कर्णपर्व
अध्यायः ३४
सञ्जय उवाच।
अधिक्षिप्तस्तु राधेयः शल्येनामिततेजसा।
शल्यमाह सुसङ्क्रुद्धो वाक्शल्यमवधारयन्।।
कर्ण उवाच।
गुणान्गुणवतां शल्य गुणवान्वेत्ति नागुणः।
त्वं तु नित्यं गुणैर्हीनः किं ज्ञास्यसि गुणागुणान्।।
अर्जुनस्य महास्त्राणि क्रोधं वीर्यं धनुः शरान्।
अहं शल्याभिजानामि न त्वं जानासि तत्तथा।।
तथा कृष्णस्य माहात्म्यमृषभस्य महीक्षिताम्।
यथाहं शल्य जानामि न त्वं जानासि तत्तथा।।
एवमेवात्मनो वीर्यमहं वीर्यं च पाण्डवे।
जानंस्तावाह्वये युद्धे शल्य नाग्निं पतङ्गवत्।।
अस्ति चाऽयमिषुः शल्य सुपुङ्खो रक्तभोजनः।
एकस्तूणीशयः पत्री सुधौतः समलङ्कृतः।।
शेते चन्दनचूर्णेन पूजितो बहुलाः समाः।
आहेयो विषवानुग्रो नराश्वद्विपसङ्घहा।।
घोररूपो महारौद्रस्तनुत्रास्थिविदारणः।
निर्भिन्द्यां येन रुष्टोऽहमपि मेरुं महागिरिम्।।
तमहं जातु नास्येयमन्यस्मिन्फल्गुनादृते।
कृष्णाद्वा देवकीपुत्रात्सत्यं चापि शृणुष्व मे।।
तेनाहमिषुणा शल्य वासुदेवधनञ्जयौ।
योत्स्ये परमसंरब्धौ तत्कर्म सदृशं मम।।
सर्वेषां वृष्णिवीराणां कृष्णे लक्ष्मीः प्रतिष्ठिता।
सर्वेषां पाण्डुपुत्राणां जयः पार्थे प्रतिष्ठितः।
उभयं तु समासाद्य को निवर्तितुमर्हति।।
तावेतौ पुरुषव्याघ्रौ समेतौ स्यन्दने स्थितौ।
मामेकमभिसंयुद्धौ सुजातं पश्य शल्य मे।।
पितृष्वसामातुलजौ भ्रातरावपराजितौ।
मणी सूत्र इव प्रोतौ द्रष्टासि निहतौ मया।।
अर्जुने गाण्डिवं कृष्णे चक्रं तार्क्ष्यकपिध्वजौ।
भीरूणां त्रासजननं शल्य हर्षकरं मम।।
त्वं तु दुष्प्रकृतिर्मूढो महायुद्वेष्वकोविदः।
भयावदीर्णः सन्त्रासादबद्धं बहुः भाषसे।।
संस्तौषि तौ तु केनापि हेतुना त्वं कुदेशज।
तौ हत्वा समरे हन्ता त्वामद्य सह बान्धवम्।।
पापदेशज दुर्बुद्धे क्षुद्र क्षत्रियपांसन।
सुहृद्रूपो रिपुः किं मां कृष्णाभ्यां भीषयिष्यसि।।
तौ वा मामद्य हन्तारौ हनिष्ये वाऽपि तावहम्।
नाहं बिभेमि कृष्णाभ्यां विजानन्नात्मनो बलम्।।
वासुदेवसहस्रं वा फल्गुनानां शतानि वा।
अहमेको हनिष्यामि जोषमास्स्व कुदेशज।।
स्त्रियो बालाश्च वृद्वाश्च प्रायः क्रीडागता जनाः।।
या गाथाः सम्प्रगायन्ति कुर्वतोऽध्ययनं यथा।
ता गाथाः शृणु मे शल्य मद्रकेषु दुरात्मसु।।
ब्राह्मणैः कथिताः पूर्वं यथावद्राजसन्निधौ।
श्रुत्वा चैकमना मूढ मम वा ब्रूहि चोत्तरम्।।
मित्रध्रुङ्मद्रको नित्यं यो नो द्वेष्टि स मद्रकः।
मद्रके सङ्गतं नास्ति क्षुद्रवाक्ये नराधमे।।
दुरात्मा मद्रको नित्यं नित्यमानृतिकोऽनृजुः।
यच्चान्यदपि दौरात्म्यं मद्रकेष्विति नः श्रुतम्।।
पिता पुत्रश्च माता च श्वश्रूश्वशुरमातुलाः।
भगिनी दुहिता भ्राता नप्ताऽन्ये ते च बान्धवाः।।
वयस्याभ्यागताश्चान्ये दासीदासाश्च सङ्गताः।
पुम्भिर्विमिश्रा नार्यश्च ज्ञाताज्ञाताः स्वयेच्छया।।
येषां गृहेष्वशिष्टानां सक्तुमद्याशिनां सदा।
पीत्वा शीधु सगोमांसं क्रन्दन्ति च हसन्ति च।।
गायन्ति चाप्यबद्धानि प्रवर्तन्ते च कामतः।
कामप्रलापिनोऽन्योन्यं तेषु धर्मःकथं भवेत्।।
मद्रकेष्ववलिप्तेषु प्रख्याताशुभकर्मसु।
नापि वैरं न सौहार्दं मद्रकेण समाचरेत्।।
