कर्णपर्व

अध्यायः २९

Karna Parva (Sanskrit) · Adhyaya 29
अक्षर का आकार

दुर्योधन उवाच।

एवं स भगवान्देवः सर्वलोकपितामहः।
सारथ्यमकरोत्तत्र ब्रह्मा रुद्रोऽभवद्रथी।।

रथिनोऽभ्यधिको वीर कर्तव्यो रथसारथिः।
तस्मात्त्वं पुरुषव्याघ्र नियच्छ तुरगान्युधि।।

यथा देवगणैस्तत्र वृतो यत्नात्पितामहः।
तथाऽस्माभिर्भवान्यत्नात्कर्णादभ्यधिको वृतः।।

यथा देवैर्महाराज ईश्वरादधिको वृतः।
तथा देवैर्महाराज क्षिप्रं रुद्रस्यव पितामहः।
नियच्छ तुरगान्युद्वे राधेयस्य महाद्युते।।

शल्य उवाच।

मयाप्येतन्नरश्रेष्ठ बहुशो नरसिंहयोः।
कथ्यमानं श्रुतं दिव्यमाख्यानमतिमानुषम्।।

यथा च चक्रे सारथ्यं भवस्य प्रपितामहः।
यथाऽसुराश्च निहता इषुणैकेन भारत।।

कृष्णस्य चापि विदितं सर्वमेतत्पुरा ह्यभूत्।।

यथा पितामहो जज्ञे भगवान्सारथिस्तदा।
अनागतमतिक्रान्तं वेद कृष्णोऽपि तत्त्वतः।।

एतदर्थं विदित्वाऽपि सारथ्यमुपजग्मिवान्।
स्वयम्भूरिव रुद्रस्य कृष्णः पार्थस्य भारत।।

यदि हन्याच्च कौन्तेयं सूतपुत्रः कथञ्चनः।
दृष्ट्वा पार्थं हि निहतं स्वयं योत्स्यति केशवः।।

शङ्खचक्रगदापाणिर्धक्ष्यते तव वाहिनीम्।
न चापि तस्य क्रुद्धस्य वार्ष्णेयस्य महात्मनः।
स्थास्यते प्रत्यनीकेषु कश्चिदत्र नृपस्तव।।

सञ्जय उवाच।

तं तथा भाषमाणं तु मद्रराजमरिन्दमः।
प्रत्युवाच महाबाहुरदीनात्मा सुतस्तव।।

मावमंस्था महाबाहो कर्णं वैकर्तनं रणे।
सर्वशस्त्रभृतां श्रेष्ठं सर्वशास्त्रार्थपरागम्।।

यस्य ज्यातलनिर्घोषं श्रुत्वा भयकरं महत्।
पाण्डवेयानि सैन्यानि विद्रवन्ति दिशो दश।।

प्रत्यक्ष ते महाबाहो यथा रात्रौ घटोत्कचः।
मायाशतानि कुर्वाणो हतो मायापुरस्कृतः।।

न चातिष्ठत बीभत्सुः प्रत्यनीके कथञ्चन।
एतांश्च दिवसान्सर्वान्भयेन महता वृतः।।

भीमसेनश्च बलवान्धनुष्कोट्याभिचोदितः।
उक्तश्च संज्ञया राजन्मूढ औदरिको यथा।।

माद्रीपुत्रौ तथा शूरौ येन जित्वा महारणे।
कमप्यर्थं पुरस्कृत्य न हतौ युधि मारिष।।

येन वृष्णिप्रवीरस्तु सात्यकिः सात्वतां वरः।
निर्जित्य समरे शूरो विस्थश्च बलात्कृतः।।

सृञ्जयाश्चेतरे सर्वे धृष्टद्युम्नपुरोगमाः।
असकृन्निर्जिताः सङ्ख्ये स्मयमानेन संयुगे।।

तं कथं पाण्डवा युद्वे विजेष्यन्ति महारथम्।
यो हन्यात्समरे क्रुद्वो वज्रहस्तं पुरन्दरम्।।

त्वं च सर्वास्त्रविद्वीरः सर्वविद्यास्त्रपारगः।
बाहुवीर्येण ते तुल्यः पृथिव्यां नास्ति कश्चन।।

त्वं शल्यभूतः शत्रूणामविषह्यः पराक्रमे।
ततस्त्वमुच्यसे राजञ्शल्य इत्यरिसूदन।।

तव बाहुबलं प्राप्य न शेकुः सर्वसात्वताः।
तव बाहुबलाद्राजन्किं नु कृष्णो बलाधिकः।।

