द्रोणपर्व

अध्यायः १०

Drona Parva (Sanskrit) · Adhyaya 10
अक्षर का आकार

वैशम्पायन उवाच।

एवं पृष्ट्वा सूतपुत्रं हृच्छोकेनार्दितो भृशम्।
जये निराशः पुत्राणां धृतराष्ट्रोऽपतत्क्षितौ।।

तं विसंज्ञं निपतिन्त सिषिचुः परिचारिकाः।
जलेनात्यर्थशीतेन जीवन्त्यः पुण्यगन्धिना।।

पतितं चैनमालोक्य समस्ता भरतस्त्रियः।
परिवव्रुर्महाराजमस्पृशंश्चैव पाणिभिः।।

उत्थाप्य चैनं शनकै राजानं पृथिवीतलात्।
आसनं प्रापयामासुर्बाष्पकण्ठ्यो वराननाः।।

आसनं प्राप्य राजा तु मूर्च्छयाऽभिपरिप्लुतः।
निश्चेष्टोऽतिष्ठत तदा वीज्यमानः समन्ततः।।

स लब्ध्वा शनकैः संज्ञां वेपमानो महीपतिः।
पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम्।।

धृतराष्ट्र उवाच।

यः स उद्यन्निवादित्यो ज्योतिषा प्रणुदंस्तमः।
अजातशत्रुमायान्तं कस्तं द्रोणादवारयत्।।

प्रभिन्नमिव मातङ्गं यथा क्रुद्धं तरस्विनम्।
प्रसन्नवदनं दृष्ट्वा प्रतिद्विरदगामिनम्।।

वासितासङ्गमे यद्वदजय्यं प्रतियूथपैः।
निजघान रणे वीरान्वीरः पुरुषसत्तमः।।

यो ह्येको हि महावीर्यो निर्दहेद्धोरचक्षुषा।
कृत्स्नं दुर्योधनबलं धृतिमान्सत्यसङ्गरः।।

चक्षुर्हणं जये सक्तमिष्वासधरमच्युतम्।
दान्तं बहुमतं लोके के शूराः पर्यवारयन्।।

के दुष्प्रधर्षं राजानमिष्वासधरमच्युतम्।
समासेदुर्नरव्याघ्रं कौन्तेयं तत्र मामकाः।।

तरसैवाभिपद्याथ यो वै द्रोणमुपाद्रवत्।
यः करोति महत्कर्म शत्रूणां वै महाबलः।।

महाकायो महोत्साहो नागायुतसमो बले।
तं भीमसेनमायान्तं के शूराः पर्यवारयन्।।

यदायाज्जलदप्रख्यो रथः परमवीर्यवान्।
पर्जन्य इव बीभत्सुस्तुमुलामशनीं सृजन्।।

विसृजञ्छरजालानि वर्षाणि मघवानिव।
अवस्फूर्जन्दिशः सर्वास्तलनेमिस्वनेन च।।

चापविद्युत्प्रभो घोरो रथगुल्मवलाहकः।
सनेमिघोषस्तनितः शरशब्दातिबन्धुरः।।

रोषनिर्जितजीमूतो मनोभिप्रायशीघ्रगः।
मर्मातिगो बाणधरस्तुमुलः शोणितोदकैः।।

सम्प्लावयन्दिशः सर्वा मानवैरास्तरन्महीम्।
भीमनिःस्वनितो रौद्रो दुर्योधनपुरोगमान्।।

युद्धेऽभ्यषिञ्चद्विजयो गार्ध्रपत्रैः शिलाशितैः।
गाण्डीवं धारयन्धीमान्कीदृशं वो मनस्तदा।।

इषुसम्बाधमाकाशं कुर्वन्कपिवरध्वजः।
यदायात्कथमासीत्तु तदा पार्थं समीक्षताम्।।

कच्चिद्गाण्डीवशब्देन न प्रणश्यति वै बलम्।
यद्वः सभैरवं कुर्वन्नर्जुनो भृशमन्वयात्।।

कच्चिन्नापानुदत्प्रामानिषुभिर्वो धनञ्जयः।
वातो वेगादिवाविध्यन्मेघाञ्शरगणैर्नृपान्।।

को हि गाण्डीवधन्वानं रणे सोढुं नरोऽर्हति।
यमुषश्चुत्य सेनाग्रे जनः सर्वो विदीर्यते।।

यत्सेनाः समकम्पन्त यद्वीरानस्पृशद्भयम्।
के तत्र नाजहुर्द्रोणं के क्षुद्राः प्राद्रवन्भयात्।।

