कर्णपर्व
अध्यायः १८
सञ्जय उवाच।
श्वेताश्वोऽपि महाराज व्यधमत्तावकं बलम्।
यथा वायुः समासाद्य तूलराशिं समन्ततः।।
प्रत्युद्ययुस्त्रिगर्तास्तं शिबयः कौरवैः सह।
वसातयोऽथ साल्वाश्च गोपालाश्च यशस्विनः।।
सत्यदेवः सत्यकीर्तिर्मित्रदेवः श्रुतञ्जयः।
सौश्रुतिश्चन्द्रदेवश्च मित्रवर्मा च भारत।।
त्रिगर्तराजः समरे भ्रातृभिः परिवारितः।
पुत्रैश्चैव महेष्वासैर्नानाशस्त्रविशारदैः।।
व्यसृजन्त शस्त्रातान्किरन्तोऽर्जुनमाहवे।
अभ्यवर्तन्त सहसा वार्योघा इव सागरम्।।
ते त्वर्जुनं समासाद्य योधाः शतसहस्रशः।
अगच्छन्विलयं सर्वे तार्क्ष्यं दृष्ट्वेव पन्नगाः।।
ते हन्यमानाः समरे न जहुः पाण्डवं रणे।
हन्यमाना महाराज शलभा इव पावकम्।।
सत्यदेवस्त्रिभिर्बाणैर्विव्याध युधि पाण्डवम्।
मित्रदेवस्त्रिषष्ट्या तु चन्द्रदेवस्तु सप्तभिः।।
मित्रवर्मा त्रिसप्तत्या सौश्रुतिश्चापि सप्तभिः।
श्रुतंजयस्तु विंशत्या सुशर्मा नवभिः शरैः।।
स विद्वो बहुभिः सङ्ख्ये प्रतिविव्याध तान्नृपान्।
सौश्रुतिं सप्तभिर्विद्व्वा चन्द्रदेवं त्रिभिः शरैः।।
श्रुतंजयं च विंशत्या चन्द्रदेवं तथाऽष्टभिः।
मित्रदेवं शतेनैव सत्यदेवं त्रिभिः शरैः।।
नवभिर्मित्रवर्माणं सुशर्माणं तथाऽष्टभिः।
श्रुतञ्जयं च राजानं हत्वा तत्र शिलाशितैः।।
सौश्रुतेः सशिरस्त्राणं शिरः कायादपाहरत्।
त्वरितश्चन्द्रदेवं च शरैर्निन्ये यमक्षयम्।।
तथेतरान्महाराज यतमानान्महारथान्।
पञ्चभिः पञ्चभिर्बाणैरेकैकं प्रत्यवारयत्।।
सत्यदेवस्तु सङ्क्रुद्वस्तोमरं व्यसृजन्महत्।
समुद्दिश्य रणे कृष्णं सिंहनादं ननाद च।।
स निर्भिद्य भुजं सव्यं माधवस्य महात्मनः।
अयस्मयः स्वर्णदण्डो जगाम धरणीं तदा।।
माधवस्य तु विद्धस्य तोमरेण महारणे।
प्रतोदः प्रापतद्वस्ताद्रश्मयश्च विशाम्पते।।
वासुदेवं विभिन्नाङ्गं दृष्ट्वा पार्थो धनञ्जयः।
क्रोधमाहारयत्तीव्रं कृष्णं चेदमुवाच ह।।
प्रापयाश्वान्महाबाहो सत्यदेवं प्रति प्रभो।
यावदेनं शरैस्तीक्ष्णैर्नयामि यमसादनम्।।
प्रतोदं गृह्य सोऽन्यत्तु रश्मीन्सङ्गृह्य च द्रुतम्।
वाहयामास तानश्वान्सत्यदेवरथं प्रति।।
विष्वक्सेनं सुनिर्विद्वं दृष्ट्वा पार्थो धनञ्जयः।
सत्यदेवं शरैस्तीक्ष्णैर्वारयित्वा महारथः।।
ततः सुनिशितैर्भल्लै राज्ञस्तस्य महच्छिरः।
