द्रोणपर्व
अध्यायः ९५
सञ्जय उवाच।
प्रविष्टयोर्महाराज पार्थवार्ष्णेययो रणे।
दुर्योधने प्रयाते च पृष्ठतः पुरुषर्षभे।।
जवेनाभ्यद्रवन्द्रोणं महता निःस्वनेन च।
पाण्डवाः सोमकैः सार्धं ततो युद्धमवर्तत।।
तद्युद्धमभवत्तीव्रं तुमुलं रोमहर्षणम्।
कुरूणां पाण्डवानां च व्यूहस्य पुरतोऽद्भुतम्।।
राजन्कदाचिन्नास्माभिर्दृष्टं तादृङ्क च श्रुतम्।
यादृङ्मध्यगते सूर्ये युद्धमासीद्विशाम्पते।।
धृष्टद्युम्नमुखाः पार्था व्यूढानीकाः प्रहारिणः।
द्रोणस्य सैन्यं ते सर्वे शरवर्षैरवाकिरन्।।
वयं द्रोणं पुरस्कृत्य सर्वशस्त्रभृतां वरम्।
पार्षतप्रमुखान्पार्थानभ्यवर्षाम सायकैः।।
महामेघाविवोदीर्णौ मिश्रवातौ हिमात्यये।
सेनाग्रे प्रचकाशेते रुचिरे रथभूषिते।।
समेत्य तु महासेने चक्रतुर्वेगमुत्तमम्।
जाह्नवीयमुने नद्यौ प्रावृषीवोल्बणोदके।।
नानाशस्त्रपुरोवातो द्विपाश्वरथसंवृतः।
गदाविद्युन्महारौद्रः सङ्ग्रामजलदो महान्।।
भारद्वाजानिलोद्भूतः शरधारासहस्रवान्।
अभ्यवर्षन्महारौद्रं पाण्डुसेनाग्निमुद्धतम्।।
समुद्रमिव घर्मान्ते विशन्घोरो महानिलः।
व्यक्षोभयदनीकानि पाण्डवानां द्विजोत्तमः।।
तेऽपि सर्वप्रयत्नेन द्रोणमेव समाद्रवन्।
बिभित्सन्तो महासेतुं वार्योघाः प्रबला इव।।
वारयामास तान्द्रोणो जलौघमचलो यथा।
पाण्डवान्समरे क्रुद्धान्पाञ्चालांश्च सकेकयान्।।
अथापरे च राजानः परिवृत्य समन्ततः।
महाबला रणे शूराः पाञ्चालानन्ववारयन्।।
ततो रणे नरव्याघ्रः पार्षतः पाण्डवैः सह।
सञ्जघानासकृद्द्रोणं बिभित्सुररिवाहिनीम्।।
यथैव शरवर्षाणि द्रोणो वर्षति पार्षते।
तथैव शरवर्षाणि धृष्टद्युम्नोऽप्यवर्षत।।
सनिस्त्रिंशपुरोवातः शक्तिप्रासर्ष्टिसंवृतः।
ज्याविद्युच्चापसंहादो धृष्टद्युम्नबलाहकः।।
शरधाराश्मवर्षाणि व्यसृजत्सर्वतो दिशम्।
निघ्नन्रथवराश्वौघान्प्लावयामास वाहिनीम्।।
यंयमार्च्छच्छरैर्द्रोणः पाण्डवानां रथव्रजम्।
ततस्ततः शरैर्द्रोणमपाकर्षत पार्षतः।।
तथा तु यतमानस्य द्रोणस्य युधि भारत।
धृष्टद्युम्नं समासाद्य त्रिधा सैन्यमभिद्यत।।
भोजमेकेऽभ्यवर्तन्त जलसन्धं तथाऽपरे।
पाण्डवैर्हन्यमानाश्च द्रोणमेवापरे ययुः।।
सङ्घट्टयति सैन्यानि द्रोणस्तु रथिनां वरः।
व्यधमच्चापि तान्यस्य धृष्टद्युम्नो महारथः।।
धार्तराष्ट्रास्तथा भूता वध्यन्ते पाण्डुसृञ्जयैः।
अगोपाः पशवोऽरण्ये बहुभिः श्वापदैरिव।।
कालः स्म ग्रसते योधान्धृष्टद्युम्नेन मोहितान्।
सङ्ग्रामे तुमुले तस्मिन्निति सम्मेनिरे जनाः।।
कुनृपस्य यथा राष्ट्रं दुर्भिक्षव्याधितस्करैः।
द्राव्यते तद्वदापन्ना पाण्डवैस्तव वाहिनी।।
अर्करश्मिविमिश्रेषु शस्त्रेषु कवचेषु च।
चक्षूंषि प्रत्यहन्यन्त सैन्येन रजसा तथा।।
त्रिधा भूतेषु सैन्येषु वध्यमानेषु पाण्डवैः।
