द्रोणपर्व
अध्यायः ८९
अर्जुन उवाच
चोदयाश्वान्हृषीकेश यत्र दुर्मर्षणः स्थितः।
एतद्भित्त्वा गजानीकं प्रवेक्ष्याम्यरिवाहिनीम्।।
सञ्जय उवाच।
एवमुक्तो महाबाहुः केशवः सव्यसाचिना।
अचोदयद्धयांस्तत्र यत्र दुर्मर्षणः स्थितः।।
स सम्प्रहारस्तुमुलः सम्प्रवृत्तः सुदारुणः।
एकस्य च बहूनां च रथनागनरक्षयः।।
ततः सायकवर्षेण पर्जन्य इव वृष्टिमान्।
परानवाकिरत्पार्थः पर्वतानिव नीरदः।।
ते चापि रथिनः सर्वे त्वरिताः कृतहस्तवत्।
अवाकिरन्बाणजालैस्तत्र कृष्णधनञ्जयौ।।
ततः क्रुद्धो महाबाहुर्वार्यमाणः परैर्युधि।
शिरांसि रथिनां पार्थः कायेभ्योऽपाहरच्छरैः।।
उद्धान्तनयनैर्वक्रैः सन्दष्टौष्ठपुटैः शुभैः।
सकुण्डलशिरस्त्राणैर्वसुधा समकीर्यत।।
पुण्डरीकवनानीव विध्वस्तानि समन्ततः।
विनिकीर्णानि योधानां वदनानि चकाशिरे।।
सुवर्णचित्राभरणाः संसिक्ता रुधिरेण च।
संसक्ता इव दृश्यन्ते मेघसङ्घाः सविद्युतः।।
शिरसां पततां राजञ्शब्दोऽभूद्वसुधातले।
कालेन परिपक्वानां तालानां पततामिव।।
कबन्ध उत्थितः कश्चिद्विष्फार्य सशरं धनुः।
किञ्चित्खङ्गं विनिष्कृष्य भुजेनोद्यम्य तिष्ठति।
`गृहीत्वाऽन्यस्य केशेषु शिरो नृत्यति चापरः'।।
पतितानि न जानन्ति शिरांसि पुरुषर्षभाः।
अमृष्यमाणाः सङ्ग्रामे कौन्तेयं जयगृद्धिनः।।
हयानामुत्तमाङ्गैश्च हस्तिहस्तैश्च मेदिनी।
बाहुभिश्च शिरोभिश्च वीराणां समकीर्यत।।
अयं पार्थः कुतः पार्थः पार्थोऽयमिति सर्वशः।
`तिष्ठ पार्थेहि मां पार्थ क्व यासीति च जल्पताम्'।
तव सैन्येषु योधानां पार्थभूतमिवाभवत्।।
अन्योन्यमपि चाजघ्नुरात्मानमपि चापरे।
पार्थभूतममन्यन्त जनाः कालेन मोहिताः।।
निष्टनन्तः सरुधिरा विसंज्ञा गाढवेदनाः।
शयाना बहवो वीराः कीर्तयन्तः स्वबान्धवान्।।
सभिण्डिपालाः सप्रासाः सशक्त्यृष्टिपरश्वथाः।
सनिर्व्यूहाः सनिस्त्रिंशाः सशरासनतोमराः।।
सबाणवर्माभरणाः सगदाः साङ्गदा रणे।
महाभुजगसङ्काशा बाहवः परिघोपमाः।।
उद्वेष्टन्ति विचेष्टन्ति सञ्चेष्टन्ति च सर्वशः।
वेगं कुर्वन्ति संरब्धा निकृत्ताः परमेषुभिः।।
यो यः स्म समरे पार्थं प्रतिसञ्चरते नरः।
तस्यतस्यान्तको बाणः शरीरमुपसर्पति।।
नृत्यतो रथमार्गेषु धनुर्व्यायच्छतस्तथा।
न कश्चित्तत्र पार्थश्च ददृशेऽन्तरमण्वपि।।
यत्तस्य घटमानस्य क्षिप्रं विक्षिपतः शरान्।
लाघवात्पाण्डुपुत्रस्य व्यस्मयन्त परे जनाः।।
हस्तिनं हस्तियन्तारमश्वमाश्विकमेव च।
अभिनत्फल्गुनो बाणै रथिनं च ससारथिम्।।
आवर्तमानमावृत्तं युध्यमानं च पाण्डवः।
प्रमुखे तिष्ठमानं च न कञ्चिन्न निहन्ति सः।।
यथोदयन्वै गगने सूर्यो हन्ति महत्तमः।
तथाऽर्जुनो गजानीकमवधीत्कङ्कपत्रिभिः।।
हस्तिभिः पतितैर्भिन्नैस्तव सैन्यमदृश्यत।
अन्तकाले यथा भूमिर्व्यवकीर्णा महीधरैः।।
यथा मध्यंदिने सूर्यो दुष्प्रेक्ष्यः प्राणिभिः सदा।
तथा धनञ्जयः क्रुद्धो दुष्प्रेक्ष्यो युधि शत्रुभिः।।
तत्तथा तव पुत्रस्य सैन्यं युधि परन्तप।
प्रभग्नं द्रुतमाविग्नमतीव शरपीडितम्।।
मारुतेनेव महता मेघानीकं व्यदीर्यत।
प्रकाल्यमानं तत्सैन्यं नाशकत्प्रतिवीक्षितुम्।।
प्रतोदैश्चापकोटीभिर्हुंकारैः साधुवाहितैः।
कशापार्ष्ण्यभिघातैश्च वाग्भिरुग्राभिरेव च।।
चोदयन्तो हयांस्तूर्णं पलायन्ते स्म तावकाः।
सादिनो रथिनश्चैव पत्तयश्चार्जुनार्दिताः।।
पार्ष्ण्यङ्गुष्ठाङ्कुशैर्नागं चोदयन्तस्तथाऽपरे।
शरैः सम्मोहिताश्चान्ये तमेवाभिमुखा ययुः।।
तव योघ हतोत्साहा विभ्रान्तमनसस्तदा।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे एकोननवतितमोऽध्यायः।। 89 ।।