कर्णपर्व

अध्यायः २१

Karna Parva (Sanskrit) · Adhyaya 21
अक्षर का आकार

सञ्जय उवाच।

ततः कर्णं पुरस्कृत्य त्वदीया युद्वदुर्मदाः।
पुनरावृत्य सङ्ग्रामं चक्रुर्देवासुरोपमम्।।

द्विरदनररथाश्वशङ्खशब्दैः
परिहृषिता विविधैश्च शस्त्रपातैः।
द्विरदरथपदातिसादिसङ्घाः
परिकुपिताभिमुखाः प्रजघ्निरे ते।।

शितपरश्वथसासिपट्टसै--
रिषुभिरनेकविधैश्च सूदिताः।
द्विरदरथहया महाहवे
वरपुरुषैः पुरुषाश्च वाहनैः।।

कमलदिनकरेन्दुसन्निभैः
सितदशनैः सुमुखाक्षिनासिकैः।
रुचिरमकुटकुण्डलैर्मही
पुरुषशिरोभिरुपस्तृता बभौ।।

परिघमुसलशक्तितौमरै--
र्नखरभुशुण्डिगदाशतैर्हताः।
द्विरदनरहयाः सहस्रशो
रुधिरनदीप्रवहास्तदाऽभवन्।।

प्रहतरथनराश्वकुञ्जरं
प्रतिभयदर्शनमुल्बणव्रणम्।
तदहितहतमाबभौ बलं
पितृपतिराष्ट्रमिव प्रजाक्षये।।

अथ तव नरदेव सैनिका--
स्तव च सुताः सुरसूनुसन्निभाः।
अमितबलपुरः सरा रणे
कुरुवृषभाः शिनिपुत्रमभ्ययुः।।

तदतिरुधिरभीममाबभौ
पुरुषवराश्वरथद्विपाकुलम्।
लवणजलसमुद्वतस्वनं
बलमसुरामरसैन्यसप्रभम्।।

सुरपतिसमविक्रमस्तत--
स्त्रिदशवरावरजोपमं युधि।
दिनकरकिरणप्रभैः पृषत्कै
रवितनयोऽभ्यहनच्छिनिप्रवीरम्।।

तमपि सरथवाजिसारथिं
शिनिवृषभो विविधैः शरैस्त्वरन्।
भुजगविषसमप्रभै रणे
पुरुषवरं समवास्तृणोत्तदा।।

शिनिवृषभशरैर्निपीडितं
तव सुहृदो वसुषेणमभ्ययुः।
त्वरितमतिरथा रथर्षभं
द्विरदरथाश्वपदातिभिः सह।।

तदुदधिनिभमाद्रवद्बलं
त्वरिततरैः समभिद्रुतं परैः।
द्रुपदसुतमुखैस्तदाऽभवत्
पुरुषरथाश्वगजक्षयो महान्।।

अथ पुरुषवरौ कृताह्निकौ
भवमभिपूज्य यथाविधि प्रभुम्।
अरिवधकृतनिश्चयौ द्रुतं
तव बलमर्जुनकेशवौ सृतौ।।

जलदनिनदनिःस्वनं रथं
पवनविधूतपताककेतनम्।
सितहयमुपयान्तमन्तिकं
कृतमनसो ददृशुस्तदाऽरयः।।

अथ विष्फार्य गाण्डीवं रथे नृत्यन्निवार्जुनः।
शरसम्बाधमकरोत्खं दिशः प्रदिशस्तथा।।

रथान्विमानप्रतिमान्मज्जयन्सायुधध्वजान्।
ससारथींस्तदा बाणैरभ्राणीवानिलोऽवधीत्।।

गजान्गजप्रयन्तॄंश्च वैजयन्त्यायुधध्वजान्।
सादिनोऽश्वांश्च पत्तींश्च शरैर्निन्ये यमक्षयम्।।

तमन्तकमिव क्रुद्धमनिवार्यं महारथम्।
दुर्योधनोऽभ्ययादेको निघ्नन्बाणैरजिह्मगैः।।

तस्यार्जुनो धनुः सूतमश्वान्केतुं च सायकैः।
हत्वा सप्तभिरेकेन च्छत्रं चिच्छेद पत्रिणा।।

नवमं च समाधाय व्यसृजत्प्राणघातिनम्।
दुर्योधनायेषुवरं तं द्रौणिः सप्तधाऽच्छिनत्।।

ततो द्रौणेर्धनुश्छित्वा हत्वा चाश्वरथाञ्शरैः।
कृपस्यापि तदत्युग्रं धनुश्चिच्छेद पाण्डवः।।

