कर्णपर्व
अध्यायः १९
सञ्जय उवाच।
युधिष्ठिरं महाराज विसृजन्तं शरान्बहून्।
स्वयं दुर्योधनो राजा प्रत्यगृह्णादभीतवत्।।
तमापतन्तं सहसा तव पुत्रं महारथम्।
धर्मराजो द्रुतं विद्ध्वा तिष्ठतिष्ठेति चाब्रवीत्।।
स तु तं प्रतिविव्याध नवभिर्निशितैः शरैः।
सारथिं चास्य भल्लेन भृशं क्रुद्धोऽभ्यताडयत्।।
ततो युधिष्ठिरो राजन्स्वर्णपुङ्खाञ्शिलीमुखान्।
दुर्योधनाय चिक्षेप त्रयोदश शिलाशितान्।।
चतुर्भिश्चतुरो वाहांस्तस्य हत्वा महारथः।
पञ्चमेन शिरः कायात्सारथेश्च समाक्षिपत्।।
षष्ठेन तु ध्वजं राज्ञः सप्तमेन तु कार्मुकम्।
अष्टमेन तथा खङ्गं पातयामास भूतले।
पञ्चभिर्नृपतिं चापि धर्मराजोऽर्दयद्भृशम्।।
हताश्वात्तु रथात्तस्मादवप्लुत्य सुतस्तव।
उत्तमं व्यसनं प्राप्तो भूमावेवावतिष्ठत।।
तं तु कृच्छ्रगतं दृष्ट्वा कर्णद्रौणिकृपादयः।
अभ्यवर्तन्त सहसा परीप्सन्तो नराधिपम्।।
अथ पाण्डुसुताः सर्वे परिवार्य युधिष्ठिरम्।
अन्वयुः समरे राजंस्ततो युद्धमवर्तत।।
ततस्तूर्यसहस्राणि प्रावाद्यन्त महामृधे।।
क्ष्वेलाः किलकिलाशब्दाः प्रादुरासन्महीपते।
यत्राभ्यगच्छन्समरे पाञ्चालाः कौरवैः सह।।
नरा नरैः समाजग्मुर्वारणा वरवारणैः।
रथाश्च रथिभिः सार्धं हयाश्च हयसादिभिः।।
द्वन्द्वान्यासन्महाराज प्रेक्षणीयानि संयुगे।
विविधान्यप्यचिन्त्यानि शस्त्रवन्त्युत्तमानि च।।
ते शूराः समरे सर्वे चित्रं लघु च सुष्ठु च।
अयुध्यन्त महावेगाः परस्परवधैषिणः।।
अन्योन्यं समरे जघ्नुर्योधव्रतमनुष्ठिताः।
न हि ते समरं चक्रुः पृष्ठतो वै कथञ्चन।।
मुहूर्तमेव तद्युद्वमासीन्मधुरदर्शनम्।
तत उन्मत्तवद्राजन्निर्मर्यादमवर्तत।।
रथी नागं समासाद्य दारयन्निशितैः शरैः।
प्रेषयामास कालाय शरैः सन्नतपर्वभिः।।
नागा हयान्समासाद्य विक्षिपन्तो बहून्रणे।
दारयामासुरत्युग्रं तत्रतत्र तदातदा।।
हयारोहाश्च बहवः परिवार्य हयोत्तमान्।
तलशब्दरवांश्चक्रुः सम्पतन्तस्ततस्ततः।।
धावमानांस्ततस्तांस्तु द्रवमाणान्महागजान्।
पार्श्वतः पृष्ठतश्चैव निजघ्नुर्हयसादिनः।।
विद्राव्य च बहूनश्वान्नागा राजन्मदोत्कटाः।
विषाणैश्चापरे जघ्नुर्ममृदुश्चापरे भृशम्।।
साश्वारोहांश्च तुरगान्विषामैर्विव्यधू रुषा।
अपरे चिक्षिपुर्वेगात्प्रगृह्यातिबलास्तदा।।
पादातैराहता नागा विवरेषु समन्ततः।
चक्रुरार्तस्वरं घोरं दुद्रुवुश्च दिशो दश।।
पदातीनां तु सहसा प्रद्रुतानां महाहवे।
उत्सृज्याभरणं तूर्णमववव्रू रणाजिरे।।
निमित्तं मन्यमानास्तु परिणाम्य महागजाः।
जगृहुर्बिभिदुश्चैव चित्राण्याभरणानि च।।