मद्रके सङ्गतं नास्ति मद्रको हि सदा मलः।
मद्रकेषु च संसृष्टं शौचं गान्धारकेषु च।।
राजयाजकयाज्ये हि यथा दत्तं हविर्नशेत्।
शूद्रसंस्कारको विप्रो यथा याति पराभवम्।।
यथा ब्रह्मद्विषो नित्यं गच्छन्तीह पराभवम्।
यथैव संगतं कृत्वा नरः पतति मद्रकैः।।
बालेष्वपि सदा न स्म धनं वृश्चिक ते विषम्।
आथर्वणेन मन्त्रेण सर्वशान्तिः कृता मया।।
इति वृश्चिकदष्टस्य विषवेगहतस्य च।
कुर्वन्ति भेषजं प्राज्ञाः सत्यं तच्चापि दृश्यते।।
एवं विद्वञ्जोषमास्स्व ब्रूहि चात्रोत्तरं वचः।
वासांस्युत्सृज्य नृत्यन्ति स्त्रियो मद्यविमोहिताः।।
मैथुनेऽसङ्गताश्चापि यथाकामवराश्च ताः।
तासां पुत्र कथं धर्मं मद्रको वक्तुमर्हति।।
यास्तिष्ठन्त्यः प्रमेहन्ति यथैवोष्ट्रदशेरकाः।
तासां विभ्रष्टधर्माणां निर्लज्जानां ततस्ततः।
त्वं पुत्रस्तादृशीनां हि धर्मं वक्तुमिहेच्छसि।।
सौवीरकं याच्यमाना मद्रिका कर्षति स्फिचौ।
अदातुकामा वचनमिदं वदति दारुणम्।।
मा मां सौवीरकं कश्चिद्याचतां दयितं मम।
पुत्रं दद्यां पतिं दद्यां न तु दद्यां सुवीरकम्।।
गौर्यो बृहत्यो निर्हीका मद्रिकाः कम्पलावृताः।
घस्मरा नष्टशौचाश्च प्राय इत्यनुशुश्रुम।।
पमेहित्वा स्फिचौ भूमौ घर्षन्त्यो हीनशोधनाः।
शुद्धा नाद्भिर्न मृद्भिश्च नित्योच्छिष्टा भवन्ति हि।।
एवमादि मयाऽन्यैर्वा शक्यं वक्तुं भवेद्बहु।
आकेशान्तान्नखाग्राच्च वक्तव्येषु कुकर्मसु।।
मद्रकाः सिन्धुसौवीरा धर्मं विद्युः कथं त्विह।
पापदेशोद्भवा म्लेच्छा धर्माणामविचक्षणाः।।
एष मुख्यतमो धर्मः क्षत्रियस्येति नः श्रुतम्।
यदाजौ निहतः शेते सद्भिः समभिपूजितः।।
आयुधानां साम्पराये यन्मुञ्चेयमहं ततः।
ममैष प्रथमः कल्पो निधने स्वर्गमिच्छतः।।
सोयं प्रियसखा चास्मि धार्तराष्ट्रस्य धीमतः।
तदर्थे हि मम प्राणा यच्च मे विद्यते वसु।।
व्यक्तं त्वमप्युपहितः पाण्डवैः पापदेशज।
यथा चामित्रवत्सर्वं त्वमस्मासु प्रवर्तसे।।
कामं न खलु शक्योऽहं त्वद्विधानां शतैरपि।
सङ्ग्रामाद्विमुखः कर्तुं धर्मज्ञ इव नास्तिकैः।।
सारङ्ग इव घर्मार्तः कामं विलप शुष्य च।
नाहं भीषयितुं शक्यः क्षत्रधर्मे व्यवस्थितः।।
तनुत्यजां नृसिंहानामाहवेष्वनिवर्तिनाम्।
या गतिर्गुरुणा प्रोक्ता प्रेम्णा रामेण तां स्मरे।।
स्वेषां त्राणार्थमुद्यन्तं वधार्थं द्विषतामपि।
विद्धि मामास्थितं वृत्तं पौरूरवसमुत्तमम्।।
न तद्भूतं प्रपश्यामि त्रिषु लोकेषु मद्रप।
यो मामस्मादभिप्रायाद्वारयेदिति मे मतिः।।
एवं विद्वञ्जोषमास्स्व त्रासात्किं बहु भाषसे।
न त्वां हत्वा प्रदास्यामि क्रव्याद्भ्यो मद्रकाधम्।।
मित्रप्रतीक्षया शल्य धृतराष्ट्रस्य चोभयोः।
अपवादतितिक्षाभिस्त्रिभिरेतैर्हि जीवसि।।
पुनश्चेदीदृशं वाक्यं मद्रराज वदिष्यसि।
शिरस्ते पातयिष्यासि गदया वज्रकल्पया।।
श्रोतारस्त्विदमद्येह द्रष्टारो व्रा कुदेशज।
कर्णं वा जघ्नतुः कृष्णौ कर्णो वा निजघान तौ।।
एवमुक्त्वा तु राधेयः पुनरेव विशाम्पते।
अब्रवीन्मद्रराजानं याहियाहीत्यसम्भ्रमम्।।
।। इति श्रीमन्महाभारते कर्णपर्वणि
चतुस्त्रिंशोऽध्यायः।। 34 ।।