कर्णपर्व
अध्यायः १७
सञ्जय उवाच।
धृष्टद्युम्नं कृपो राजन्वारयामास संयुगे।
यथा दृष्ट्वा वने सिंहं शरभो वारयेद्युधि।।
निरुद्वः पार्षतस्तेन गौतमेन बलीयसा।
पदात्पदं विचलितुं नाशकत्तत्र भारत।।
गौतमस्य रथं दृष्ट्वा धृष्टद्युम्नरथं प्रति।
वित्रेसुः सर्वभूतानि क्षयं प्राप्तं च मेनिरे।।
तदा जल्पन्ति पाण्डूनां रथिनः सादिनस्तथा।
द्रोणस्य निधनान्नूनं सङ्क्रुद्वो द्विपदां वरः।।
शारद्वतो महातेजा दिव्यास्त्रविदुदारधीः।
अपि स्वस्ति भवेदद्य धृष्टद्युम्नस्य गौतमात्।।
अपीयं वाहिनी कृत्स्ना मुच्येत महतो भयात्।
अप्ययं ब्राह्मणः सर्वान्न नो हन्यात्समागतान्।।
यादृशं दृश्यते रूपमन्तकप्रतिमं रणे।
गमिष्यत्यद्य पदवीं भारद्वाजस्य गौतमः।।
आचार्यः क्षिप्रहस्तश्च विजयी च सदा युधि।
अस्त्रवान्वीर्यसम्पन्नः क्रोधेन च समन्वितः।।
पार्षतश्च महायुद्वे विमुखोऽद्याभिलक्ष्यते।
इत्येवं विविधा वाचस्तावकानां परैः सह।
व्यश्रूयन्त महाराज तयोस्तत्र समागमे।।
विनिःश्वस्य ततः क्रोधात्कृपः शारद्वतो नृप।
पार्षतं चार्दयामास निश्चेष्टं सर्वमर्मसु।।
स हन्यमानः समरे गौतमेन महात्मना।
कर्तव्यं न स्म जानाति मोहेन महता वृतः।।
तमब्रवीत्ततो यन्ता कञ्चित्क्षेमं तु पार्षत।
ईदृशं व्यसनं युद्धे न ते दृष्टं मया क्वचित्।।
दैवयोगात्तु ते बाणा नापतन्मर्मभेदिनः।
प्रेषिता द्विजमुख्येन मर्माण्युद्दिश्य सर्वतः।।
व्यावर्तये रथं तूर्णं नदीवेगमिवार्णवात्।
अवध्यं ब्राह्मणं मन्ये येन ते विक्रमो हतः।।
धृष्टद्युम्नस्ततो राजञ्शनकैरब्रवीद्वचः।
मुह्यते मे मनस्तात गात्रस्वेदश्च जायते।।
वेपथुश्च शरीरे मे रोमहर्षश्च सारथे।
वर्जयन्ब्राह्मणं युद्धे शनैर्याहि यतोऽर्जुनः।।
अर्जुनं भीमसेनं वा समरे प्राप्य सारथे।
क्षेममद्य भवेन्मह्यमिति मे नैष्ठिकी मतिः।।
ततः प्रायान्महाराज सारथिस्त्वरयन्हयान्।
यतो भीमो महेष्वासो युयुधे तव सैनिकैः।।
प्रद्रुतं च रथं दृष्ट्वा धृष्टद्युम्नस्य मारिष।
किरञ्शरशतान्येव गौतमोऽनुययौ तदा।।
शङ्खं च पूरयामास मुहुर्मुहुररिन्दमः।
पार्षतं त्रासयामास महेन्द्रो नमुचिं यथा।।
शिखण्डिनं तु समरे भीष्ममृत्युं दुरासदम्।
हार्दिक्यो वारयामास स्मयन्निव मुहुर्मुहुः।।
शिखण्डी तु समासाद्य हृदिकानां महारथम्।
पञ्चभिर्निशितैर्भल्लैर्जत्रुदेशे समाहनत्।।
कृतवर्मा तु सङ्क्रद्धो भित्त्वा षष्ट्या पतत्रिभिः।
धनुरेकेन चिच्छेद हसन्राजन्महारथः।।
अथान्यद्वनुरादाय द्रुपदस्यात्मजो बली।
तिष्ठतिष्ठेति सङ्क्रुद्धो हार्दिक्यं प्रत्यभाषत।।
ततोऽस्य नवतिं बाणान्रुक्मपुङ्खान्सुतेजनान्।
प्रेषयामास राजेन्द्र तेऽस्याभ्रश्यन्त वर्मणः।।
वितथांस्तान्समालक्ष्य पतितांश्च महीतले।
क्षुरप्रेण सुतीक्ष्णेन कार्मुकं चिच्छिदे भृशम्।।
अथैनं छिन्नधन्वानं भग्नशृङ्गमिवर्षभम्।
अशीत्या मार्गणैः क्रुद्धो बाह्वोरुरसि चार्पयत्।।
कृतवर्मा तु सङ्क्रुद्धो मार्गणैः क्षतविक्षतः।
ववाम रुधिरं गात्रैः कुम्भवक्रादिवोदकम्।।
रुधिरेण परिक्लिन्नः कृतवर्मा त्वराजत।
वर्षेण क्लेदितो राजन्यथा गैरिकपर्वतः।।
अथान्यद्वनुरादाय समार्गणगुणं प्रभुः।
शिखण्डिनं बाणगणैः स्कन्धदेशे व्यताडयत्।।
स्कन्धदेशस्थितैर्बाणैः शिखण्डी तु व्यराजत।
शाखाप्रशाखाविपुलः सुमहान्पादपो यथा।।
तावन्योन्यं भृशं विद्व्वा रुधिरेण समुक्षितौ।
`पोप्लुयमानौ हि यथा महान्तौ शोणितहदे।
तद्वद्विरेजतुर्वीरौ शोणितेन परिप्लुतौ।।
यथा च किंशुकौ फुल्लौ पुष्पमासे समागते।
रुधिरोक्षितसर्वाङ्गौ रक्तचन्दनरूषितौ।
भुजगाविव सङ्क्रुद्धौ रेजतुस्तौ नरोत्तमौ।।
तावुभौ शरवनुन्नाङ्गौ परस्परशरक्षतौ'।
अन्योन्यशृङ्गाभिहतौ रेजतुर्वृषभाविव।।
अन्योन्यस्य वधे यत्नं कुर्वाणौ तौ महारथौ।
रथाभ्यां चेरतुस्तत्र मण्डलानि सहस्रशः।।
कृतवर्मा महाराज पार्षतं निशितैः शरैः।
रणे विव्याध सप्तत्या स्वर्णपुङ्गैः शिलाशितैः।।
ततोऽस्य समरे बाणं भोजः प्रहरतां वरः।
जीवितान्तकरं घोरं व्यसृजत्त्वरयाऽन्वितः।।
स तेनाभिहतो राजन्मूर्च्छामाशु समाविशत्।
ध्वजयष्टिं च सहसा शिश्रिये कश्मलावृतः।।
अपोवाह रणात्तूर्णं सारथी रथिनां वरम्।
हार्दिक्यशरसन्तप्तं निःश्वसन्तं पुनःपुनः।।
पराजिते ततः शूरे द्रुपदस्यात्मजे प्रभो।
व्यद्रवत्पाण्डवी सेना व्यधमाना समन्ततः।।
।। इति श्रीमन्महाभारते कर्णपर्वणि
षोडशदिवसयुद्धे सप्तदशोऽध्यायः।। 17 ।।