के वा तत्र तनूस्त्यक्त्वा प्रतीपं मृत्युमाव्रजन्।
अमानुषाणां जेतारं युद्धेष्वपि धनञ्जयम्।।

न च वेगं सिताश्वस्य विसहिष्यन्ति मामकाः।
गाण्डीवस्य च निर्घोषं प्रावृड्‌जलदनिःस्वनम्।।

विष्वक्सेनो यस्य यन्ता यस्य योद्धा धनञ्चयः।
अशक्यः स रथो जेतुं मन्ये देवासुरैरपि।।

सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः।
मेधावी निपुणो धीमान्युधि सत्यपराक्रमः।।

आरावं विपुलं कुर्वन्व्यथयन्सर्वसैनिकान्।
यदायान्नकुलो द्रोणं के शूराः पर्यवारयन्।।

आशीविष इव क्रुद्धः सहदेवो यदाऽभ्ययात्।
कदनं करिष्यञ्शत्रूणां तेजसा दुर्जयो युधि।।

आर्यव्रतममोघेषुं हीमन्तमपराजितम्।
सहदेवं तमायान्तं के शूराः पर्यवारयन्।।

यस्तु सौवीरराजस्य प्रमथ्य महतीं चमूम्।
आदत्त महिषीं भोजां काम्यां सर्वाङ्गशोभनाम्।।

सत्यं धृतिश्च शौर्यं च ब्रह्मचर्यं च केवलम्।
सर्वाणि युयुधानेऽस्मिन्नित्यानि पुरुषर्षभे।।

बलिनं सत्यकर्माणमदीनमपराजितम्।
वासुदेवसमं युद्धे वासुदेवादनन्तरम्।।

धनञ्जयोपदेशेन श्रेष्ठमिष्वस्त्रकर्मणि।
पार्थेन सममस्त्रेषु कस्तं द्रोणादवारयत्।।

वृष्णीनां प्रवरं वीरं शूरं सर्वधनुष्मताम्।
रामेण सममस्त्रेषु यशसा विक्रमेण च।।

सत्यं धृतिर्मतिः शौर्यं ब्राह्मं चास्त्रमनुत्तमम्।
सात्वते तानि सर्वाणि त्रैलोक्यमिव केशवे।।

तमेवङ्गुणसम्पन्नं दुर्वारमपि दैवतैः।
समासाद्य महेष्वासं के शूराः पर्यवारयन्।।

पाञ्चालेषूत्तमं वीरमुत्तमाभिजनप्रियम्।
नित्यमुत्तमकर्माणमुत्तमौजसमाहवे।।

युक्तं धनञ्जयहिते ममानर्थार्थमुत्थितम्।
यमवैश्रवणादित्यमहेन्द्रवरुणोपमम्।।

महारथं समाख्यातं द्रोणायोद्यतमाहवे।
त्यजन्तं तुमुले प्राणान्के शूराः समवारयन्।।

एकोपसृत्य चेदिभ्यः पाण्डवान्यः समाश्रितः।
धृष्टकेतुं समायान्तं द्रोणं कस्तं न्यवारयत्।।

योऽवधीत्केतुमान्वीरो राजपुत्रं दुरासदम्।
अपरान्तगिरिद्वारे द्रोणात्कस्तं न्यवारयत्।।

स्त्रीम्पुसयोर्नरव्याघ्रो यः स वेद गुणागुणान्।
शिखण्डिनं याज्ञसेनिमम्लानमनसं युधि।।

देवव्रतस्य समरे हेतुं मृत्योर्महात्मनः।
द्रोणायाभिमुखं यान्तं के शूराः पर्यवारयन्।।

यस्मिन्नभ्यधिका वीरे गुणाः सर्वे धनञ्जयात्।
यस्मिन्नस्त्राणि सत्यं च ब्रह्मचर्यं च सर्वदा।।

वासुदेवसमं वीर्ये धनञ्जयसमं बले।
तेजसाऽऽदित्यसदृशं बृहस्पतिसमं मतौ।।

अभिमन्युं महात्मानं व्यात्ताननमिवान्तकम्।
द्रोणायाभिमुखं यान्तं के शूराः समवारयन्।।

तरुणस्तरुणप्रज्ञः सौभद्रः परवीरहा।
यदाभ्यधावद्वै द्रोणं तदाऽऽसीद्वो मनः कथं।।

द्रौपदेया नरव्याघ्राः समुद्रमिव सिन्धवः।
यद्रोणमाद्रवन्सङ्ख्ये के शूरास्तान्न्यवारयन्।।

