द्रोणपर्व

अध्यायः ९

Drona Parva (Sanskrit) · Adhyaya 9
अक्षर का आकार

धृतराष्ट्र उवाच।

किं कुर्वाणं रणे द्रोणं जघ्रुः पाण्डवसृञ्जयाः।
तथा निपुणमस्त्रेषु सर्वशस्त्रभृतामपि।।

रथः पर्यपतद्वाऽस्य धनुर्वाऽशीर्यतास्यतः।
प्रमत्तो वाऽभवद्दोणो यथा मृत्युमुपेयिवान्।।

कथं नु पार्षतस्तात शत्रुभिर्दुष्प्रधर्षणम्।
किरन्तमिषुसङ्घातान्रुक्मपुङ्खाननेकशः।।

क्षिप्रहस्तं द्विजश्रेष्ठं कृतिनं चित्रयोधिनम्।
दूरेषुपातिनं दान्तमस्त्रयुद्धेषु पारगम्।।

पाञ्चालपुत्रो न्यवधीद्दिव्यास्त्रधरमच्युतम्।
कुर्वाणं दारुणं कर्म रणे यत्तं महारथम्।।

व्यक्तं हि दैवं बलवत्पौरुषादिति मे मतिः।
यद्द्रोणो निहतः शूरः पार्षतेन महात्मना।।

अस्त्रं चतुर्विधं वीरे यस्मिन्नासीत्प्रतिष्ठितम्।
तमिष्वस्त्रधराचार्यं द्रोणं शंससि मे हतम्।।

श्रुत्वा हतं रुक्मरथं वैयाघ्रपरिवारणम्।
जातरूपपरिष्कारं नाद्य शोकमपानुदे।।

न नूनं परदुःखेन म्रियते कोऽपि सञ्जय।
यत्र द्रोणमहं श्रुत्वा हतं जीवामि मन्दधीः।
दैवमेव परं मन्ये नन्वनर्थं हि पौरुषम्।।

अश्मसारमयं नूर्न हृदयं सुदृढं मम।
यच्छ्रुत्वा निहतं द्रोणं शतधा न विदीर्यते।।

ब्राह्मे दैवे तथेष्वस्त्रे यमुपासन्गुणार्थिनः।
ब्राह्मणा राजपुत्राश्च स कथं मृत्युना हृतः।।

शोषणं सागरस्येव मेरोरिव विसर्पणम्।
पतनं भास्करस्येव न मृष्ये द्रोणपातनम्।।

दुष्टानां प्रतिषेद्धासीद्धार्मिकाणां च रक्षिता।
योऽहासीत्कृपणस्यार्थे प्राणानपि परन्तपः।।

मन्दानां मम पुत्राणां जयाशा यस्य विक्रमे।
बृहस्पत्युशनस्तुल्यो बुद्ध्या स निहतः कथम्।।

`गुणानां सर्वयोधानां स्थितिरासीन्महाद्युतिः।
यं मृत्युर्वशगस्तिष्ठेत्स कथं मृत्युना हतः'।।

ते च शोणा बृहन्तोऽश्वाश्छन्ना जालैर्हिरण्मयैः।
रथे वातजवा युक्ताः सर्वशस्त्रातिगा रणे।।

बलिनो हेषिणो दान्ताः सैन्धवाः साधुवाहिनः।
दृढाः सङ्ग्राममध्येषु कच्चिदासन्न विह्वलाः।।

करिणां बृंहतां युद्धे शङ्खदुन्दुभिनिःस्वनैः।
ज्याक्षेपशरवर्षाणां शस्त्राणां च सहिष्णवः।।

आशंसन्तः पराञ्जेतुं जितश्वासा जितव्यथाः।
हयाः पराजिताः शीघ्रा भारद्वाजरथोद्वहाः।।

ते स्म रुक्मरथे युक्ता नरवीरसमास्थिताः।
कथं नाभ्यतरंस्तात पाण्डवानामनीकिनीम्।।

जातरूपपरिष्करामास्थाय रथमुत्तमम्।
भारद्वाजः किमकरोद्युधि सत्यपराक्रमः।।

विद्यां यस्योपजीवन्ति सर्वलोकधनुर्धराः।
स सत्यसन्धो बलवान्द्रोणः किमकरोद्युधि।।

दिवि शक्रमिव श्रेष्ठं महामात्रं धनुर्भृताम्।
के नु तं रौद्रकर्माणं युद्धे प्रत्युद्ययू रथाः।।

ननु रुक्मरथं दृष्ट्वा प्राद्रवन्ति स्म पाण्डवाः।
दिव्यमस्त्रं विकुर्वाणं रणे तस्मिन्महाबलम्।।

उताहो सर्वसैन्येन धर्मराजः सहानुजः।
पाञ्चालप्रग्रहो द्रोणं सर्वतः समवारयत्।।

नूनमावारयत्पार्थो रथिनोऽन्यानजिह्मगैः।
ततो द्रोणं समहरत्पार्षतः पापकर्मकृत्।।

नह्यहं परिपश्यामि वधे कञ्चन शुष्मिणः।
धृष्टद्युम्नादृते रौद्रात्पाल्यमानात्किरीटिना।।