कुम्डलोपचितं कायाच्चकर्त पृतनान्तरे।।
तन्निकृत्य शितैर्बाणैर्भित्रवर्माणमाक्षिपत्।
वत्सदन्तेन तीक्ष्णेन सारथिं चास्य मारिष।।
ततः शरशतैर्भूयः संशप्तकगणान्बली।
पातयामास सङ्क्रुद्वः शतशोऽथ सहस्रशः।।
ततो रजतपुङ्खेन राजञ्शीर्षं महात्मनः।
मित्रदेवस्य चिच्छेद क्षुरप्रेण महारथः।
सुशर्माणं सुसङ्क्रुद्धो जत्रुदेशे समाहनत्।।
ततः संशप्तकाः सर्वे परिवार्य धनञ्जयम्।
शस्त्रौघैर्ममृदुः क्रुद्वा नादयन्तो दिशो दश।।
अभ्यर्दितस्तु तज्जिष्णुः शक्रतुल्यपराक्रमः।
ऐन्द्रमस्त्रममेयात्मा प्रादुश्चक्रे महारथः।।
ततः शरसहस्राणि प्रादुरासन्विशाम्पते।
`कार्मुकात्पाण्डुपुत्रस्य पार्थस्यामिततेजसः'।।
ततस्तु च्छिद्यमानानां ध्वजानां धनुषां तथा।
रथानां सपताकानां तूणीराणां युगैः सह।।
अक्षाणामथ चक्राणां योक्त्राणां रश्मिभिः सह।
कूबराणां वरूथानां पृषत्कानां च संयुगे।।
अश्वानां पततां चापि प्रासानामृष्टिभिः सह।
गदानां परिघानां च शक्तितोमरपट्टसैः।।
शतघ्नीनां सचक्राणां भुजानां चोरुभिः सह।
कण्ठसूत्राङ्गदानां च केयूराणां च मारिष।।
हाराणामथ निष्काणां तनुत्राणां च भारत।
छत्राणां व्यजनानां च शिरसां कुमुटैः सह।
राशयश्चात्र दृश्यन्ते पतितानां महीतले।।
सकुण्डलानि स्वक्षीमि पूर्णचन्द्रनिभानि च।
शिरांस्युर्व्यामदृश्यन्त ताराजालमिवाम्बरे।।
सुस्रग्वीणि सुवासांसि चन्दनेनोक्षितानि च।
शरीराणि व्यदृश्यन्त निहतानां महीतले।।
रुद्रस्याक्रीडसदृशं घोरमायोधनं तदा।।
निहतै राजपुत्रैश्च क्षत्रियैश्च महाबलैः।
`अर्जुनेन महाराज तत्रतत्र महारणे'।।
हस्तिभिः पतितैश्चैव तुरङ्गैश्चाभवन्मही।
अगम्यरूपा समरे विशीर्णैरिव पर्वतैः।।
नासीद्रथपथस्तस्य पाण्डवस्य महात्मनः।
निघ्नतः शात्रवान्भल्लैर्हस्त्यश्वं चास्यतो महत्।।
स्वानुगा इव सीदन्ति रथचक्राणि मारिष।
चरतस्तस्य सङ्ग्रामे तस्मिंल्लोहितकर्दमे।।
सीदमानानि चक्राणि समुहूस्तुरगा भृशम्।
श्रमेण महता युक्ता मनोमारुतरंहसः।।
वध्यमानं तु तत्सैन्यं पाण्डुपुत्रेण धन्विना।
प्रायशो विमुखं सर्वं नावतिष्ठत भारत।।
ताञ्जित्वा समरे जिष्णुः संशप्तकगणान्बहून्।
विरराज तदा पार्थो विधूमोऽग्निरिव ज्वलन्।।
।। इति श्रीमन्महाभारते कर्णपर्वणि
षोडशदिवसयुद्धे अष्टादशोऽध्यायः।। 18 ।।