कर्णपर्व

अध्यायः २४

Karna Parva (Sanskrit) · Adhyaya 24
अक्षर का आकार

दुर्योधन उवाच।

भूय एव तु मद्रेश यत्त्वा वक्ष्यामि तच्छृणु।
यथा पुरावृत्तमिदं युद्धे देवासुरे प्रभो।।

यदुक्तवान्पितुर्मह्यं मार्कण्डेयो महातपाः।
ब्रुवतस्तदशेषेण मम राजर्षिसत्तम।
निबोध मनसा चात्र न ते कार्या विचारणा।।

`समुत्पन्नो हि राजानः प्रमोह इति निश्चयम्।
कृत्वा चैव व्यवस्यन्ति सर्वे धर्मार्थनिश्चयान्।।

देवानामसुराणां च महानासीत्समुच्छ्रयः।
सैंहिकेयास्तदोद्वृत्ता विबुधानवसूदयन्।
ते निरस्तः कृता देवैर्दानवा बलगर्विताः'।।

तत्रासीत्प्रथमो राजन्सङ्ग्रामस्तारकामयः।
निर्जिताश्च ततो दैत्या दैवतैरिति नः श्रुतिः।।

भग्नदर्पा निरुत्साहाः पातालं विविशुस्तदा।।

निर्जितेषु च दैत्येषु तारकस्य सुतास्त्रयः।
ताराक्षः कमलाक्षश्च विद्युन्माली च पार्थिव।।

तप उग्रं समास्थाय नियमे परमे स्थिताः।
तपसा कर्णयामासुर्देहांस्ताञ्शत्रुकर्शनाः।।

दमेन तपसा चैव नियमेन समाधिना।
तेषां पितामहः प्रीतो वरदः प्रददौ वरम्।।

अवध्यत्वं च ते सर्वे सर्वभूतेषु सर्वदा।
सहिता वरयामासः सर्वलोकपितामहम्।।

तानब्रवीत्तदा देवः सर्वलोकगुरुः प्रभुः।
नास्ति सर्वामरत्वं वै निवर्तध्वमितोऽसुराः।
अन्यं वरं वृणीध्वं वै रोचते यादृशो हि वः।।

ततस्ते सहिता राजन्सम्प्रधार्यासकृद्बहुः।
सर्वलोकेश्वरं वाक्यं प्रणम्यैनमथाऽब्रुवन्।।

वस्तुमिच्छाम नगरं कर्तुं कामगमं शुभम्।
सर्वकामसमृद्वार्थमवध्यं देवदानवैः।।

यक्षरक्षोरगगणैर्नानाजातिभिरेव च।
न कृत्याभिर्न शस्त्रैश्च न शापैर्ब्रह्मवादिनाम्।
वध्येत त्रिपुरं देव प्रयच्छेः प्रपितामह।।

वयं पुराणि त्रीण्येव समास्थाय महीमिमाम्।
विचरिष्याम लोकेऽस्मिंस्त्वत्प्रसादपुरस्कृताः।।

ततो वर्षसहस्रेषु समेष्यामः परस्परम्।
एकीभावं गभिष्यन्ति पुराण्येतानि चानघ।।

समागतानि चैतानि यो हन्याद्भगवांस्तदा।
एकेषुणा देववरः स नो मृत्युर्भविष्यति।।

दुर्योधन उवाच।

तेषां तद्वचनं श्रुत्वा दानवानां पितामहः।
एवमस्त्विति तान्देवः प्रत्युक्त्वा प्राविशद्दिवम्।।

ते तु लब्धवराः प्रीताः सम्प्रधार्य परस्परम्।
पुरत्रयविसृष्ट्यर्थं मयं वव्रुर्महारथाः।
विश्वकार्माणमजरं दैत्यदानवपूजितम्।।

ततो मयः स्वतपसा चक्रे धीमान्पुराणि च।
त्रीणि काञ्चनमेकं वै रौप्यं कार्ष्णायसं तथा।।

काञ्चनं दिवि तत्रासीदन्तरिक्षे च राजतम्।
आयसं चाभवद्भौमं तदा तेषां परन्तप।।

एकैकं योजनशतं विस्तृतं तावदायतम्।
दृढं चाट्टालकयुतं बृहत्प्राकारतोरणम्।।

गृहप्रवरसम्बाधमसम्बाधमहापथम्।
प्रासादैर्विविधैश्चापि द्वारैश्चैवोपशोभितम्।।

त्रिपुरं तेषु चाप्यासन्राजानो वै पृथक्पृथक्।
दिव्यमाल्याम्बरधरा दैतेया राजसत्तम।।