हार्दिक्यस्य धनुश्छित्त्वा ध्वजं चाश्वांस्तदाऽवधीत्।
दुःशासनस्येष्वसनं छित्त्वा राधेयमभ्ययात्।।

अथ सात्यकिमुत्सृज्य त्वरन्कर्णोऽर्जुनं त्रिभिः।
विद्व्वा विव्याध विंशत्या कृष्णं पार्थं पुनःपुनः।।

न ग्लानिरासीत्कर्णस्य क्षिपतः सायकान्बहून्।
रणे विनिघ्नतः शत्रून्क्रुद्धस्येव शतक्रतोः।।

अथ सात्यकिरागत्य कर्णं विद्द्वा शितैः शरैः।
नवत्या नवभिश्चोग्रैः शतेन पुनरार्पयत्।।

ततः प्रवीराः पार्थानां सर्वे कर्णमपीडयन्।
युधामन्युः शिखण्डी च द्रौपदेयाः प्रभद्रकाः।।

उत्तमौजा युयुत्सुश्च यमौ पार्षत एव च।
चेदिकारूशमात्स्यानां केकयानां च यद्बलं।।

चेकितानश्च बलवान्धर्मराजश्च सुव्रतः।
एते रथाश्वद्विरदैः पत्तिभिश्चोग्रविक्रमैः।।

परिवार्य रणे कर्णं नानाशस्त्रैरवाकिरन्।
भाषन्तो वाग्भिरुग्राभिः सर्वे कर्णवधे धृताः।।

तां शस्त्रवृष्टिं बहुधा कर्णश्छित्त्वा शितैः शरैः।
अपोवाहास्त्रवीर्येण द्रुमं भङ्क्त्वेव मारुतः।।

रथिनः समहामात्रान्गजानश्वान्ससादिनः।
पत्तिव्रातांश्च सङ्क्रुद्वो निघ्नन्कर्णो व्यदृश्यत।।

तद्वध्यमानं पाण्डूनां बलं कर्णास्त्रतेजसा।
विशस्त्रपत्रदेहासु प्राय आसीत्पराङ्मुखम्।।

अथ कर्णास्त्रमस्त्रेण प्रतिहत्यार्जुनः स्मयन्।
दिशं खं चैव भूमिं च प्रावृणोच्छरवृष्टिभिः।।

मुसलानीव सम्पेतुः परिघा इव चेषवः।
शतघ्न्य इव चाप्यन्ये वज्राण्युग्राणि चापरे।।

तैर्वध्यमानं तत्सैन्यं सपत्त्यश्वरथद्विपम्।
निमीलिताक्षमत्यर्थं बभ्राम च ननाद च।।

निष्कैवल्यं तदा युद्वं प्रापुरश्वनरद्विपाः।
हन्यमानाः शरैरार्तास्तदा भीताः प्रदुद्रुवुः।।

त्वदीयानां तदा युद्वे संसक्तानां जयैषिणाम्।
गिरिमस्तं समासाद्य प्रत्यपद्यत भानुमान्।।

तमसा च महाराज रजसा च विशेषतः।
न किञ्चित्प्रत्यपश्याम शुभं वा यदि वाऽशुभम्।।

ते त्रस्यन्तो महेष्वासा रात्रियुद्वस्य भारत।
अपयानं ततश्चक्रुः सहिताः सर्वयोधिभिः।।

कौरवेष्वपयातेषु तदा राजन्दिनक्षये।
जयं सुमनसः प्राप्य पार्थाः स्वशिबिरं ययुः।।

वादित्रशब्दैर्विविधैः सिंहनादैः सगर्जितैः।
परानुवहन्तश्च स्तुवन्तश्चाच्युतार्जुनौ।।

कृतेऽवहारे तैर्वीरैः सैनिकाः सर्व एव ते।
आशीर्वाचः पाण्डवेषु प्रायुञ्जन्त नरेश्वराः।।

ततः कृतेऽवहारे च प्रहृष्टास्तत्र पाण्डवाः।
निशायां शिबिरं गत्वा न्यवसन्त नरेश्वराः।।

ततो रक्षः पिशाचाश्च श्वापदाश्चैव सङ्घशः।
जग्मुरायोधनं घोरं रुद्रस्याक्रीडसन्निभम्।।

।। इति श्रीमन्महाभारते कर्णपर्वणि
षोडशदिवसयुद्धे एकविंशोऽध्यायः।। 21 ।।