कर्णपर्व
अध्यायः २२
धृतराष्ट्र उवाच।
स्वेन च्छन्देन नः सर्वानवधीद्व्यक्तमर्जुनः।
न ह्यस्य समरे मुच्येदन्तकोऽप्याततायिनः।।
पार्थो ह्येकोऽहरद्भद्रामेकश्चाग्निमतर्पयत्।
एकश्चेमां महीं जित्वा चक्रे बलिभृतो नृपान्।।
एको निवातकवचनानहनद्दिव्यकार्मुकः।
एकः किरातरूपेण स्थितं शर्वमयोधयत्।।
एको ह्यरक्षद्भरतानेको भवमतोषयत्।
तेनैकेन जिताः सर्वे मदीया ह्युग्रतेजसः।।
न ते निन्द्याः प्रशस्यास्ते यत्ते चक्रुर्ब्रवीहि तत्।
ततो दुर्योधनः सूत पश्चात्किमकरोत्तदा।।
सञ्जय उवाच।
हतप्रहतविध्वस्ता विवर्मायुधवाहनाः।
दीनस्वरा दूयमाना मानिनः शत्रुनिर्जिताः।।
शिबिरस्थाः पुनर्मन्त्रं मन्त्रयन्ति स्म कौरवाः।
भग्नदंष्ट्रा हतविषाः पादाक्रान्ता इवोरगाः।।
तानब्रवीत्ततः कर्णः क्रुद्वः सर्प इव श्वसन्।
करं करेण निष्पीड्य प्रेक्षमाणस्तवात्मजम्।।
यत्तो दृढश्च दक्षश्च धृतिमानर्जुनः सदा।
सम्बोधयति चाप्येनं यथाकालमधोक्षजः।।
सहसाऽस्त्रविसर्गेण वयं तेनाद्य वञ्चिताः।
श्वस्त्वहं तस्य सङ्कल्पं सर्वं हन्ता महीपते।।
एवमुक्तस्तथेत्युक्त्वा सोऽनुजज्ञे नृपोत्तमान्।
तेऽनुज्ञाता नृपाः सर्वे स्वानि वेश्मानि भेजिरे।।
सुखोषितास्तां रजनीं हृष्टा युद्वाय निर्ययुः।
तेऽपश्यन्विहितं व्यूहं धर्मराजेन दुर्जयम्।
प्रयत्नात्कुरुमुख्येन बृहस्पत्युशनोमतात्।।
अथ प्रतीपकर्तारं प्रवीरं परवीरहा।
सस्मार वृषभस्कन्धं कर्णं दुर्योधनस्तदा।।
पुरन्दरसमं युद्वे मरुद्गणसमं बले।
कार्तवीर्यसमं वीर्ये कर्णं राज्ञोऽगमन्मनः।।
सर्वेषां चैव सैन्यानां कर्णमेवागमन्मनः।
सूतपुत्रं महेष्वासं बन्धुमात्ययिकेष्विव।।
धृतराष्ट्र उवाच।
ततो दुर्योधनः सूत पश्चात्किमकरोत्तदा।
यद्वोऽगमन्मनो मन्दाः कर्णं वैकर्तनं प्रति।।
अप्यपश्यत राधेयं शीतार्ता इव भास्करम्।
कृतेऽवहारे सैन्यानां प्रवृत्ते च रणे पुनः।।
`दुर्योधनं च तत्राजौ पाण्डवेन भृशार्दितम्।
पराक्रान्तान्पाण्डुसुतान्दृष्ट्वाऽपि भृशार्दितम्'।।
कथं वैकर्तनः कर्णस्तत्रायुध्यत सञ्जय।
कथं च पाण्डवाः सर्वे युयुधुस्तत्र सूतजम्।।
कर्णो ह्येको महाबाहुर्हन्यात्पार्थान्ससृञ्जयान्।
कर्णस्य भुजयोर्वीर्यं शक्रविष्णुसमं युधि।।
तस्य शस्त्राणि घोराणि विक्रमश्च महात्मनः।
कर्णमाश्रित्य सङ्ग्रामे मत्तो दुर्योधनो नृपः।।
दुर्योधनं ततो दृष्ट्वा पाण्डवेन भृशार्दितम्।
पराक्रान्तान्पाण्डुसुतान्दृष्ट्वा चापि महारथः।।
कर्णमाश्रित्य सङ्ग्रामे मन्दो दुर्योधनः पुनः।
जेतुमुत्सहते पार्थान्सपुत्रान्सहकेशवान्।।
`यः सौबलं तथा तात नीतिमानिति मन्यते।
कर्णं चाग्रतिमं युद्वे देवैरपि दुरुत्सहम्।।
मन्यतेऽभ्यधिकं पार्थादेवं चास्य हृदि स्थितम्।
विजेष्यति रणे कर्ण एकः पर्थान्ससोमकान्।