काञ्चनं तारकाक्षस्य दिव्यमासीन्महात्मनः।
राजतं कमलाक्षस्य विद्युन्मालिन आयसम्।।

त्रयस्ते दैत्यराजानस्त्रीँल्लोकानाशु तेजसा।
आक्रम्य तस्थुरूचुश्च कश्च नाम प्रजापतिः।।

तेषां दानवमुख्यानां प्रयुतान्यर्बुदानि च।
कोट्याश्चाप्रतिवीराणां समाजग्मुस्ततस्ततः।।

मांसाशिनः सुदृप्ताश्च सुरैर्विनिकृताः पुरा।
महदैश्वर्यमिच्छन्तस्त्रिपुरं दुर्गमाश्रिताः।।

सर्वेषां च पुनश्चैषां सर्वयोगवहो मयः।
तमाश्रित्य हि ते सर्वेऽवर्तयन्नकुतोभयाः।।

यो हि यं मनसा कामं दध्यौ त्रिपुरसंश्रयः।
तस्मै तस्मै मयस्तं तं विदधे मायया तदा।।

तारकाक्षसुतश्चासीद्वरिर्नाम महाबलः।
तपस्तेपे परमकं येनातुष्यत्पितामहः।।

सन्तुष्टमवृणोद्देवं वापी भवतुः नः पुरे।
शस्त्रैर्विनिहता यत्र क्षिप्ताः स्युर्बलवत्तराः।।

स तु लब्ध्वा वरं वीरस्तारकाक्षसुतो हरिः।
ससृजे तत्र वापीं तां मृतसञ्जीविनीं प्रभो।।

येन रूपेण यो दैत्यो येन वेषेण चाप्यथ।
क्षिप्यते निहतो वाप्यां तादृशेनैव जायते।
सम्पूर्णबलवीर्यस्तु राजञ्छौर्यसमन्वितः।।

एवं वीर्येण संयुक्तां कृतां तेन महात्मना।
तां प्राप्य त्रैपुरा वापीं लोकान्सर्वान्बबाधिरे।।

महता तपसा सिद्धाः सुराणां भयवर्धनाः।
एकस्मिन्निहते दैत्ये सृजन्ति स्म दशासुरान्।
न तेषां विद्यते युद्वे क्षयो राजन्कथञ्चन।।

ततस्ते लोभमोहाभ्यामभिभूता विचेतसः।
निर्भीकाः सहिताः सर्वे स्थापिताः समलोलुपाः।।

विद्राव्य सगणान्देवांस्तत्रतत्र तदातदा।
विचेरुः स्वेन कामेन वरदानेन दर्पिताः।।

देवोद्यानानि सर्वाणि स्थानानि च दिवौकसाम्।
ऋषीणामाश्रमान्पुण्यान्रम्याञ्चनपदांस्तथा।
उत्सादयन्त मर्यादां दानवा दुष्टचारिणः।।

निःस्थानाश्च कृता देवा ऋषयः पितृभिः सह।
दैत्यैस्त्रिभिस्त्रयो लोका ह्याक्रान्तास्तैः सुरेतरैः।।

पीड्यमानेषु लोकेषु ततः शक्रो मरुद्वृतः।
पुराण्यायोधयाञ्चक्रे वज्रहस्तः समन्ततः।।

नाशकत्तान्यभेद्यानि यदा भेत्तुं पुरन्दरः।
पुराणि वरदत्तानि धात्रा तेन नराधिप।।

तदा भीतः सुरपतिर्मुक्त्वा तानि पुराण्यथ।
तैरेव विबुधैः सार्धं पितामहमरिन्दम।
जगामाथ तदाख्यातुं विप्रकारं सुरेतरैः।।

ते तत्त्वं सर्वमाख्याय शिरोभिः सम्प्रणम्य च।
तद्वधोपायमाचक्ष्व भगवन्निति चाब्रुवन्।।

श्रुत्वा तद्भगवान्देवो देवानिदमुवाच ह।
श्रूयतां त्रिदशाः सर्वे यथेदं वाक्यगौरवम्।।

दुरात्मानोऽसुरा नित्यं ते चापि विबुधा मम।
न शक्नुवन्ति ते (ये) सर्वे युष्मान्वै पीडयन्ति ते।।

