कर्णपर्व

अध्यायः ११

Karna Parva (Sanskrit) · Adhyaya 11
अक्षर का आकार

सञ्जय उवाच।

श्रुतकर्मा ततो राजंश्चित्रसेनं महीपतिम्।
आजघ्ने समरे क्रुद्धः पञ्चाशद्भिः शिलीमुखैः।।

चित्रसेनस्तु तं राजन्नवभिर्नतपर्वभिः।
श्रुतकर्माणमाहत्य सूतं विव्याध पञ्चभिः।।

श्रुतकर्मा ततः क्रुद्धश्चित्रसेनं चमूमुखे।
नाराचेन सुतीक्ष्णेन मर्मदेशे समार्पयत्।।

सोऽतिविद्धो महाराज नाराचेन महात्मना।
मूर्च्छामभिययौ वीरः कश्मलं चाविवेश ह।।

एतस्मिन्नन्तरे चैनं श्रुतकीर्तिर्महायशाः।
नवत्या जगतीपालं छादयामास पत्रिभिः।।

प्रतिलभ्य ततः संज्ञां चित्रसेनो महारथः।
धनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः।।

सोऽन्यत्कार्मुकमादाय वेगघ्नं रुक्मभूषितम्।
चित्ररूपधरं चक्रे चित्रसेनं शरोर्मिभिः।।

स शरैश्चित्रितो राजा चित्रमाल्यधरो युवा।
अशोभत महारङ्गे श्वाविच्छललो यथा।।

श्रुतकर्माणमथ वै नाराचेन स्तनान्तरे।
बिभेद तरसा शूरस्तिष्ठतिष्ठेति चाब्रवीत्।।

श्रुतकर्माणि समरे नाराचेन समर्पितः।
सुस्राव रुधिरं तत्र गैरिकाम्बु यथाऽचलः।।

ततः स रुधिराक्ताङ्गो रुधिरेण कृतच्छविः।
रराज समरे वीरः सपुष्प इव किंशुकः।।

श्रुतकर्मा ततो राजञ्शत्रुणा समभिद्रुतः।
शत्रुसंवारणं क्रुद्धो द्विधा चिच्छेद कार्मुकम्।।

अथैनं छिन्नधन्वानं नाराचानां शतैस्त्रिभिः।
छादयन्समरे राजन्विव्याध च सुपत्रिभिः।।

ततोऽपरेण भल्लेन तीक्ष्णेन निशितेन च।
जहार सशिरस्त्राणं शिरस्तस्य महात्मनः।।

तच्छिरो न्यपतद्भूमौ चित्रसेनस्य दीप्तिमत्।
यदृच्छया यथा चन्द्रश्च्युतः स्वर्गान्महीतलम्।।

राजानं निहतं दृष्ट्वा तेऽभिसारं तु मारिष।
अभ्यद्रवन्त वेगेन चित्रसेनस्य सैनिकाः।।

ततः क्रुद्धो महेष्वासस्तत्सैन्यं प्राद्रवच्छरैः।
अन्तकाले यथा क्रुद्धः सर्वभूतानि प्रेतराट्।।

ते वध्यमानाः समरे तव पौत्रेण धन्विना।
व्यद्रवन्त दिशस्तूर्णं दावदग्धा इव द्विपाः।।

तांस्तु विद्रवतो दृष्ट्वा निरुत्साहान्द्विषज्जये।
द्रावयन्निषुभिस्तीक्ष्णैः श्रुतकर्मा व्यरोचत।।

प्रतिविन्ध्यस्ततश्चित्रं भित्त्वा पञ्चभिराशुगैः।
सारथिं च त्रिभिर्विद्व्वा ध्वजमेकेषुणापि च।।

तं चित्रो नवभिर्भल्लैर्बाह्वोरुरसि चार्पयत्।
स्वर्णपुङ्खैः प्रसन्नाग्नैः कङ्कबर्हिणवाजितैः।।

प्रतिविन्ध्यो धनुश्छित्त्वा तस्य बारत सायकेः।
पञ्चभिर्निशितैर्बाणैरथैनं स हि जघ्निवान्।।

ततः शक्तिं महाराज स्वर्णघण्टां दुरासदाम्।
प्राहिणोत्प्रतिविन्ध्याय विचिन्वन्तीमसूनिव।।

तामापतन्ती सहसा शक्तिमुल्कामिवाम्बरे।
द्विधा चिच्छेद समरे प्रतिविन्ध्यो हसन्निव।।

सा पपात द्विधा छिन्ना प्रतिविन्ध्यशरैः शितैः।
युगान्ते सर्वभूतानि त्रासयन्ती यथाऽशनिः।।

शक्तिं तां प्रहतां दृष्ट्वा चित्रो गृह्य महागदाम्।
प्रतिविन्ध्याय चिक्षेप रुक्मजालविभूषिताम्।।

सा जघान हयांस्तस्य सारथिं च महारणे।
रथं प्रमृद्य वेगेन धरमीमन्वपद्यत।।

एतस्मिन्नेव काले तु रथादाप्लुत्य भारत।
शक्तिं चिक्षेप चित्राय स्वर्णदण्डामलङ्कृताम्।।

तामापतन्तीं जग्राह चित्रो राजन्महामनाः।
ततस्तामेव चिक्षेप प्रतिविन्ध्याय पार्थिवः।।

समासाद्य रणे शूरं प्रतिविन्ध्यं महाप्रभा।
निर्भिद्य दक्षिणं बाहुं निपपात महीतले।
पतिताऽभासयश्चैव तं देशमशनिर्यथा।।

प्रतिविन्ध्यस्ततो राजंस्तोमरं हेमभूषितम्।
प्रेषयामास सङ्क्रुद्धश्चित्रस्य वधकाङ्क्षया।।

स तस्य गात्रावरणं भित्त्वा हृदयमेव च।
जगाम धरणीं तूर्णं महोरग इवाशयम्।।

स पपात तदा राजा तोमरेण समाहतः।
प्रसार्य विपुलौ बाहू पीनौ पिघसन्निभौ।।

चित्रं सम्प्रेक्ष्य निहतं तावका रणशोभिनः।
अभ्यद्रवन्त वेगेन प्रतिविन्ध्यं समन्ततः।।

सृजन्तो विविधान्बाणाञ्शतघ्नीश्च सकिङ्किणीः।
तमवच्छादयामासुः सूर्यमभ्रगणा इव।।

तान्विधम्य महाबाहुः शरजालेन संयुगे।
व्यद्रावयत्तव चमूं वज्रहस्त इवासुरीम्।।

ते वध्यमानाः समरे तावकाः पाण्डवैर्नृप।
विप्रकीर्यन्त सहसा वातनुन्ना घना इव।।

विप्रद्रुते बले तस्मिन्वध्यमाने समन्ततः।
द्रौणिरेकोऽभ्ययात्तूर्णं भीमसेनं महाबलम्।।

तः समागमो घोरो बभूव सहसा तयोः।
यथा दैवासुरे युद्धे वृत्रवासवयोरिव।।

।। इति श्रीमन्महाभारते कर्णपर्वणि
षोडशदिवसयुद्धे एकादशोऽध्यायः।। 11 ।।