मम चैव सदा मन्दः शंसते नित्यमग्रतः'।।
अहो बत महद्दुःखं यत्र पाण्डुसुतान्रणे।
नातरद्रभसः कर्णो दैवं नूनं परायणम्।।
अहो द्यूतस्य निष्ठेयं घोरा सम्प्रति वर्तते।।
अहो तीव्राणि दुःखानि दुर्योधनकृतान्यहम्।
सोढा घोराणि बहुशः शल्यभूतानि सञ्जय।।
सौबलं च तदा तात नीतिमानिति मन्यते।
कर्णश्च रभसो नित्यं राजा त चाप्यनुव्रतः।।
यदेवं वर्तमानेषु महायुद्वेषु सञ्जय।
अश्रौषं निहतान्पुत्रान्नित्यमेव विनिर्जितान्।।
न पाण्डवानां समरे कश्चिदस्ति हतः किल।
स्त्रीमध्यमिव गाहन्ते दैवं तु बलवत्तरम्।।
सञ्जय उवाच।
[राजन्पूर्वनिमित्तानि धर्मिष्ठानि विचिन्तय]।
अतिक्रान्तं हि यत्कार्यं पश्चाच्चिन्तयते नरः।
तच्चास्य न भवेत्कार्यं चिन्तया च विनश्यति।।
तदिदं तव कार्यं तु दूरप्राप्तं विजानता।
न कृतं यत्त्वया पूर्वं प्राप्ताप्राप्तविचारणम्।।
उक्तोऽसि बहुधा राज्ञन्मा युध्यस्वेति पाण्डवैः।
न च तत्त्वग्रहीर्द्वेषात्पाण्डवेषु विशाम्पते।।
त्वया पापानि घोराणि समाचीर्णानि पाण्डुषु।
त्वत्कृते वर्तते घोरः पार्थिवानां जनक्षयः।।
तत्त्विदानीमतिक्रान्तं मा शुचो भरतर्षभ।
शृणु सर्वं यथावृत्तं घोरं वैशसमुच्यते।।
प्रभातायां रजन्यां तु कर्णो राजानमभ्ययात्।
समेत्य च महाबाहुर्दुर्योधनमथाब्रवीत्।।
कर्ण उवाच।
अद्य राजन्समेष्यामि पाण्डवेन यशस्विना।
निहनिष्यामि तं वीरं स वा मां निहनिष्यति।।
बहुत्वान्मम कार्याणां तथा पार्थस्य भारत।
नाभूत्समागमो राजन्मम चैवार्जुनस्य च।।
इदं तु मे यथाप्रज्ञं शृणु वाक्यं विशाम्पते।
अनिहत्य रणे पार्थं नाहमेष्यामि भारत।।
हतप्रवीरे सैन्येऽस्मिन्मयि चावस्थिते युधि।
अभियास्यति मां पार्थः शक्रशक्तिविनाकृतम्।।
ततः श्रेयस्करं यच्च तन्निबोध जनेश्वर।
आयुधानां च मे वीर्यं दिव्यानामर्जुनस्य च।।
कार्यस्य महतो भेदे लाघवे दूरपातने।
सौष्ठवे चास्त्रपाते च सव्यसाची न मत्समः।।
प्राणे शौर्येऽथ विज्ञाने विक्रमे चापि भारत।
निमित्तज्ञानयोगे च सव्यसाची न मत्समः।।
सर्वायुधमहामात्रं विजयं नाम तद्वनुः।
इन्द्रार्थं प्रियकामेन निर्मितं विश्वकर्मणा।।
येन दैत्यगणान्राजञ्जितवान्वै शतक्रतुः।
यस्य घोषेण दैत्यानां व्यामुह्यन्त दिशो दश।।
तद्भार्गवाय प्रायच्छच्छक्रः परमसम्मतम्।
तद्दिव्यं भार्गवो मह्यमददद्वनुरत्तमम्।।
तेन योत्स्ये महाबाहुमर्जुनं जयतां वरम्।
यथेन्द्रः समरे सर्वान्दैतेयान्वै समागतान्।
`निजघान तथा सर्वाञ्जेष्यामि युधि पाण्डवान्'।।
धनुर्घोरं रामदत्तं गाण्डीवात्तद्विशिष्यते।
त्रिस्सप्तकृत्वः पृथिवी धनुषा येन निर्जिता।।
धनुषो ह्यस्य कर्माणि दिव्यानि प्राह भार्गवः।
तद्रामो ह्यददन्मह्यं तेन योत्स्यामि पाण्डवम्।।
अद्य दुर्योधनाहं त्वां नन्दयिष्ये सबान्धवम्।
