द्रोणपर्व
अध्यायः ९१
सञ्जय उवाच।
दुःशसनबलं हत्वा सव्यसाची महारथः।
सिन्धुराजं परीप्सन्वै द्रोणानीकमुपाद्रवत्।।
स तु द्रोणं समासाद्य व्यूहस्य प्रमुखे स्थितम्।
कृताञ्जलिरिदं वाक्यं कृष्णस्यानुमतेऽब्रवीत्।।
शिवेन ध्याहि मां ब्रह्मन्स्वस्ति चैव वदस्व मे।
भवत्प्रसादादिच्छामि प्रवेष्टं दुर्भिदां चमूम्।।
भवान्पितृसमो मह्यं धर्मराजसमोऽपि च।
धौम्यकृष्णसमश्चैव सत्यमेतद्ब्रवीमि ते।।
अश्वत्थामा यथा तात रक्षणीयस्त्वयाऽनघ।
तथाऽहमपि ते रक्ष्यः सदैव द्विजसत्तम।।
तव प्रसादादिच्छेयं सिन्धुराजानमाहवे।
निहन्तुं द्विपदां श्रेष्ठ प्रतिज्ञां रक्ष मे प्रभो।।
सञ्जय उवाच।
एवमुक्तस्तदाऽऽचार्यः प्रत्युवाच स्मयन्निव।
मामजित्वा न बीभत्सो शक्यो जेतुं जयद्रथः।।
एतावदुक्त्वा तं द्रोणः शरव्रातैरवाकिरत्।
सरथाश्वध्वजं तीक्ष्णैः प्रहसन्वै ससारथिम्।।
ततोऽर्जुनः शरव्रातान्द्रोणस्यावार्य सायकैः।
द्रोणमभ्यर्दयद्बाणैर्घोररूपैर्हत्तरैः।।
विव्याध च रणे द्रोणमनुमान्य विशाम्पते।
क्षत्रधर्मं समास्थाय नवभिः सायकैः पुनः।।
तस्येषूनिषुभिश्छित्त्वा द्रोणो विव्याध तावुभौ।
विषाग्निज्वलितप्रख्यैरिषुभिः कृष्णपाण्डवौ।।
इयेप पाण्डवस्तस्य बाणैश्छेत्तुं शरासनम्।
तस्य चिन्तयतस्त्वेव फल्गुनस्य महात्मनः।।
द्रोणः शरैरसम्भ्रान्तो ज्यां चिच्छेदाशु वीर्यवान्।
विव्याध च हयानस्य ध्वजं सारथिमेव च।।
अर्जुनं च शरैर्वीरः स्मयमानोऽभ्यवाकिरत्।
एतस्मिन्नन्तरे पार्थः सज्यं कृत्वा महद्धनुः।।
विशेषयिष्यन्नाचार्यं सर्वास्त्रविदुषां वरः।
मुमोच षट्शतान्बाणान्गृहीत्वैकमिव द्रुतम्।।
पुनः सप्तशतानन्यान्सहस्रं चानिवर्तिनः।
चिक्षेपायुतशश्चान्यांस्तेऽघ्नन्द्रोणस्य तां चमूम्।।
तैः सम्यगस्तैर्बलिना कृतिना चित्रयोधिना।
मनुष्यवाजिमातङ्गा विद्धाः पेतुर्गतासवः।।
विसूताश्वध्वजाः पेतुः सञ्छिन्नायुधजीविताः।
रथिनो रथमुख्येभ्यः सहसा शरपीडिताः।।
चूर्णिताक्षिप्तदग्धानां वज्रानिलहुताशनैः।
तुल्यरूपा गजाः पेतुर्गिर्यग्राम्बुदवेश्मनाम्।।
पेतुरश्वसहस्राणि प्रहतान्यर्जुनेषुभिः।
हंसा हिमवतः पृष्ठे वारिविप्रहता इव।।
रथाश्वद्विपपत्त्योघाः सलिलौघा इवाद्भुताः।
युगान्तादित्यरश्म्याभैः पाण्डवास्त्रशरैर्हताः।।
तं पाण्डवादित्यशरांशुजालं
कुरुप्रवीरान्युधि निष्टपन्तम्।
स द्रोणमेघः शरवृष्टिवेगैः
प्राच्छादयन्मेघ इवार्करश्मीन्।।
अथात्यर्थं विसृष्टेन द्विषतामसुभोजिना।
आजघ्ने वक्षसि द्रोणो नाराचेन धनञ्जयम्।।
स विह्वलितसर्वाङ्गः क्षितिकम्पे यथाऽचलः।