तांस्तु तत्र प्रसक्तान्वै परिन्वार्य पदातयः।
हस्त्यारोहान्निजघ्नुस्ते महावेगा बलोत्कटाः।।
अपरे हस्तिभिर्हस्तैः खं विक्षिप्ता महाहवे।
निपतन्तो विषाणाग्रैर्भृशं विद्वाः सुशिक्षितैः।।
अपरे सहसा गृह्य विषाणैरेव सूदिताः।
सेनान्तरं समासाद्य केचित्तत्र महागजैः।।
क्षुण्णगात्रा महाराज विक्षिप्य च पुनःपुनः।
अपरे व्यजनानीव विभ्राम्य निहता मृधे।।
पुरःसराश्च नागानामपरेषां विशाम्पते।
शरीराण्यतिविद्वानि तत्रतत्र रणाजिरे।।
प्रतिमानेषु कुम्भेषु दन्तवेष्टेषु चापरे।
निगृहीता भृशं नागाः प्रासतोमरशक्तिभिः।।
निगृह्य च गजाः केचित् पार्श्वस्थैर्भृशदारुणैः।
रथाश्वसादिभिस्तत्र सम्भिन्ना न्यपतन्भुवि।।
सहयाः सादिनस्तत्र तोमरेण महामृधे।
भूमावमृद्रन्वेगेन सचर्माणं पदातिनम्।।
चछा सावरणान्कांश्चित्तत्रतत्र विशाम्पते।
रथान्नागाः समासाद्य परिगृह्य च मारिष।
व्याक्षिपन्सहसा तत्र घोररूपे भयानके।।
नाराचैर्निहताश्चापि गजाः पेतुर्महाबलाः।
पर्वतस्येव शिखरं वज्ररुग्णं महीतले।।
योधा योधान्समासाद्य मुष्टिभिर्व्यहनन्युधि।
केशेष्वन्योन्यमाक्षिप्य चिक्षिपुर्बिभिदुश्च ह।।
उद्यम्य च भुजानन्ये निक्षिप्य च महीतले।
पदा चोरः समाक्रम्य स्फुरतोऽपाहरच्छिरः।।
पततश्चापरो राजन्विजहारासिना शिरः।
`मृतमन्यो महाराज पदा ताडितवांस्तदा'।।
जीवतश्च तथैवान्यः शस्त्रं काये न्यमज्जयत्।
मुष्टियुद्धं महच्चासीद्योधानां तत्र भारत।
तथा केशग्रहश्चोग्रो बाहुयुद्धं च भैरवम्।।
समासक्तस्य चान्येन अविज्ञातस्तथाऽपरः।
जहार समरे प्राणान्नानाशस्तैरनेकधा।।
संसक्तेषु च योधेषु वर्तमाने च सङ्कुले।
कबन्धान्युत्थितानि स्युः शतशोऽथ सहस्रशः।।
शोणितैः सिच्यमानानि शस्त्राणि कवचानि च।
महारागानुरक्तानि वस्त्राणीव चकाशिरे।।
एवमेतन्महद्युद्वं दारुणं शस्त्रसङ्कुलम्।
उन्मत्तगङ्गाप्रतिमं शब्देनापूरयज्जगत्।।
नैव स्वे न परे राजन्विज्ञायन्ते शरातुराः।
योद्वव्यमिति युध्यन्ते राजानो जयगृद्विनः।।
स्वान्स्वे जघ्नुर्महराज परांश्चैव समागतान्।
उभयोः सेनयोर्वीरैर्व्याकुलं समपद्यत।।
रथैर्भग्नैर्महाराज वारणैश्च निपातितैः।
हयैश्च पतितैस्तत्र नरैश्च विनिपातितैः।।
अगम्यरूपा पृथिवी क्षणेन समपद्यत।
क्षणेनासीन्महीपाल क्षतजौघप्रवर्तिनी।।
पाञ्चालानहतत्कर्णस्त्रिगर्तांश्च धनञ्जयः।
भीमसेनः कुरून्राजन्हस्त्यनीकं च सर्वशः।।
एवमेष क्षयो वृत्तः कुरुपाण्डवसेनयोः।
अपराह्णे गते सूर्ये काङ्क्षतां विपुलं यशः।।
।। इति श्रीमन्महाभारते कर्णपर्वणि
षोडशदिवसयुद्धे एकोनविंशोऽध्यायः।। 19 ।।