द्रोणपर्व
अध्यायः ९०
धृतराष्ट्र उवाच।
तस्मिन्प्रभग्ने सैन्याग्रे वध्यमाने किरीटिना।
केतु तत्र रणे वीराः प्रत्युदीयुर्धनञ्जयम्।।
आहोस्विच्छकटव्यूहं प्रविष्टा मोघनिश्चयाः।।
द्रोणमाश्रित्य तिष्ठन्ति प्राकारमकुतोभयाः।।
सञ्जय उवाच।
तथाऽर्जुनेन सम्भग्ने तस्मिंस्तव बलेऽनघ।
हतवीरे हतोत्साहे पलायनकृतक्षणे।।
पाकशासनिनाऽभीक्ष्णं वध्यमाने शरोत्तमैः।
न तत्र कश्चित्सङ्ग्रामे शशाकार्जुनमीक्षितुम्।।
ततस्तव सुतो राजन्दृष्ट्वा सैन्यं तथागतम्।
दुःशासनो भृशं क्रुद्धो युद्धायार्जुनमभ्यगात्।।
सकाञ्चनविचित्रेण कवचेन समावृतः।
जाम्बूनदशिरस्त्राणः शूरस्तीव्रपराक्रमः।।
नागानीकेन महता ग्रसन्निव महीमिमाम्।
दुःशासनो महाराज सव्यसाचिनमावृणोत्।।
हादेन गजघण्टानां शङ्खानां निनदेन च।
ज्याक्षेपनिनदैश्चैव विरावेण च दन्तिनाम्।।
भूर्दिशश्चान्तरिक्षं च शब्देनासीत्समावृतम्।
`युवराजो बलश्लाघी पिङ्गलः प्रियदर्शनः'।
स मुहूर्तं प्रतिभयो दारुणः समपद्यत।।
तान्दृष्ट्वा पततस्तूर्णमङ्कुशैरभिचोदितान्।
व्यालम्बहस्तान्संरब्धान्सपक्षानिव पर्वतान्।।
सिंहनादेन महता नरसिंहो धनञ्जयः।
`तदाचलघनप्रख्यं पताकाशतसङ्कुलम्'।
गजानीकममित्राणामभितो व्यधमच्छरैः।।
महोर्मिणमिवोद्धूतं श्वसनेन महार्णवम्।
किरीटी तद्गजानीकं प्राविशन्मकरो यथा।।
खमाश्रित इवादित्यः प्रतपन्स युगक्षये।
ददृशे दिक्षु सर्वासु पार्थः परपुरञ्जनः।।
खुरशब्देन चाश्वानां नेमिघोषेण तेन च।
तेन चोत्क्रुष्टशब्देन ज्यानिनादेन तेन च।।
नानावादित्रशब्देन पाञ्चजन्यस्वनेन च।
देवदत्तस्य घोषेण गाण्डीवनिनदेन च।
मन्दवेगा नरा नागा बभूवुस्ते विचेतसः।।
शरैराशीविषस्पर्शैर्निर्भिन्नाः सव्यसाचिना।
ते गजाः समसीदन्त मग्नाः पङ्कार्णवेष्विव।।
युगपच्च समाविष्टैः शरैर्गाण्डीवधन्वनः।
अनेकशतसाहस्रैर्द्रुमा मधुकरैरिव।
`पुङ्खावशिष्टैर्बहुभिः शोणितोत्पीडवाहिभिः'।।
आरावं परमं कृत्वा वध्यमानाः किरीटिना।
निपेतुरनिशं भूमौ छिन्नपक्षा इवाद्रयः।।
अपरे दन्तवेष्टेषु कुम्भेषु च कटेषु च।
शरैः समर्पिता नागाः क्रौञ्चवद्व्यनदन्मुहुः।।
गजस्कन्धगतानां च पुरुषाणां किरीटिना।
छिद्यन्ते चोत्तमाङ्गानि भुल्लैः सन्नतपर्वभिः।।
सकुण्डलानां पततां शिरसां धरणीतले।
पद्मानामिव सङ्घातैः पार्थश्चक्रे निवेदनम्।।
यन्त्रबद्धा विकवचा व्रणार्ता रुधिरोक्षिताः।
भ्रमत्सु युधि नागेषु मनुष्या विललम्बिरे।।
केचिदेकेन बाणेन सुयुक्तेन सुपत्रिणा।
द्वौ त्रयश्च विनिर्भिन्ना निपेतुर्धरणीतले।।
अपरे मदसंरब्धा मातङ्गाः पर्वतोपमाः।
सारोहा न्यपतन्भूमौ द्रुमवन्त इवाचलाः।।
मौर्वी ध्वजं धनुश्चैव युगमीषां तथैव च।
रथिनां कुट्टयामास भल्लैः सन्नतपर्वभिः।।
न सन्दधन्न चाकर्षन्न विमुञ्चन्न चोद्वहन्।
मण्डलेनैव धनुषा नृत्यन्पार्थः स्म दृश्यते।।
अतिविद्धाश्च नाराचैर्वमन्तो रुधिरं मुखैः।
मुहूर्तान्न्यपतन्नन्ये वारणा वसुधातले।।
उत्थितान्यगणेयानि कबन्धानि समन्ततः।
अदृश्यन्त महाराज तस्मिन्परमसङ्कुले।।
सचापाः साङ्गुलित्राणाः सखङ्गाः साङ्गदा रणे।
अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः।।
सूपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः।
चक्रैर्विमथितैरक्षैर्भग्नैश्च बहुधा युगैः।।
चर्मचापधरैश्चैव व्यवकीर्णैस्ततस्ततः।
स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः।।
निहतैर्वारणैरश्वैः क्षत्रियैश्च निपातितैः।
अदृश्यत मही तत्र दारुणप्रतिदर्शना।।
एवं दुःशासनबलं वध्यमानं किरीटिना।
सम्प्राद्रवन्महाराज व्यथितं सहनायकम्।।
`एवं बले द्रुते याते राजपुत्रं महारथम्।
विव्याध दशभिर्बाणैस्तिष्ठतिष्ठेति चाब्रवीत्।।
जीवितेन कथं गन्ता दुरुक्तं यावदद्य ते।
तद्वाक्यसदृशं कर्म कुरु त्वं यदि मन्यसे।।
एवमुक्त्वा ततो राजा पार्थः पार्थिवमर्दनः।
भृशं क्रुद्धो महाराज अविध्यत्तनयं तव'।।
ततो दुःशासनस्त्रस्तः सहानीकः शरार्दितः।
द्रोणं त्रातारमाकाङ्क्षञ्शकटव्यूहमभ्यगात्।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे नवतितमोऽध्यायः।। 90 ।।