कर्णपर्व
अध्यायः ३०
दुर्योधन उवाच।
अयं ते कर्ण सारथ्यं मद्रराजः करिष्यति।
कृष्णादभ्यधिको यन्ता देवेशस्येव मातलिः।।
यथा हरिहयैर्युक्तं सङ्गृह्णाति स मातलिः।
शल्यस्तथा तवाद्यायं संयन्ता रथवाजिनाम्।।
योधे त्वयि रथस्थे च मद्रराजे च सारथौ।
रथश्रेष्ठो ध्रुवं सङ्ख्ये पार्थानभिभविष्यति।।
सञ्जय उवाच।
ततो दुर्योधनो भूयो मद्रराजं तरस्विनम्।
उवाच राजन्सङ्ग्रामेऽध्युषिते पर्युपस्थिते।।
कर्णस्य यच्छ सङ्ग्रामे मद्रराज हयोत्तमान्।
त्वयाऽभिगुप्तो राधेयो विजेष्यति धनञ्जयम्।।
इत्युक्तो रथमास्थाय तथेति प्राह भारत।
शल्येऽभ्युपगते कर्णः सारथिं सुमनाऽब्रवीत्।।
त्वं सूत स्यन्दनं मह्यं कल्पयेत्यसकृत्त्वरन्।।
ततो जैत्रं रथवरं गन्धर्वनगरोपमम्।
विधिवत्कल्पितं भद्रं जयेत्युक्त्वा न्यवेदयत्।।
तं रथं रथिनां श्रेष्ठः कर्णोऽभ्यर्च्य यथाविधि।
सम्पादितं ब्रह्मविदा पूर्वमेव पुरोधसा।।
कृत्वा प्रदक्षिणं यत्नादुपस्थाय च भास्करम्।
समीपस्थं मद्रराजमारोह त्वमथाब्रवीत्।।
ततः कर्णस्य दुर्धर्षं स्यन्दनप्रवरं महत्।
आरुरोह महातेजाः शल्यः सिंह इवाचलम्।।
ततः शल्याश्रितं दृष्ट्वा कर्णः स्वं रथमुत्तमम्।
अध्यतिष्ठद्यथाऽम्भोदं विद्युत्वन्तं दिवाकरः।।
तावेकरथमारूढावादित्याग्निसमत्विषौ।
अभ्राजेतां यथा मेघं सूर्याग्नी सहितौ दिवि।।
संस्तूयमानौ तौ वीरौ तदास्तां द्युतिमत्तमौ।
ऋत्विक्सदस्यैरिन्द्राग्नी स्तूयमानाविवाध्यरे।।
स शल्यसङ्गृहीताश्वे रथे कर्णः स्थितो बभौ।
धनुर्विष्फारयन्घोरं परिवेषीव भास्करः।।
आस्थितः स रथश्रेष्ठं कर्णः शरगभस्तिमान्।
प्रबभौ पुरुषव्याघ्रो मन्दरस्थ इवांशुमान्।।
तं रथस्थं महाबाहुं युद्वायामिततेजसम्।
दुर्योधनस्तु राधेयमिदं वचनमब्रवीत्।।
अकृतं द्रोणभीष्माभ्यां दुष्करं कर्म संयुगे।
कुरुष्वाधिरथे वीर मिषतां सर्वधन्विनाम्।।
मनोगतं मम ह्यासीद्भीष्मद्रोणौ महारथौ।
अर्जुनं भीमसेनं च निहन्ताराविति ध्रुवम्।।
ताभ्यां यदकृतं वीर वीरकर्म महामृधे।
तत्कर्म कुरु राधेय वज्रपाणिरिवापरः।।
गृहाण धर्मराजं वा जहि वा त्वं धनञ्जयम्।
भीमसेनं च राधेय माद्रीपुत्रौ यमावपि।।
जयश्च तेऽस्तु भद्रं ते प्रयाहि पुरुषर्षभ।
पाण्डुपुत्रस्य सैन्यानि कुरु सर्वाणि भस्मसात्।।
ततस्तूर्यसहस्राणि भेरीणामयुतानि च।
वाद्यमानान्यरोचन्त मेघशब्दो यथा दिवि।।
प्रतिगृह्य तु तद्वाक्यं रथस्थो रथरुत्तमः।
अभ्यभाषत राधेयः शल्यं युद्धविशारदम्।।
चोदयाश्वान्महाबाहो यावद्वन्मि धनञ्जयम्।
भीमसेनं यमौ चोभौ राजानं च युधिष्ठिरम्।।
अद्य पश्यतु मे शल्य बाहुवीर्यं धनञ्जयः।
अस्यतः कङ्कपत्राणां सहस्राणि शतानि च।।
अद्य क्षेप्स्याम्यहं शल्य शरान्परमतेजनान्।
पाण्डवानां विनाशाय दुर्योधनजयाय च।।
सञ्जय उवाच।
एतच्छ्रुत्वा वचस्तस्य शल्यः कर्णं वचोऽब्रवीत्।
कथं नु तान्महावीर्यान्पाण्डवानवमन्यसे।।
सर्वास्त्रज्ञान्महेष्वासान्सर्वानेन महाबलान्।
अनिवर्तिनो महाभागानजय्यान्सत्यविक्रमान्।
अपि सञ्जनयेयुर्ये भयं साक्षाच्छतक्रतोः।।
यदा श्रोष्यसि निर्घोषं विस्फूर्जितमिवाशनेः।
राधेय पार्थधनुषस्तदा नैवं वदिष्यसि।।
यदा द्रक्ष्यसि भीमेन कुञ्जरानीकमाहवे।
विशीर्णदन्तं निहतं तदा नैवं वदिष्यसि।।
यदा द्रक्ष्यसि सङ्ग्रामे धर्मपुत्रं यमौ तथा।
शितैः पृषत्कैः कुर्वाणानभ्रच्छायामिवाम्बरे।।
अस्यतः क्षिण्वतश्चारीँल्लघुहस्तान्दुरासदान्।
पार्थिवागपि चान्यांस्त्वं तदा नैवं वदिष्यसि।।
सञ्जय उवाच।
अनादृत्य तु तद्वाक्यं मद्रराजे भाषितम्।
द्रक्ष्यस्यद्येत्यवोचत्तं शल्यं कर्णो जनेश्वर।।
।। इति श्रीमन्महाभारते
कर्णपर्वणि त्रिंशोऽध्यायः।। 30 ।।