`उताहो सर्वसैन्येन धर्मराजः सहानुजः।
उत्सृज्य सर्वसैन्यानि द्रोणं तमभिदुद्रुवे'।।

तैर्वृतः सर्वतः क्षुद्रैः पाञ्चालापशदैस्ततः।
केकयैश्चेदिकारूशैर्मत्स्यैरन्यैश्च भूमिपैः।।

व्याकुलीकृतमाचार्यं पिपीलैरुरगं यथा।
कर्मण्यसुकरे सक्तं जघानेति मतिर्मम।।

योऽधीत्य चतुरो वेदान्साङ्गानाख्यानपञ्चमान्।
ब्राह्मणानां प्रतिष्ठासीत्स्रोतसामिव सागरः।।

क्षत्रं च ब्रह्म चैवेह योऽभ्यतिष्ठत्परन्तपः।
`दृप्तानां प्रतिषेद्धा च चक्षुरासीदचक्षुषाम्।।

अमर्षी चावलिप्तेषु धार्मिकेषु च धार्मिकः'।
स कथं ब्राह्मणो वृद्धः शस्त्रेण वधमाप्तवान्।।

अमर्षिणा मर्षितवान्क्लिश्यमानान्सदा मया।
अनर्हमाणान्कौन्तेयान्कर्मणस्तस्य तत्फलम्।।

यस्य कर्मानुजीवन्ति लोके सर्वधनुर्भृतः।
स सत्यसन्धः सुकृती श्रीकामैर्निहतः कथम्।।

दिवि शक्र इव श्रेष्ठो महासत्वो महाबलः।
स कथं निहतः पार्थैः क्षुद्रमत्स्यैर्यथा तिमिः।।

क्षिप्रहस्तश्च बलवान्दृढघन्वारिमर्दनः।
न यस्य विजयाकाङ्क्षी विषयं प्राप्य जीवति।।

यं द्वौ न जहतः शब्दौ जीवमानं कदाचन।
ब्राह्मश्च वेदकामानां ज्याघोषश्च धनुष्मताम्।।

अदीनं पुरुषव्याघ्रं हीमन्तमपराजितम्।
तमिष्वासवराचार्ये द्रोणं जघ्नुः कथं रथाः।।

`नाहं मन्ये हतं द्रोणं स हि लोकमयोत्स्यत।
को हि शक्तो रणे जेतुमनाधृष्ययशोबलम्।।

ब्रह्मकल्पो भवेद्ब्राह्मे क्षात्रे नारायणोपमः।
ब्रह्मक्षत्रे च यस्यास्तां वशे स्थाणोरिवाखिले।।

सर्वान्हि मामकान्वीरान्सहाश्वरथकुञ्जरान्।
युधिष्ठिरस्य तपसा हतान्मन्यामहे कुरून्'।।

कथं सञ्जय दुर्धर्षमनाधृष्ययशोबलम्।
पश्यतां पुरुषेन्द्राणां समरे पार्षतोऽवधीत्।।

के पुरस्तादयुध्यन्त रक्षन्तो द्रोणमन्तिकात्।
के नु पश्चादवर्तन्त गच्छतो दुर्गमां गतिम्।।

केऽरक्षन्दक्षिणं चक्रं सव्यं के च महात्मनः।
पुरस्तात्के च वीरस्य युध्यमानस्य संयुगे।।

के च तस्मिंस्तनूस्त्यक्त्वा प्रतीपं मृत्युमाव्रजन्।
द्रोणस्य समरे वीराः केऽकुर्वन्त परां धृतिम्।।

कच्चिन्नैनं भयान्मन्दाः क्षत्रिया व्यजहन्रणे।
रक्षितारस्ततः शून्ये कच्चित्तैर्न हतः परैः।।

न स पृष्ठमरेस्त्रासाद्रणे शौर्यात्प्रदर्शयेत्।
परामप्यापदं प्राप्य स कथं निहतः परैः।।

एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु सञ्जय।
पराक्रमेद्यथा शक्त्या तच्च तस्मिन्प्रतिष्ठितम्।
`यो यथाशक्ति युद्ध्येत द्विषद्भिःस्वांश्च पालयन्।।

कच्चिन्नैनं भयात्क्षुद्राः पार्थेभ्यः प्रददू रणे।
गोप्तृभिस्तैः समुत्सृष्टः कच्चिन्नैष परैर्हतः।।

धृष्टद्युम्नं प्रपश्यामि निघ्नन्तमिव ब्राह्मणम्।
वार्यमाणं रणे तात द्रौणिनाऽमिततेजसा'।।

मुह्यते मे मनस्तात कथा तावन्निवार्यताम्।
भूयस्तु लब्धसंज्ञस्त्वां परिपृच्छामि सञ्जय।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि
द्रोणाभिषेकपर्वणि नवमोऽध्यायः।। 9 ।।