कर्णपर्व
अध्यायः २३
सञ्जय उवाच।
एवमुक्तो महाराज तव पुत्रः प्रतापवान्।
मद्रेश्वरं प्रति रणे सुरसैन्यभयङ्करम्।
सर्वं तथाऽकरोत्तूर्णं राधेयस्तद्यथाऽब्रवीत्।।
मद्राजं च समरे प्रणम्य च महारथम्।
विनयेनोपसङ्गम्य प्रणयाद्वाक्यमब्रवीत्।।
सत्यव्रत महाभाग द्विषतां तापवर्धन।
मद्रेश्वर रणेशूर परसैन्यभयङ्कर।।
`मत्प्रियार्थं हितार्थं च तथा पार्थवधाय च'।
श्रुतवानसि कर्णस्य ब्रुवतो वदतां वर।
यथा नृपतिसिंहानां मध्ये त्वां वरये स्वयम्।।
तत्त्वामप्रतिवीर्याद्य शत्रुपक्षक्षयावह।
मद्रेश्वर प्रयाचेऽहं शिरसा विनयेन च।।
तस्मात्पार्थविनाशार्थं हितार्थं मम चैव हि।
त्वं पाहि सर्वतः कर्णं भवं ब्रह्मेव सुव्रत।।
सारथ्यं रथिनां श्रेष्ठ प्रणयात्कर्तुमर्हसि।
त्वयि यन्तरि राधेयो विद्विषो मे विजेष्यते।।
अभीषूणां हि कर्णस्य ग्रहीतान्यो न विद्यते।
ऋते हि त्वां महाभाग वासुदेवसमं युधि।।
स पाहि सर्वथा कर्णं यथा ब्रह्मा महेश्वरम्।
यथा च सर्वथाऽऽपत्सु वार्ष्णेयः पाति पाण्डवम्।
तथा मद्रेश्वराद्य त्वं राधेयं प्रतिपालय।।
भीष्मो द्रोणः कृपः कर्णो भवान्भोजश्च वीर्यवान्।
शकुनिः सौबलो द्रौणिरहमेव च नो बलम्।।
एवमेष कृतो भागो नवधा पृथिवीपते।
न च भागोऽत्र भीष्मस्य द्रोणस्य च महात्मनः।।
ताभ्यामतीत्य तौ भागौ निहता मम शत्रवः।
वृद्वौ हि तौ महेष्वासौ छलेन निहतौ युधि।।
कृत्वा चासुकरं कर्म गतौ स्वर्गमितोऽनघ।
तथान्ये पुरुषव्याघ्राः परैर्विनिहता युधि।।
अस्मदीयाश्च बहवः स्वर्गाय गमिताः परैः।
त्यक्त्वा प्राणानय्थाशक्ति चेष्टां कृत्वा च पुष्कलाम्।
तदिदं हतभूयिष्ठं बलं मम नराधिप।
पूर्वमप्यल्पकैः पार्थैर्हतं किमुत साम्प्रतम्।।
बलवन्तो महात्मानः कौन्तेयाः सत्यविक्रमाः।
बलं शेषं न हन्युर्मे यथा तत्कुरु पार्थिव।।
हतवीरमिदं सैन्यं पाण्डवैः समरे विभो।
कर्णो ह्येको महाबाहुरस्मत्प्रियहिते रतः।।
भवांश्च पुरुषव्याघ्र सर्वलोकमहारथः।
शल्य कर्णोऽर्जुनेनाद्य योद्वुमिच्छति संयुगे।।
तस्मिञ्जयाशा विपुला मद्रराज नराधिप।
तस्याभीषुग्रहवरो नान्योऽस्ति भुवि कश्चन।।
पार्थस्य समरे कृष्णो यथाऽभीषुग्रहो वरः।
तथा त्वमपि कर्णस्य रथेऽभीषुग्रहो भव।।
तेन युक्तो रणे पार्थो रक्ष्यमाणश्च पार्थिव।
यानि कर्माणि कुरुते प्रत्यक्षाणि तथैव तत्।।
पूर्वं नः समरे ह्येवमधीदर्जुनो रिपून्।
इदानीं विक्रमो ह्यस्य कृष्णेन सहितस्य च।।
कृष्णेन सहितः पार्थो धार्तराष्ट्रीं महाचमूम्।
अहन्यहनि मद्रेश द्रावयन्दृश्यते युधि।।
भागोऽवशिष्टः कर्णस्य तव चैव महाद्युते।
तं भागं सह कर्णेन युगपन्नाशयाद्य हि।।
