कर्णपर्व

अध्यायः २८

Karna Parva (Sanskrit) · Adhyaya 28
अक्षर का आकार

दुर्योधन उवाच।

इमं चाप्यपरं भूय इति हासं निबोध मे।
पितुर्मम सकाशे वै ब्राह्मणः प्राह धर्मवित्।।

श्रुत्वा चैतद्वचश्चित्रं हेतुकार्यार्थतत्त्ववित्।
कुरु शल्य विनिश्चित्य मा भूदत्र विचारणा।।

भार्गवाणां कुले जातो जमदग्निर्महातपाः।
तस्य रामेति विख्यातः पुत्रस्तेजोगुणान्वितः।।

स तीव्रं तप आस्थाय सम्प्रसादितवान्भवम्।
अस्त्रहेतोः प्रसन्नात्मा नियतः संयतेन्द्रियः।।

तस्मै तुष्टो महादेवो भक्त्या च प्रशमेन च।
हृद्गतं चास्य विज्ञाय दर्शयामास शङ्करः।
प्रत्यक्षेण महादेवः स्वां तनुं सर्वशङ्करः।।

शङ्कर उवाच।

राम तुष्टोऽस्मि भद्रं ते विदितं तव चेप्सितम्।
कुरुष्व पूतमात्मानं सर्वमेतदवाप्स्यसि।।

दास्यामि ते तदाऽस्त्राणि यदा पूतो भविष्यसि।
अपात्रमसमर्थं च दहन्त्यस्त्राणि भार्गव।।

इत्युक्तो जामदग्न्यस्तु देवदेवेन शूलिना।
प्रत्युवाच महात्मानं शिरसाऽवनतः प्रभुम्।।

यदा जानासि देवेश पात्रं मामस्त्रधारणे।
तदा शुश्रूषतेऽस्त्राणि भवान्मे दातुमर्हति।।

ततः स तपसा चैव व्रतेन नियमेन च।
पूजोपहारबलिभिर्होममन्त्रपुरस्कृतैः।।

समाराधितवाञ्शर्वं बहुवर्षगणांस्तदा।
प्रसन्नश्च महादेवो भार्गवस्य महात्मनः।।

असकृच्चाब्रवीत्तस्य गुणान्देव्याः सकाशतः।
भक्तिमानेष सततं मयि रामो दृढव्रतः।।

एवमस्य गुणान्प्रीतो बहुशो कथयद्विभुः।
देवतानां पितॄणां च समक्षमरिसूदन।।

एतस्मिन्नेव काले तु दैत्या ह्यासन्महाबलाः।
तैस्तदा दर्पमोहाद्वै अबाध्यन्त दिवौकसः।।

ततः सम्भूय विबुधास्तान्हन्तुं कृतनिश्चयाः।
चक्रुः शत्रुवधे यत्नं दैत्याञ्चेतुमशक्नुवन्।।

अभिगम्य ततो देवा महेश्वरमुमापतिम्।
प्रासादयंस्तदा भक्त्या जहि शत्रुगणानिति।।

प्रतिज्ञाय ततो देवो देवतानां रिपुक्षयम्।
रामं भार्गवमाहूय सोऽभ्यभाषत शङ्करः।।

रिपून्भार्गव देवानां जहि सर्वान्समागतान्।
लोकानां हितकामार्थं मत्प्रियार्थं तथैव च।।

परशुराम उवाच।

का शक्तिर्मम देवेश अकृतास्त्रस्य संयुगे।
निहन्तुं दानवान्सर्वान्कृतास्त्रान्युद्धदुर्मदान्।।

ईश्वर उवाच।

गच्छ त्वं मदनुज्ञानान्निहनिष्यसि शात्रवान्।
विजित्य च रिपून्सर्वान्गुणान्प्राप्स्यसि पुष्कलान्।।

दुर्योधन उवाच।

एतच्छ्रुत्वा तु वचनं प्रतिगृह्य च सर्वशः।
रामः कृतस्वस्त्ययनः प्रययौ दानवान्प्रति।।

ततोऽजयद्देवशत्रून्महादर्पबलान्वितान्।
वज्राशनिसमस्पर्शैः प्रहारैरेव भार्गवः।।

स दानवैः क्षततनुर्जामदग्न्यो नृपोत्तम।
संस्पृष्टः स्थाणुना सद्यो निर्व्रणः समपद्यत।।

प्रीतश्च भगवान्देवः कर्मणा तेन तस्य वै।
वरान्प्रादाद्बहुविधान्भार्गवाय महात्मने।।

उक्तश्च प्रीतियुक्तेन देवदेवेन शूलिना।।

निपातात्तव शस्त्राणां शरीरे याऽभवद्रुजा।
तया ते मानुषं कर्म व्यपोहं भृगुनन्दन।
गृहाणास्त्राणि दिव्यानि मत्सकाशाद्यथेप्सितं।।

ततोऽस्त्राणि समग्राणि वरांश्च मनसेप्सितान्।
लब्ध्वा बहुविधान्रामः प्रणम्यशिरसा शिवम्।
अनुज्ञां प्राप्य देवेशाज्जगाम स महातपाः।।

एवमेतत्पुरावृत्तं तथा कथितवानृषिः।।

भार्गवोऽपि ददौ सर्वं धनुर्वेदं महात्मने।
कर्णाय पुरुषव्याघ्रः सुप्रीतेनान्तरात्मना।।

वृजिनं न भवेत्किञ्चिदस्य कर्णस्य पार्थिव।
सूतेन वर्धितो नित्यं न सूतो नृप एव सः।।

विशुद्धयोनिं विज्ञाय दिव्यान्यस्त्राण्यदाद्भृगुः।
नापि सूतकुले जातं मन्ये कर्णं कथञ्चन।
देवपुत्रमदं मन्ये क्षत्रियाणां कुलोद्भवम्।।

विसृष्टमविबोधार्थं कुलस्येंति मतिर्मम।
सर्वथा न ह्यसो शल्य कर्णः सूतकुलोद्भवः।।

सकुण्डलं सकवचं दीर्घबाहुमरिन्दमम्।
कथमादित्यसङ्काशं मृगी सिंहं प्रसूयते।।

पश्य ह्यस्य भुजौ पीनौ नागराजकरोपमौ।
वक्षः पश्य विशालं च सर्वशस्त्रसहं रणे।।

न त्वेव प्राकृतः कश्चित्कर्णो वैकर्तनो वृषा।
महात्माह्येष राजेन्द्र रामशिष्यः प्रतापवान्।।

।। इति श्रीमन्महाभारते
कर्णपर्वणि अष्टविंशोऽध्यायः।। 28 ।।