द्रोणपर्व

अध्यायः ९६

Drona Parva (Sanskrit) · Adhyaya 96
अक्षर का आकार

सञ्जय उवाच।

राजन्सङ्ग्राममाश्चर्यं शृणु कीर्तयतो मम।
कुरूणां पाण्डवानां च यथा युद्धमवर्तत।।

भारद्वाजं समासाद्य व्यूहस्य प्रमुखे स्थितम्।
अयोधयन्रणे पार्था द्रोणानीकं बिभित्सवः।।

रक्षमाणः स्वथं व्यूहं द्रोणोऽपि सह सैनिकैः।
अयोधयद्रणे पार्थान्प्रार्थयानो महद्यशः।।

विन्दानुविन्दावावन्त्यौ विराटं दशभिः शरैः।
अयोधयद्रणे पार्थान्प्रार्थयानो महद्यशः।।

विन्दानुविन्दावावन्त्यौ विराटं दशभिः शरैः।
पराक्रान्तौ पराक्रम्य योधयामास सानुगौ।।

तेषां युद्धं समभवद्दारुणं शोणितोदकम्।
सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने।।

बाह्लीकं रभसं युद्धे याज्ञसेनिर्महाबलः।
आजघ्ने विशिखैस्तीक्ष्णैर्घोरैर्मर्मास्थिभेदिभिः।।

बाह्लीको याज्ञसेनिं तु हेमपुङ्खैः शिलाशितैः।
आजघान भृशं क्रुद्धो नवभिर्नतपर्वभिः।।

तद्युद्धमभवद्धोरं शरशक्तिसमाकुलम्।
भीरूणां त्रासजननं शूराणां हर्षवर्धनम्।।

ताभ्यां तत्र शरैर्मुक्तैरन्तरिक्षं दिशस्तथा।
अभवत्संवृतं सर्वं न प्राज्ञायत किञ्चन।।

शैब्यो गोवासनो युद्धे काश्यपुत्रं महारथम्।
ससैन्यो योधयामास गजः प्रतिगजं यथा।।

बाह्लीकराजः सङ्क्रुद्धो द्रौपदेयान्महारथान्।
मनः पञ्चेन्द्रियाणीव शुशुभे योधयन्रणे।।

अयोधयंस्ते सुभृशं तं शरौघैः समन्ततः।
इन्द्रियाणि यथा देहं शश्वद्देहवतां वर।।

वार्ष्णेयं सात्यकिं युद्धे पुत्रो दुःशासनस्तव।
आजघ्ने सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिः।।

सोऽतिविद्धो बलवता महेष्वासेन धन्विना।
ईषन्मूर्च्छां जगामाशु सात्यकिः सत्यविक्रमः।।

समाश्वस्तस्तु वार्ष्णेयस्तव पुत्रं महारथम्।
विव्याध दशभिस्तूर्णं सायकैः कङ्कपत्रिभिः।।

तावन्योन्यं दृढं विद्धावन्योन्यशरपीडितौ।
रजेतुः समरे राजन्पुष्पिताविव किंशुकौ।।

अलम्बुसस्तु सङ्क्रुद्धः कृन्तिभोजशरार्दितः।
अशोभत भृशं लक्ष्म्या पुष्पाढ्य इव किंशुकः।।

कुन्तिभोजं ततो रक्षो विद्ध्वा बहुभिरायसैः।
अनदद्भैरवं नादं वाहिन्याः प्रमुखे तव।।

ततस्तौ समरे शूरौ योधयन्तौ परस्परम्।
ददृशुः सर्वसैन्यानि शक्रजम्भौ यथा पुरा।।

शकुनिं रभसं युद्धे कृतवैरं च भारत।
माद्रीपुत्रौ च संरब्धौ शरैश्चार्दयतां भृशम्।।

तुमुलः स महान्राजन्प्रावर्तत जनक्षयः।
त्वया सञ्जनितोऽत्यर्थं कर्णेन च विवर्धितः।।

रक्षितस्तव पुत्रैश्च क्रोधमूलो हुताशनः।
य इमां पृथिवीं राजन्दग्धुं सर्वां समुद्यतः।।

शकुनिः पाण्डुपुत्राभ्यां कृतः स विमुखः शरैः।
न स्म जानाति कर्तव्यं युद्धे किञ्चित्पराक्रमम्।।

विमुखं चैनमालोक्य माद्रीपुत्रौ महारथौ।
ववर्षतुः पुनर्बाणैर्यथा मेघौ महागिरिम्।।

स वध्यमानो बहुभिः शरैः सन्नतपर्वभिः।
सम्प्रायाज्जवनैरश्वैर्द्रोणानीकाय सौबलः।।

घटोत्कचस्तथा शूरं राक्षसं तमलामुधम्।
अभ्ययाद्रभसं युद्धे वेगमास्थाय मध्यमम्।।

तयोर्युद्धं महाराज चित्ररूपमिवाभवत्।
यादृशं हि पुरावृत्तं रामरावणयोर्मृधे।।

ततो युधिष्ठिरो राजा मद्रराजानमाहवे।
विद्ध्वा पञ्चाशता बाणैः पुनर्विव्याध सप्तभिः।।

ततः प्रववृते युद्धं तयोरत्यद्भुतं नृप।
यथा पूर्वं महद्युद्धं शम्बरामरराजयोः।।

विविंशतिश्चित्रसेनो विकर्णश्च तवात्मजः।
अयोधयन्भीमसेनं महत्या सेनया वृताः।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे षण्णवतितमोऽध्यायः।। 96 ।।