अरुणेन यथा सार्धं तमः सूर्यो व्यपोहति।
तथा कर्णेन सहितो जहि पार्थं महाहवे।।
उद्यन्तौ च यथा सूर्यौ बालसूर्यसमप्रभौ।
कर्णशल्यौ रणे दृष्ट्वा विद्रवन्तु महारथाः।।
सूर्यारुषौ यथा दृष्ट्वा तमो नश्यति मारिष।
तथा नश्यन्तु कौन्तेयाः सपाञ्चालाः ससृञ्जयाः।।
रथिनां प्रवरः कर्णो यन्तॄणां प्रवरो भवान्।
संयोगो युवयोर्लोके नाभून्न च भविष्यति।।
यथा सर्वास्ववस्थासु वार्ष्मेयः पाति पाण्डवम्।
तथा भवान्परित्रातु कर्णं वैकर्तनं रणे।
`सारथ्यं क्रियतां तस्य युध्यमानस्य संयुगे।।
यथा च समरे कृष्णो रक्षते सर्वतोऽर्जुनम्।
तथा त्वमपि राधेयं रक्षस्व च महारणे'।।
त्वया सारथिना ह्येष अप्रधृष्यो भविष्यति।
देवतानामपि रणे सशक्राणां महीपते।
किं पुनः पाण्डवेयानां मा विशङ्कीर्वचो मम।।
सञ्जय उवाच।
दुर्योधनवचः श्रुत्वा शल्यः क्रोधसमन्वितः।
`धार्तराष्ट्रमथोवाच सृक्विणी परिलेलिहन्'।।
त्रिशिखां भ्रुकुटिं कृत्वा धुन्वन्हस्तौ पुनःपुनः।
क्रोधरक्ते महानेत्रे परिवृत्य महाभुजः।
कुलैश्वर्यश्रुतबलैर्दृप्तः शल्योऽब्रवीदिदम्।।
शल्य उवाच।
न मामर्हसि राजेद्र नियोक्तुं कर्मणीदृशे।
न हि पापीयसः श्रेयान्प्रेष्यत्वं कर्तुमर्हति।।
यो ह्यभ्युपगतं मित्रं गरीयांसं विशेषतः।
वशे पापीयसो धत्ते तत्कार्यमधरोत्तरम्।।
ब्रह्मणा ब्राह्मणाः सृष्टा मुखात्क्षत्रं च बाहुतः।
ऊरुभ्यामथ वैश्या वै शूद्राः पद्भ्यामिति श्रुतिः।।
तेभ्यो वर्णविशेषाश्च प्रतिलोमानुलोमजाः।
अथान्योन्यस्य संयोगाच्चातुर्वर्ण्यस्य भारत।।
गोप्तारः सङ्गृहीतारो दातारः क्षत्रियाः स्मृताः।।
याजनाध्यापनैर्विप्रा विशुद्वैश्च प्रतिग्रहैः।
लोकस्यानुग्रहार्थाय स्थापिता ब्राह्मणा भुवि।।
कृषिश्च पाशुपाल्यं च विशां दानं च धर्मतः।
ब्रह्मक्षत्रविशां शूद्रा विहिताः परिचारकाः।।
ब्रह्मक्षत्रस्य विहिताः सूता वै परिचारकाः।
न क्षत्रियो वै सूतानां शृणुयाच्च कथञ्चन।।
अहं मूर्धाभिषिक्तो हि राजर्षिकुलजो नृपः।
महारथसमाख्यातः सेव्यः स्तुत्यश्च वन्दिनां।।
सोऽमहेतादृशो भूत्वा नेहारिबलसूदनः।
सूतपुत्रस्य सङ्ग्रामे सारथ्यं कर्तुमुत्सहे।।
अवमन्यसे मां गान्धारे ध्रुवं चाप्यतिशङ्कसे।
यस्माद्ब्रवीषि विस्रब्धः सारथ्यं क्रियतामिति।।
अस्मत्तोऽभ्यधिकं कर्णं मन्वानस्तं प्रशंससि।
न चाहं युधि राधेयं गणये तुल्यमात्मनः।।
आदिश्यतामभ्यधिको ममांशः पृथिवीपते।
तमहं समरे हत्वा गमिष्यामि यथागतम्।।
अथवाप्येक एवाहं योत्स्यामि तव शत्रुभिः।
पश्य वीर्यं ममाद्य त्वं सङ्ग्रामे दहतो रिपून्।।
न चापि कामान्कौरव्य निधाय हृदये पुमान्।