अमर्षितस्ततो द्रोणः पाञ्चालान्व्यधमच्छरैः।।
मृद्गतस्तान्यनीकानि निघ्नतश्चापि सायकैः।
बभूव रूपं द्रोणस्य कालाग्नेरिव दीप्यतः।।
रथं नागं हयं चापि पत्तिनश्च विशाम्पते।
एकैकेनेषुणा सङ्ख्ये निर्बिभेद महारथः।।
पाण्डवानां तु सैन्येषु नास्ति कश्चित्स भारत।
दधार यो रणे बाणान्द्रोणचापच्युतान्प्रभो।।
तत्पच्यमानमर्केण द्रोणसायकतापितम्।
बभ्राम पार्षतं सैन्यं तत्रतत्रैव भारत।।
`हन्यमानं तु तत्सैन्यं भारद्वाजेन सर्वतः।
शरैरग्निशिखाकारैर्दह्यते भरतर्षभ'।।
तथैव पार्षतेनापि काल्यमानं बलं तव।
अभवत्सर्वतो दीप्तं शुष्कं वनमिवाग्निना।।
बाध्यमानेषु सैन्येषु द्रोणपार्षतसायकैः।
त्यक्त्वा प्राणान्परं शक्त्या युध्यन्ते स्वर्गलिप्सवः।।
तावकानां परेषां च युध्यतां भरतर्षभ।
नासीत्कश्चिन्महाराज योऽत्याक्षीत्संयुगं भयात्।।
भीमसेनं तु कौन्तेयं सोदर्याः पर्यवारयन्।
विविंशतिश्चित्रसेनो विकर्णश्च महारथः।।
विन्दानुविन्दावावन्त्यौ क्षेमधूर्तिश्च वीर्यवान्।
त्रयाणां तव पुत्राणां त्रय एवानुयायिनः।।
बाह्लीकराजस्तेजस्वी कुलपुत्रो महारथः।
सहसेनः सहामात्यो द्रौपदेयानवारयत्।।
शैब्यो गोवासनो राजा योधैर्दशशतावरैः।
काश्यस्याभिभुवः पुत्रं पराक्रान्तमवारयत्।।
अजातशत्रुं कौन्तेयं ज्वलन्तमिव पावकम्।
मद्राणामीश्वरः शल्यो राजा राजानमावृणोत्।
दुःशासनस्त्ववस्थाप्य स्वमनीकममर्षणः।
सात्यकिं प्रययौ क्रुद्धः शूरो रथवरं युधि।।
स्वकेनाहमनीकेन सन्नद्धः कवचावृतः।
चतुःशतैर्महेष्वासैश्चेकितानमवारयम्।।
शकुनिस्तु सहानीको माद्रीपुत्राववारयत्।
गान्धारकैः सप्तशतैश्चापशक्त्यसिपाणिभिः।।
विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्च्छताम्।
प्राणांस्तक्त्वा महेष्वासौ मित्रार्थेऽभ्युद्यतायुधौ।।
शिखण्डिनं याज्ञसेनिं रुन्धानमपराजितम्।
बाह्लीकः प्रतिसंयत्तः पराक्रान्तमवारयत्।।
धृष्टद्युम्नं तु पाञ्चाल्यं क्रूरैः सार्धं प्रभद्रकैः।
आवन्त्यः सहसौवीरैः क्रुद्धरूपमवारयत्।।
घटोत्कचं तथा शूरं राक्षसं क्रूरकर्मिणम्।
अलामुधोऽद्रवत्तूर्णं क्रुद्धमायान्तमाहवे।।
अलम्बुसं राक्षसेन्द्रं कुन्तिभोजो महारथः।
सैन्येन महता युक्तः क्रुद्धरूपमवारयत्।।
सैन्धवः पृष्ठतस्त्वासीत्सर्वसैन्यस्य भारत।
रक्षितः परमेष्वासैः कृपप्रभृतिभी रथैः।।
तस्यास्तां चक्ररक्षौ द्वौ सैन्धवस्य बृहत्तमौ।
द्रौणिर्दक्षिणतो राजन्सूतपुत्रश्च वामतः।।
पृष्ठगोपास्तु तस्यासन्सौमदत्तिपुरोगमाः।
कृपश्च वृषसेनश्च शलः शल्यश्च दुर्जयः।।
नीतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः।
सैन्धवस्य विधायैवं रक्षां युयुधिरे ततः।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे पञ्चनवतितमोऽध्यायः।। 95 ।।