसां दद्यां यो मे ब्रूयाद्धनञ्जयम्।।

न चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्।
अन्यं तस्मै वरं दद्यां यमसौ कामयेत्स्वयम्।।

पुत्रदारान्विहायैव यदन्यद्वित्तमस्ति मे।
तच्च तस्मै पुनर्दद्यां यद्यच्च मनसेच्छति।।

हत्वा च सहितौ कृष्णौ तयोर्वित्तानि सर्वशः।
तस्मै दद्यामहं यो मे प्रब्रूयात्केशवार्जुनौ।।

सञ्जय उवाच।

एता वाचः सुबहुशः कर्ण उच्चारयन्युधि।
दध्मौ सागरसम्भूतं सुस्वरं शङ्खमुत्तमम्।।

ता वाचः सूतपुत्रस्य तथा युक्ता निशम्य तु।
दुर्योधनो महाराज संहृष्टः सानुजोऽभवत्।।

ततो दुन्दुभिनिर्घोषो मृदङ्गानां च सर्वशा।
सिंहनादः सवादित्रः कुञ्चराणां च निःस्वनः।।

प्रादुरासीत्तदा राजंस्त्वत्सैन्ये पुरुषर्षभ।
योधानां सम्प्रहृष्टानां तथा समभवत्स्वनः।।

तथा प्रहृष्टे सैन्ये तं प्लुवमानं महारथम्।
विकत्थमानं च तदा राधेयमरिकर्शनम्।
मद्रराजः प्रहस्येदं वचनं प्रत्यभाषत।।

।। इति श्रीमन्महाभारते
कर्णपर्वणि द्वात्रिंशोऽध्यायः।। 32 ।।