द्रोणपर्व
अध्यायः ९७
सञ्जय उवाच।
तथा तस्मिन्प्रवृत्ते तु सङ्ग्रमे रोमहर्षणे।
कौरवेयांस्त्रिधाभूतान्पाण्डवाः समुपाद्रवन्।।
जलसन्धं महाबाहुं भीमसेनोऽभ्यवर्तत।
युधिष्ठिरः सहानीकः कृतवर्माणमाहवे।।
किरंस्तु शरवर्षाणि रोचमान इवांशुमान्।
धृष्टद्युम्नो महाराज द्रोणमभ्यद्रवद्रणे।।
ततः प्रववृते युद्धं त्वरतां सर्वधन्विनाम्।
कुरूणां पाण्डवानां च सङ्क्रुद्धानां परस्परम्।।
सङ्क्षये तु तथाभूते वर्तमाने महाभये।
द्वन्दवीभूतेषु सैन्येषु युध्यमानेष्वभीतवत्।।
द्रोणः पाञ्चालपुत्रेण बली बलवता सह।
यदक्षिपत्पृषत्कौघांस्तदद्भुतमिवाभवत्।।
पुण्डरीकवनानीव विध्वस्तानि समन्ततः।
चक्राते द्रोणपाञ्चाल्यौ नृणां शीर्षाण्यनेकशः।।
विनिकीर्णानि वीराणामनीकेषु समन्ततः।
वस्त्राभरणशस्त्राणि ध्वजवर्मायुधानि च।।
तपनीयतनुत्राणाः संसिक्ता रुधिरेण च।
कोविदारा इवाभान्ति पुष्पितास्तत्र भारत।
तावकाः समरे योधाः पाण्डवेयाश्च विक्षताः।।
कुञ्जराश्वनरान्ये पातयन्ति स्म पत्रिभिः।
तालमात्राणि चापानि विकर्षन्तो महारथाः।।
असिचर्माणि चापानि शिरांशि कवचानि च।
विप्रकीर्यन्त शूराणां सम्प्रहारे महात्मनाम्।।
उत्थितान्यगणेयानि कबन्धानि समन्ततः।
अदृश्यन्त महाराज तस्मिन्परमसङ्कुले।।
गृध्राः कङ्का बकाः श्येना वायसा जम्बुकास्तथा।
बहुशः पिशिताशाश्च तत्रादृश्यन्त मारिष।।
भक्षयन्तश्च मांसानि पिबन्तश्चापि शोणितम्।
विलुम्पमानाः केशांश्च मज्जाश्च बहुधा नृप।।
आकर्षन्तः शरीराणि शरीरावयवांस्तथा।
नराश्वगजसङ्घानां शिरांशि च ततस्ततः।।
कृतास्त्रा रणशिक्षाभिर्दीक्षिता रणशालिनः।
रणे जयं प्रार्थयाना भृशं युयुधिरे तदा।।
असिमार्गान्बहुविधान्विचेरुः सैनिका रणे।
ऋष्टिभिः शक्तिभिः प्रासैः शूलतोमरपट्टसैः।।
गदाभिः परिघैश्चान्यैरायुधैश्च भुजैरपि।
अन्योन्यं जघ्निरे क्रुद्धा युद्धरङ्गता नराः।।
रथिनो रथिभिः सार्धमश्वारोहाश्च सादिभिः।
मातङ्गा वरमातङ्गैः पदाताश्च पदातिभिः।।
क्षीबा इवान्ये चोन्मत्ता रङ्गेष्विव च वारणाः।
उच्चुक्रुशुरथान्योन्यं जघ्नुरन्योन्यमेव च।।
वर्तमाने तथा युद्धे निर्मर्यादे विशाम्पते।
धृष्टद्युम्नो हयानश्चैर्द्रोणस्य व्यत्यमिश्रयत्।।
ते हयाः साध्वशोभन्त मिश्रिता वातरंहसः।
पारावतसवर्णाश्च रक्तशोणाश्च संयुगे।।
पारावतसवर्णास्ते रक्तशोणविमिश्रिताः।
हयाः शुशुभिरे राजन्मेघा इव सविद्युतः।।
धृष्टद्युम्नस्तु सम्प्रेक्ष्य द्रोणमभ्याशमागतम्।
असिचर्माददे वीरो धनुरुत्सृज्य भारत।।
चिकीर्षुर्दुष्करं कर्म पार्षतः परवीरहा।
ईषायाः समतिक्रम्य द्रोणस्य रथमाविशत्।।
अतिष्ठद्युगमध्ये स युगसन्नहनेषु च।
जघनार्धेषु चाश्वानां तत्सैन्यान्यभ्यपूजयन्।।
खङ्गेन चरतस्तस्य शोणाश्वानधितिष्ठतः।
न ददार्शान्तरं द्रोणस्तदद्भुतमिवाभवत्।।
यथा श्येनस्य पतनं वनेष्वामिषगृद्धिनः।
तथैवासीदभीसारस्तस्य द्रोणं जिघांसतः।।
ततः शरशतेनास्य शतचन्द्रं समाक्षिपत्।
द्रोणो द्रुपद पुत्रस्य खङ्गं च दशभिः शरैः।।
हयांश्चैव चतुःषष्ट्या शराणां जघ्निवान्बली।
ध्वजं छत्रं च भल्लाभ्यां तथा तौ पार्ष्णिसारथी।।
अथास्मै त्वरितो बाणमपरं जीवितान्तकम्।
धृष्टद्युम्नाय चिक्षेप वज्रं वज्रधरो यथा।।
तं चतुर्दशभिस्तीक्ष्णैर्बाणैश्चिच्छेद सात्यकिः।
ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नं व्यमोचयत्।।
सिंहेनेव मृगं ग्रस्तं नरसिंहेन मारिष।
द्रोणाद्वै मोचयामास पाञ्चाल्यं शिनिपुङ्गवः।।
सात्यकिं प्रेक्ष्य गोप्तारं पाञ्चाल्यं च महाहवे।
शराणां त्वरितो द्रोणः षड्विंशत्या समार्पयत्।।
ततो द्रोणं शिनेः पौत्रो ग्रसन्तमपि सृञ्जयान्।
प्रत्यविध्यच्छितैर्बाणैः षड्विंशत्या स्तनान्तरे।।
ततः सर्वे रथास्तूर्णं पाञ्चाल्या जयगृद्धिनः।
सात्वताभिसृते द्रोणे धृष्टद्युम्नमवाक्षिपन्।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे सप्तनवतितमोऽध्यायः।। 97 ।।