अस्मद्विधः प्रवर्तेत मा मा त्वमतिशङ्किथाः।।
अपि चाप्यवमानो मे न कर्तव्यः कथञ्चन।
पश्य भीमौ मम भुजौ वज्रसंहननौ दृढौ।।
धनुः पश्य च मे चित्रं शरांश्चाशीविषपमान्।
रथं च पश्य मे चित्रं सदश्वैर्वातवेगिभिः।।
गदां च पश्य गान्धारे हेमपट्टविभूषिताम्।
दारयेयं महीं क्रुद्धो विकिरेयं च पर्वतान्।
शोषयेयं समुद्रांश्च पातयेयं च भास्करम्।।
तं मामेवंविधं राजन्समर्थमरिनिग्रहे।
कस्माद्युनङ्क्षि सारथ्ये सूतस्याधिरथेस्तु माम्।।
न चापि मम राधेयः कलामर्हति षोडशीम्।।
सकर्णा ये त्रयो लोकाः सार्जुनाः सजनार्दनाः।
निबद्वांस्तन्त्रणे राजन्न गणेयं कथञ्चन।।
न चाहं प्राकृतः कश्चिन्न चास्म्यधिगतः स्वयम्।
अयं चाप्यवमानो मे न कर्तव्यः कथञ्चन।।
आपृच्छे त्वाद्य गान्धारे यास्यामि विषयं प्रति।
न चाहं सूतपुत्रस्य सारथ्यमुपजग्मिवान्।।
अवमानमहं प्राप्य न योत्स्यामि कथञ्चन।
आपृच्छे त्वाऽद्य गान्धारे गमिष्यामि गृहाय वै।।
सञ्जय उवाच।
एवमुक्त्वा महाराज शल्यः समितिशोभनः।
उत्थाय प्रययौ तूर्णं राजमध्यादमर्षितः।।
प्रणयाद्बहुमानाच्च तं निगृह्य सुतस्तव।
अब्रवीन्मधुरं वाक्यं साम्ना सर्वार्थसाधकम्।।
यथा शल्य त्वमात्थेदमेवमेतदसंशयम्।
अभिप्रायस्तु मे कश्चित्तं निबोध जनेश्वर।।
न कर्णोऽभ्यधिकस्त्वत्तो न चान्ये चैव पार्थिवाः।
न च मद्रेश्वर त्वां वै कृष्णः सोढुं च शक्ष्यति।।
ऋतमेव हि पूर्वास्ते वदन्ति पुरुषोत्तमाः।
तस्मादार्तायनिः प्रोक्तो भवानिति मतिर्मम।।
शल्यबूतस्तु शत्रूणां यस्मात्त्वं युधि मानद।
तस्माच्छल्येति ते नाम कथ्यते पृथिवीतले।।
यदेतद्व्याहृतं पूर्वं भवता भूरिदक्षिण।
तदेव कुरु धर्मज्ञ मदर्थं यद्यदुच्यते।।
न च त्वत्तो हि राधेयो न चाहमपि वीर्यवान्।
वृणेऽहं त्वां हयाग्र्याणां यन्तारमिह संयुगे।।
मन्ये चाभ्यधिकं शल्य गुणैः कर्णं धनञ्जयात्।
भवन्तं वासुदेवाच्च लोकोऽयमतिमन्यते।।
कर्णो ह्यभ्यधिकः पार्थादस्त्रैरेव नरर्षभ।
भवानभ्यधिकः कृष्णादश्वज्ञाने बले तथा।।
यथाऽश्वहृदयं वेद वासुदेवो महामनाः।
द्विगुणं त्वं तथा वेत्सि मद्रराजेश्वरात्मज।।
शल्य उवाच।
यन्मां ब्रवीषि गान्धारे मध्ये सैन्यस्य कौरव।
विशिष्टं देवकीपुत्रात्प्रीतिमानस्म्यहं त्वयि।।
एष सारथ्यमातिष्ठे राधेयस्य यशस्विनः।
युध्यतः पाण्डवाग्र्येण यथा त्वं वीर मन्यसे।।
समयश्च हि मे वीर कश्चिद्वैकर्तनं प्रति।
उत्सृजेयं यथाश्रद्वमहं वाचोऽस्य सन्निधौ।।
सञ्जय उवाच।
तथेति राजन्पुत्रस्ते सह कर्णेन भारत।
अब्रवीन्मद्रराजस्य मतं भरतसxxxx।।
।। इति श्रीमन्महाभारते
कर्णपर्वणि त्रयोविंशोऽध्यायः।। 23 ।।