धैर्यमालम्ब्य बीभत्सुर्द्रोणं विव्याध पत्रिभिः।।
द्रोणस्तु पञ्चभिर्बाणैर्वासुदेवमताडयत्।
अर्जुनं च त्रिसप्तत्या ध्वजं चास्य त्रिभिः शरैः।।
विशेषयिष्यञ्शिष्यं च द्रोणो राजन्पराक्रमी।
अदृश्यमर्जुनं चक्रे निमेषाच्छरवृष्टिभिः।।
प्रसक्तान्पततोऽद्राक्ष्म भारद्वाजस्य सायकान्।
मण्डलीकृतमेवास्य धनुश्चादृश्यताद्भुतम्।।
तेऽभ्ययुः समरे राजन्वासुदेवधनञ्जयौ।
द्रोणसृष्टाः सुबहवः कङ्कपत्रपरिच्छदाः।।
तत्राद्भुतमपश्याम शिलानामिव सर्पणम्।
यद्द्रोणं तरसा पार्थो वृद्धं बालोऽपि नातरत्।।
चिन्तयामास वार्ष्णेयो दृष्ट्वा द्रोणस्य विक्रमम्।
नातिवर्तिष्यते ह्योनं वेलामिव महार्णवः।।
ततः पार्थं समुद्विग्नं लक्ष्य चिन्तयतेऽच्युतः।
द्रोणस्य चापि विक्रान्तं दृष्ट्वा मधुनिषूदनः।
इत्यब्रवीद्वासुदेवो धनञ्जयमुदारधीः।।
पार्थपार्थ महाबाहो न नः कालात्ययो भवेत्।
द्रोणमुत्सृज्य गच्छामो ब्राह्मणोऽसौ गतक्लमः।।
सञ्जय उवाच।
पार्थश्चाप्यब्रवीत्कृष्णं यथेष्टमिति केशवम्।।
ततः प्रदक्षिणं कृत्वा द्रोणं प्रायान्महाभुजम्।
परिवृत्तश्च बीभत्सुरगच्छद्विसृजञ्शरान्।।
ततोऽब्रवीत्स्वयं द्रोणः क्वेदं पाण्डव गम्यते।
ननु नाम रणे शत्रुमजित्वा न निवर्तसे।।
अर्जुन उवाच।
गुरुर्भवान्न मे शत्रुः शिष्यः पुत्रसमोऽस्मि ते।
न चास्ति स पुमाँल्लोके यस्त्वां युधि पराजयेत्।।
सञ्जय उवाच।
एवं ब्रुवाणो बीभत्सुर्जयद्रथवधोत्सुकः।
त्वरायुक्तो महाबाहुस्त्वत्सैन्यं समुपाद्रवत्।।
तं चक्ररक्षौ पाञ्चाल्यौ युधामन्यूत्तमौजसौ।
अन्वयातां महात्मानौ विशन्तं तावकं बलम्।।
ततो जयो महाराज कृतवर्मा च सात्वतः।
काम्भोजश्च श्रुतायुश्च धनञ्जयमवारयन्।।
तेषां दशसहस्राणि रथानामनुयायिनाम्।
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः।।
मावेल्लका ललित्थाश्च केकया मद्रकास्तथा।
नारायणाश्च गोपालाः काम्भोजानां च ये गणाः।।
कर्णेन विजिताः पूर्वं सङ्ग्रामे शूरसम्मताः।
भारद्वाजं पुरस्कृत्य हृष्टात्मानोऽर्जुनं प्रति।।
पुत्रशोकाभिसन्तप्तं क्रुद्धं मृत्युमिवान्तकम्।
त्यजन्तं तुमुले प्राणान्सन्नद्धं चित्रयोधिनम्।।
गाहमानमनीकानि मातङ्गमिव यूथपम्।
महेष्वासं पराक्रान्तं नरव्याघ्रमवारयन्।।
ततः प्रववृते युद्धं तुमुलं रोमहर्षणम्।
अन्योन्यं वै प्रार्थयतां योधानामर्जुनस्य च।।
जयद्रथवधप्रेप्सुमायान्तं पुरुषर्षभम्।
न्यवारयन्त सहिताः क्रिया व्याधिमिवोत्थितं।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशोदिसयुद्धे एकनवतिततमोऽध्यायः।। 91 ।।