द्रोणपर्व

अध्यायः ८

Drona Parva (Sanskrit) · Adhyaya 8
अक्षर का आकार

सञ्जय उवाच।

तथा द्रोणमभिघ्नन्तं साश्वसूतरथद्विपान्।
व्यथिताः पाण्डवा दृष्ट्वा न चैनं पर्यवारयन्।।

ततो युधिष्ठिरो राजा धृष्टद्युम्नधनञ्जयौ।
अब्रवीत्सर्वतो यत्तैः कुम्भयोनिर्निवार्यताम्।।

तत्रैनमर्जुनश्चैव धृष्टद्युम्नश्च पार्षतः।
`ये चान्ये पार्थिवा राजन्पाण्डवस्यानुसैनिकाः।
प्रत्यगृह्णंस्ततस्तत्र समागच्छन्महारथाः।।

केकया भीमसेनश्च सौभद्रोऽथ घटोत्कचः।
युधिष्ठिरो यमौ मात्स्यो द्रुदश्चात्मजैः सह।।

द्रौपदेयाश्च संहृष्टा धृष्टकेतुः ससात्यकिः।
चेकितानश्च सङ्क्रुद्धो युयुत्सुश्च महारथः।।

ये चान्ये पार्थिवा राजन्पाण्डवस्यानुयायिनः।
कुलवीर्यानुरूपाणि चक्रुः कर्माण्यनेकशः।।

संभिद्यमानां तां दृष्ट्वा पाण्डवैर्वाहिनीं रणे।
व्यावृत्य चक्षुषी कोपाद्भारद्वाजोऽन्ववैक्षत।।

स तीव्रं कोपमास्थाय रथे समरदुर्जयः।
व्यधमत्पाण्डवानीकं महाभ्राणीव मारुतः।।

रथानश्वान्नरान्नागानभिधावन्नितस्ततः।
चचारोन्मत्तवद्द्रोणो वृद्धोऽपि तरुणो यथा।।

तस्य शोणितदिग्धाङ्गाः शोणास्ते वातरंहसः।
आजानेया हया राजन्नविश्रान्ताः सुखं ययुः।।

तमन्तकमिव क्रुद्धमापतन्तं यतव्रतम्।
दृष्ट्वा सम्प्राद्रवन्योधाः पाण्डवस्य ततस्ततः।।

तेषां प्राद्रवतां भीमः पुनरावर्ततामपि।।
पश्यतां तिष्ठतां चासीच्छब्दः परमदारुणः।।

शूराणां हर्षजननो भीरूणां भयवर्धनः।
द्यावापृथिव्योर्विवरं पूरयामास सर्वतः।।

ततः पुनरपि द्रोणो नाम विश्रावयन्युधि।
अकरोद्रौद्रमात्मानं किरञ्छरशतैः परान्।।

स तथा तेष्वनीकेषु पाण्डुपुत्रस्य मारिष।
कालवद्व्यचरद्द्रोणो युवेव स्थविरो बली।।

उत्कृत्य च शिरांस्युग्रो बाहूनपि सुभूषणान्।
कृत्वा शून्यान्रथोपस्थानुदक्रोशन्महारवान्।।

तस्य हर्षप्रणादेन बाणवर्षेण च प्रभो।
प्राकम्पन्त रणे योधा गावः शीतार्दिता इव।।

द्रोणस्य रथघोषेण मौर्वीनिष्पेषणेन च।
धनुःशब्देन चाकाशे शब्दः समभवन्महान्।।

अथास्य धनुषो बाणा निस्सरन्तः सहस्रशः।
व्याप्य सर्वा दिशः पेतुर्नागाश्वरथपत्तिषु।

तं कार्मुकमहावेगमस्त्रज्वलितपावकम्।
द्रोणमासादयाञ्चक्रुः पाञ्चालाः पाण्डवैः सह।।

सनागरथपत्त्यश्वान्प्राहिणोद्यमसादनम्।
अचिरादकरोद्दोणो महीं शोणितकर्दमाम्।।

तन्वता परमास्त्राणि शरान्सततमस्यता।
द्रोणेन विहितं दिक्षु शरजालमदृश्यत।।

पदातिषु रथाश्वेषु वारणेषु च सर्वशः।
तस्य विद्युदिवाभ्रेषु चरन्केतुरदृश्यत।।

सकेकयानां प्रवरांश्च पञ्च पाञ्चालराजं च शरैः प्रमथ्य।
युधिष्ठिरानीकमदीनसत्वो द्रोणोऽभ्ययात्कार्मुकबाणपाणिः।।

तं भीमसेनश्च धनञ्जयश्च शिनेश्च नप्ता द्रुपदात्मजश्च।
शैब्यात्मजः काशिपतिः शिबिश्च दृष्ट्वा नदन्तो व्यकिरञ्छरौघैः।।

`तेषां शरा द्रोणशरैर्निकृत्ता भूमावदृश्यन्त विवर्तमानाः।
श्रेणीकृताः संयति मोघवेगा द्वीपे नदीनामिव काशरोहाः'।।

ते द्रोणबाणासनविप्रमुक्ताः पतत्रिणः काञ्चनचित्रपुङ्खाः।
भित्त्वा शरीराणि गजाश्वयूनां जग्मुर्महीं शोणितदिग्धवाजाः।।

सा योधसङ्घैश्च रथैश्च भूमिः शरैर्विभिन्नैर्गजवाजिभिश्च।
प्रच्छाद्यमाना पतितैर्बभूव समावृता द्यौरिव कालमेघैः।।

शैनेयभीमार्जुनवाहिनीशं सौभ्रद्रपाञ्चालसकाशिराजम्।
अन्यांश्च वीरान्समरे ममर्द द्रोणः सुतानां तव भूतिकामः।।

एतानि चान्यानि च कौरवेन्द्र कर्माणि कृत्वा समरे महात्मा।
प्रताप्य लोकानिव कालसूर्यो द्रोणो गतः स्वर्गमितो हि राजन्।।

एवं रुक्मरथः शूरो हत्वा शतसहस्रशः।
पाण्डवानां रणे योधान्पार्षतेन निपातितः।।

अक्षौहिणीमभ्यधिकां शूराणामनिवर्तिनाम्।
निहत्य पश्चाद्धृतिमानगच्छत्परमां गतिम्।।

पाण्डवैः सहपाञ्चालैरशिवैः क्रूरकर्मभिः।
हतो रुक्मरथो राजन्कृत्वा कर्म सुदुष्करम्।।

ततो निनादो भूतानामाकाशे समजायत।
सैन्यानां च ततो राजन्नाचार्ये निहते युधि।।

द्यां धरां खं दिशो वापि प्रदिशर्श्चानुनादयन्।
अहो धिगिति भूतानां शब्दः समभावद्भृशम्।।

देवताः पितरश्चैव पूर्वे ये चास्य बान्धवाः।
ददृशुर्निहतं तत्र भारद्वाजं महारथम्।।

पाण्डवास्तु जयं लब्ध्वा सिंहनादान्प्रचक्रिरे।
सिंहनादेन महता समकम्पत मेदिनी।।

`विचित्रजाम्बूनदभूषितध्वजं महारथं रुक्मरथं निपातितम्।

।। इति श्रीमन्महाभारते द्रोणपर्वणि
द्रोणाभिषेकपर्वणि अष्टमोऽध्यायः।। 8 ।।