अहं समस्तु सर्वेषां भूतानां नात्र संशयः।
अविनीता निहन्तव्या इत्येवं प्रब्रवीमि वः।।

एकेषुणा (हि) विभेद्यानि तानि दुर्गाणि नान्यथा।
शक्तस्तु तानि बाणेन भेत्तुं कामं त्रिलोचनः।।

ते यूयं स्थाणुमीशानं जिष्मुमक्लिष्टकारिणम्।
योद्वारं वृणुत क्षिप्रं स तान्हन्ता सुरेतरान्।।

ते देवास्तेन वाक्येन चोदिताः प्रणताः स्थिताः।
दिव्यं वर्षसहस्रं वै तपस्तप्त्वा सुरर्षभाः।
शुभात्मानो महात्मानो जग्मुर्वै वृषभध्वजम्।।

ब्रह्माणमग्रतः कृत्वा शरण्यं शरणागताः।
तपः परममाजग्मुर्गृणन्तो ब्रह्म शाश्वतम्।।

अनङ्गमथनं सर्वे भवं सर्वात्मना गताः।
देवदेवं परं स्थाणुं वरदं त्र्यम्बकं शिवम्।।

शर्वमीड्यमजं रुद्रं शशाङ्काङ्कितमूर्धजम्।
तुष्टुवुर्वाग्भिरुग्राभिर्भयेष्वभयमच्युतम्।
सर्वात्मानं महात्मानं येनाप्तं विश्वमात्मना।।

तपोविशेषैर्विविधैर्योगं यो वेद चात्मनः।
यः साङ्ख्यमात्मना वेत्ति यस्य चात्मा वेशे सदा।।

तं ते ददृशुरीशानं तेजोराशिमुमापतिम्।
`परेण यत्नेन भवं त्रिदशाः शर्वमीश्वरम्'।
अनन्यसदृशं लोके प्रतपन्तमकल्मषम्।।

एकश्च भगवांस्तत्र नानारूपमकल्पयत्।
आत्मनः प्रतिरूपाणि रूपाण्यथ महात्मनि।
परस्परस्य चापश्यन्सर्वे परमविस्मिताः।।

सर्वभूतमयं दृष्ट्वा तमजं जगतः परिम्।
देवा ब्रह्मर्षयश्चैव शिरोभिर्धरणीं गताः।।

तान्स्वस्तिवाच्य चाभ्यर्च्य समुत्थाप्य च शङ्करः।
ब्रूतब्रूतेति भगवान्स्मयमानोऽभ्यभाषत।।

त्र्यम्बकेणाभ्यनुज्ञातास्ततस्ते स्वस्थचेतसः।
नमो नमो नमस्तेऽस्तु प्रभो इत्यब्रुवन्भवम्।।

नमो देवाधिदेवाय प्रियाधाघ्नेऽतिमन्यवे।
प्रजापतिमखघ्नाय प्रजापतिभिरीड्यते।।

नमः स्तुताय स्तुत्याय स्तूयमानाय शम्भवे।
विलोहिताय रुद्राय नीलग्रीवाय शूलिने।।

अमोघाय मृगाक्षाय प्रवरायुधयोधिने।
अर्हाय चैव शुद्वाय क्षयाय क्रथनाय च।।

दुर्वारणाय शुक्राय ब्रह्मणे ब्रह्मचारिणे।
ईशानायाप्रमेयाय निहन्त्रे चर्मवाससे।।

तपोरताय पिङ्गाय व्रतिने कृत्तिवाससे।
कुमारपित्रे त्र्यक्षाय प्रवरायुधधारिणे।।

प्रपन्नार्तिविनाशाय ब्रह्मद्विट्‌सङ्घघातिने।
वनस्पतीनां पतये वनानां पतये नमः।।

गवां च पतये नित्यं यज्ञानां पतये नमः।
नमोस्तु ते ससैन्याय त्र्यम्बकायामितौजसे।
मनोवाक्कर्मभिर्देव त्वां प्रपन्नान्भजस्व नः।।

ततः प्रसन्नो भगवान्स्वागतेनाभिनन्द्य च।
प्रोवाच व्येतु वस्त्रासो ब्रूत किं करवाणि वः।।

`देवाः शर्वस्य वचनं श्रुत्वा हर्षमुपागताः'।।

।। इति श्रीमन्महाभारते
कर्णपर्वणि चतुर्विंशोऽध्यायः।। 24 ।।