कर्णपर्व
अध्यायः २५
दुर्योधन उवाच।
पितृदेवर्षिसङ्घेभ्योऽभये दत्ते महात्मना।
सत्कृत्य शंकरं प्राह ब्रह्मा लोकपितामहः।।
इमान्यसुरदुर्गाणि लोकांस्त्रीनाक्रमन्ति हि।
कश्च प्रजापतिर्घोरांस्तान्स्रर्वाञ्जहि मा चिरम्।।
वरातिसर्गाद्देवेश प्राजापत्यमिदं परम्।
मयाऽधितिष्ठता दत्तो दानवेभ्यो महान्वरः।।
नास्त्यन्यो युधि तेषां वै निहन्ता इति नः श्रुतम्।
तानतिक्रान्तमर्यादान्नान्यः संहर्तुमर्हति।
त्वामृते सर्वभूतेश त्वं ह्येषां प्रत्यरिर्वधे।।
स त्वं देव प्रपन्नानां याचतां च दिवोकसाम्।
कुरु प्रसादं वरद दानवाञ्जहि संयुगे।।
त्वत्प्रसादाज्जगत्सर्वं सुखमैधत मानद।
शरण्यस्त्वं हि देवानां वयं त्वां शरणं गताः।।
ईश्वर उवाच।
हन्तव्याः शत्रवः सर्वे युष्माकमिति मे मतिः।
न त्वेकश्चोत्सहे हन्तुं बलिनः सुरविद्विषः।।
ते यूयं सहिताः सर्वे मदीयेनापि तेजसा।
जयध्वं युधि तान्सर्वान्सङ्घातेन महाबलान्।।
देवा ऊचुः।
अस्मत्तेजोबलं यावत्तावद्द्विगुणमेव वा।
तत्तेषामिति मन्यामो दृष्टतेजोबला हि ते।।
ईश्वर उवाच।
वध्यास्ते सर्वथा पापा ये युष्मास्वपराधिनः।
मम तेजोबलार्धेन सर्वे मृद्गथ शात्रवान्।।
देवा ऊचुः।
बिभर्तुं तव तेजोर्धं न शक्ष्याम सुरेश्वर।
सर्वेषां नो बलार्धेन त्वमेव जहि शात्रवान्।।
वयं च सर्वथा देव रक्षणीयास्तथैव च।
स नो रक्ष महादेव त्वमेव जहि शात्रवान्।।
ईश्वर उवाच।
मम तेजो न शक्ता हि सर्वे धारयितुं यदि।
अहमेनान्वधिष्यामि युष्मत्तेजोर्धसंयुतः।।
बलार्धं यदि मे देवा न धारयितुमाहवे।
शक्ताः सर्वे हि सङ्गम्य यूयं तत्प्रब्रवीमि वः।।
समा भवन्ति मे सर्वे दानवाश्चामराश्च ये।
शिवोऽस्मि सर्वभूतानां शिवत्वं तेन मे सुराः।।
किन्त्वधर्मेण वर्तन्ते यस्मात्ते सुरशत्रवः।
तस्माद्वध्या मयाप्येते युष्माकं च हितेप्सया।।
शरणं वः प्रपन्नानां धर्मेण च जिगीषताम्।
साहाय्यं वः करिष्यामि निहनिष्यामि वो रिपून्।।
दीयतां च बलार्धं मे सर्वैरपि पृथक्पृथक्।
पशुत्वं चैव मे लोकाः सर्वे कल्पन्तु पीडिताः।।
पशूनां तु पतित्वं मे भवत्वद्य दिवौकसः।
एवं न पापं प्राप्स्यामि पशून्हत्वा सुरद्विपः।।
कल्पयध्वं रथं दिव्यं रथाश्वांश्चैव पारगान्।
धनुः शरं सारथिं च ततो जेष्यामि वो रिपून्।।
इति श्रुत्वा वचो देवा देवदेवस्य भूपतेः।
विषादमगमन्सर्वे पशुत्वं प्रति शङ्किताः।।
तेषां भावं भवो ज्ञात्वा देवस्तानब्रवीदिदम्।
मा वोस्तु पशुभावेऽस्मिन्भयं विबुधसत्तमाः।।
श्रूयतां पशुभावस्य विमोक्षः क्रियतां च सः।।
यो वः पशुपतेश्चर्यां चरिष्यति स मोक्ष्यते।
पशुत्वादिति सत्यं वः प्रतिजाने समागमे।।
ये चाप्यन्ये चरिष्यन्ति व्रतं मोक्ष्यन्ति तेऽपि च।।
नै(त्य)ष्ठिकं द्वादशाब्दं वा अर्धमब्दमृतुत्रयम्।
मासं द्वादशरात्रं गुह्यं व्रतं दिव्यं चरिष्यथ।।
तं तथेत्यब्रुवन्देवा देवदेवनमस्कृतम्।
ऊचुश्चेदं गृहाणेदं तेजसोऽर्धमिति प्रभुम्।।
प्रत्युवाच तथेत्येव शूलधृद्राजसत्तम।
ततस्ते प्रददुः सर्वे तेजसोऽर्धं महात्मने।।
सर्वमादाय सर्वेषां तेजसोऽर्धं दिवौकसाम्।
तेजसाप्यधिको भूत्वा भूयोऽप्यतिबलोऽभवत्।।
ततः प्रभृति देवानां देवदेवोऽभवद्भवः।
पतिश्च सर्वभूतानां पशूनां चाभवत्तदा।।
तस्मात्पशुपतिश्चोक्तो भवत्वाच्च भवेति वै।।
अर्धमादाय सर्वेषां तेजसा प्रज्वलन्निव।
भासयामास तान्सर्वान्देवदेवो महाद्युतिः।।
ततोऽभिषिषिच्युः सर्वे सुरा रुद्रं पुरारिणम्।
महादेव इति ह्यासीद्देवदेवो महेश्वरः।।
।। इति श्रीमन्महाभारते
कर्णपर्वणि पञ्चविंशोऽध्यायः।। 25 ।।