एते द्वादश वर्षाणि क्रीडामुत्सृज्य बालकाः।
अस्त्रार्थमवसन्भीष्मे बिभ्रतो व्रतमुत्तमम्।।

क्षत्रञ्जयः क्षत्रदेवः क्षत्रवर्मा च मानदः।
धृष्टद्युम्नात्मजा वीराः के तान्द्रोणादवारयन्।।

शताद्विशिष्टं यं युद्धे सममन्यन्त वृष्णयः।
चेकितानं महेष्वासं कस्तं द्रोणादवारयत्।।

वार्धक्षेमिः कलिङ्गानां यः कन्यामाहरद्युधि।
अनाधृष्टिरदीनात्मा कस्तं द्रोणादवारयत्।।

भ्रातरः पञ्च कैकेया धार्मिकाः सत्यविक्रमाः।
इन्द्रगोपकसङ्काशा रक्तवर्मायुधध्वजाः।।

मातृष्वसुः सुता वीराः पाण्डवानां जयार्थिनः।
तान्द्रोणं हन्तुमायातान्के वीराः पर्यवारयन्।।

यं योधयन्तो राजानो नाजयन्वारणावते।
षण्मासानपि संरब्धा जिघांसन्तो युधां पतिं।।

धनुष्मतां वरं शूरं सत्यसन्धं महाबलम्।
द्रोणात्कस्तं नरव्याघ्रं युयुत्सुं पर्यवारयत्।।

यः पुत्रं काशिराजस्य वाराणस्यां महारथम्।
समरे स्त्रीषु गृध्यन्तं भल्लेनापाहरद्रथात्।।

धृष्टद्युम्नं महेष्वासं पार्थानां मन्त्रधारिणम्।
युक्तं दुर्योधनानर्थे सृष्टं द्रोणवधाय च।।

निर्दहन्तं रणे योधान्दारयन्तं च सर्वतः।
द्रोणाभिमुखमायान्तं के शूराः पर्यवारयन्।।

उत्सङ्ग इव सम्वृद्धं द्रुपदस्यास्त्रवित्तमम्।
शैखण्डिनं शस्त्रगुप्तं के द्रोणादवारयन्।।

य इमां पृथिवीं कृत्स्नां चर्मवत्समवेष्टयत्।
महता रथघोषेण मुख्यारिघ्नो महारथः।।

दशाश्वमेधानाजहे स्वन्नपानाप्तदक्षिणान्।
निरर्गलान्सर्वमेधान्पुत्रवत्पालयन्प्रजाः।।

विसृष्टा दक्षिणा यस्य गङ्गाजलमवारयत्।
गङ्गास्रोतसि यावत्यः सिकता अप्यशेषतः।
तावतीर्गा ददौ वीर उशीनरसुतोऽध्वरे।।

न पूर्वे नापरे चक्रुरिदं केचन मानवाः।
इतीदं चुक्रुशुर्देवाः कृते कर्मणि दुष्करे।।

पश्यामस्त्रिषु लोकेषु न तं संस्थास्नुचारिषु।
जातं चापि जनिष्यन्तं द्वितीयं चापि साम्प्रतम्।।

अन्यमौशीनराच्छेब्याद्धुरो वोढारमित्युत।
गतिं यस्य न यास्यन्ति मानुषा लोकवासिनः।।

तस्य नप्तारमायान्तं शैब्यं कः समवारयत्।
द्रोणायाभिमुखं यत्तं व्यात्ताननमिवान्तकम्।।

विराटस्य रथानीकं मत्स्यस्यामित्रघातिनः।
प्रेप्सन्तं समरे द्रोणं के वीराः पर्यवारयन्।।

सद्यो वृकोदराज्जातो महाबलपराक्रमः।
मायावी राक्षसो वीरो यस्मान्मम महद्भयम्।।

पार्थानां जयकामं तं तं पुत्राणां मम कण्टकम्।
घटोत्कचं महात्मानं कस्तं द्रोणादवारयत्।।

एते चान्ये च बहवो येषामजितं युधि।
त्यक्तारः संयुगे प्राणान्किं तेषामजितं युधि।।

येषां च पुरुषव्याघ्रः शार्ङ्गधन्वा व्यपाश्रयः।।
लोकानां गुरुरत्यर्थं लोकनाथः सनातनः।

नारायणोरणे नाथो दिव्यो दिव्यात्मकः प्रभुः।।
यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः।

तान्यहं कीर्तयिष्यामि भक्त्या स्थैर्यार्थमात्मनः।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि
द्रोणाभिषेकपर्वणि दशमोऽध्यायः।। 10 ।।