निहत्य समरे वीरमर्जुनं जयतां वरम्।।
सपर्वतवनद्वीपा हतवीरा ससागरा।
पुत्रपौत्रप्रतिष्ठा ते भविष्यत्यद्य पार्थिव।।
नाशक्यं विद्यते मेऽद्य त्वत्प्रियार्थं विशेषतः।
सम्यग्धर्मानुरक्तस्य सिद्विरात्मवतो यथा।।
न हि मे विक्रमं सोढुं स शक्तोऽग्निं तरुर्यथा।
अवश्यं तु मया वाच्यं येन हीनोऽस्मि फल्गुनात्।।
ज्या तस्य धनुषो दिव्या तथाऽक्षय्ये महेषुधी।
सारथिस्तस्य गोविन्दो मम तादृङ्ग विद्यते।।
तस्य दिव्यं धनुः श्रेष्ठं गाण्डीवमजितं युधि।
विजयं च महद्दिव्यं ममापि धनुरुत्तमम्।।
तत्राहमधिकः पार्थाद्वनुषा तेन पार्थिव।
येन चाप्यधिको वीरः पाण्डवस्तन्निबोध मे।।
रश्मिग्राहश्च दाशार्हः सर्वलोकनमस्कृतः।
अग्निदत्तश्च वै दिव्यो रथः काञ्चनभूषणः।।
अच्छेद्याः सर्वतो वीर वाजिनश्च मनोजवाः।
ध्वजश्च दिव्यो द्युतिमान्वानरोपि भयङ्करः।।
कृष्णश्च जगतः स्रष्टा रथं तमभिरक्षति।
एभिस्त्रिभिरहं हीनो युद्वुमिच्छामि पाण्डवम्।।
अयं तु सदृशः शौरेः शल्यः समितिशोभनः।
सारथ्यं यदि मे कुर्याद्द्रुवस्ते विजयो भवेत्।।
तस्य मे सारथिः शल्यो भवत्वसुकरः परैः।
नाराचान्गार्ध्रपत्रांश्च शकटानि वहन्तु मे।।
रथाश्च मुख्या राजेन्द्र युक्ता वाजिभिरुत्तमैः।
आयान्तु पश्चात्सततं मामेव भरतर्षभ।।
एवमभ्यधिकः पार्थाद्भविष्यामि गुणैरहम्।
शल्योप्यभ्यधिकः कृष्णादर्जुनादपिचाप्यहम्।।
यथाऽश्वहृदयं वेद दाशार्हः परवीरहा।
तथा शल्यो विजानीते हयज्ञानं महारथः।।
बाहुवीर्ये समो नास्ति मद्रराजस्य कश्चन।
तथाऽस्त्रे मत्समो नास्ति कश्चिदेव धनुर्धरः।।
तथा शल्यसमो नास्ति हयज्ञाने हि कश्चन।
सोऽयमभ्यधिकः कृष्णाद्भविष्यति रथो मम।।
एवं कृते रथस्थोऽहं गुणैरभ्यधिकोऽर्जुनात्।
विजयेयमहं सङ्ख्ये फल्गुनं कुरुसत्तम।।
समुद्यातुं न शक्ष्यन्ति देवा अपि सवासवाः।
एतत्कृतं महाराज त्वयेच्छामि परन्तप।।
क्रियतामेष कामो मे मा वः कालोऽत्यगादयम्।
एवं कृते कृतं मह्यं त्वया सर्वं भविष्यति।।
ततो द्रक्ष्यसि सङ्ग्रामे यत्करिष्यामि भारत।
सर्वथा पाण्डवान्सङ्ख्ये विजेष्ये वै समागतान्।।
न हि मे समरे शक्ताः समुद्यातुं सुरासुराः।
किमु पाण्डुसुता राजन्रणे मानुषयोनयः।।
सञ्जय उवाच।
एवमुक्तस्तव सुतः कर्णेनाहवशोभिना।
सम्पूज्य सम्प्रहृष्टात्मा ततो राधेयमब्रवीत्।।
दुर्योधन उवाच।
एवमेतत्करिष्यामि यथा त्वं कर्ण मन्यसे।
सोपासङ्गा रथाः साश्वाः स्वनुयास्यन्ति संयुगे।।
नाराचान्गार्ध्रपत्रांश्च शकटानि वहन्तु ते।
अनुयास्याम कर्ण त्वां वयं सर्वे च पार्थिवाः।।
सञ्जय उवाच।
एवमुक्त्वा महाराज तव पुत्रः प्रतापवान्।
अभिगम्याब्रवीद्राजा मद्रराजमिदं वचः।।
।। इति श्रीमन्महाभारते
कर्णपर्वणि द्वाविंशोऽध्यायः।। 22 ।।