यथा हि कृष्णेन बलं धार्यं वै फल्गुने हते।
तथा कर्णात्ययीभावे त्वया धार्यं महद्बलम्।।

किमर्थं समरे सैन्यं वासुदेवो न्यवारयत्।
किमर्थं च भवान्सैन्यं न हनिष्यति मारिष।।

त्वत्कृते पदवीं गन्तुमिच्छेयं युधि मारिष।
सोदराणां च वीराणां सर्वेषां च महीक्षिताम्।।

शल्य उवाच।

यन्मां ब्रवीषि गान्धारे अग्रे सैन्यस्य मानद।
विशिष्टं देवकीपुत्रात्प्रीतिमानस्म्यहं त्वयि।।

एष सारथ्यमातिष्ठे राधेयस्य यशस्विनः।
युध्यतः पाण्डवाग्र्येण यथा त्वं वीर मन्यसे।।

समयश्च हि मे वीर कश्चिद्वैकर्तनं प्रति।
उत्सृजेयं यथाश्रद्वमहं वाचोऽस्य सन्निधौ।।

सञ्जय उवाच।

तथेति राजन्पुत्रस्ते सह कर्णेन मारिष।
अब्रवीत्मद्रराजानं सर्वक्षत्रस्य सन्निधौ।।

सारथ्यस्याभ्युपगमाच्छल्येनाश्वासितस्तदा।
दुर्योधनस्तदा हृष्टः कर्णं तमभिषस्वजे।।

अब्रवीच्च पुनः कर्णं स्तूयमानः सुतस्तव।
जहि पार्थान्रणे सर्वान्महेन्द्रो दानवानिव।।

स शल्येनाभ्युपगते हयानां सन्नियच्छने।
कर्णो हृष्टमना भूयो दुर्योधनभाषत।।

नातिहृष्टमना ह्येष मद्रराजोऽभिभाषते।
राजन्मधुरया वाचा पुनरेनं ब्रवीहि वै।।

ततो राजा महाप्राज्ञः सर्वास्त्रकुशलो बली।
दुर्योधनोऽब्रवीच्छल्यं मद्रराजं महीपतिम्।।

पूरयन्निव घोषेण मेघगम्भीरया गिरा।
शल्य कर्णोऽर्जुनेनाद्य योद्वव्यमिति मन्यते।।

तस्य त्वं पुरुषव्याघ्र नियच्छ तुरगान्युधि।
कर्णो हत्वेतरान्सर्वान्फल्गुनं हन्तुमिच्छति।
तस्याभीषुग्रहे राजन्प्रयाचे त्वां पुनः पुनः।।

पार्थस्य सचिवः कृष्णो यथाऽभीषुग्रहो वरः।
तथा त्वमपि राधेयं सर्वतः परिपालय।।

सञ्जय उवाच।

ततः शल्यः परिष्वज्य सुतं ते वाक्यमब्रवीत्।
दुर्योधनममित्रघ्नं प्रीतो मद्राधिपस्तदा।।

शल्य उवाच।

एवं चेन्मन्यसे राजन्गान्धारे प्रियदर्शन।
तस्मात्ते यत्प्रियं किञ्चित्तत्सर्वं करवाण्यहम्।।

यत्रास्मि भरतश्रेष्ठ योग्यः कर्मणि कर्हिचित्।
तत्र सर्वात्मना युक्तो वक्ष्ये कार्यं परन्तप।।

यत्तु कर्णमहं ब्रूयां हितकामः प्रियाप्रिये।
मम तत्क्षमतां सर्वं भवान्कर्णश्च सर्वशः।।

कर्ण उवाच।

ईशानस्य यथा ब्रह्मा यथा पार्थस्य केशवः।
तथा नित्यं हिते युक्तो मद्रराज भवस्व नः।।

शल्य उवाच।

आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः।
अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम्।।

यत्तु विद्वन्प्रवक्ष्यामि प्रत्ययार्थमहं तव।
आत्मनः स्तवसंयुक्तं तन्निबोध यथातथम्।।

अहं शक्रस्य सारथ्ये योग्यो मातलिवत्प्रभो।
अप्रमादात्प्रयोगाच्च ज्ञानविद्याचिकित्सनैः।।

ततः पार्थेन सङ्ग्रामे युध्यमानस्य तेऽनघ।
वाहयिष्यामि तुरगान्विज्वरो भव सूतज।।

।। इति श्रीमन्महाभारते कर्णपर्वणि
एकोनत्रिंशोऽध्यायः।। 29 ।।