द्रोणपर्व

अध्यायः ८८

Drona Parva (Sanskrit) · Adhyaya 88
अक्षर का आकार

सञ्जय उवाच।

व्यूढेषु तव सैन्येषु समुत्क्रुष्टेषु मारिष।
ताड्यमानासु भेरीषु मृदङ्गेष्वानकेषु च।।

अनीकानां च संह्रादे वादित्राणां च निःस्वने।
प्रध्मापितेषु शङ्खेषु सन्नादे रोमहर्षणे।।

प्रगृहीतेषु शस्त्रेषु भारतेषु युयुत्सुषु।
रौद्रे मुहूर्ते सम्प्राप्ते सव्यसाची व्यदृश्यत।।

बलानां वायसानां च पुरस्तात्सव्यसाचिनः।
पिशितासृग्भुजां सङ्घाः प्रलीयन्ते सहस्रशः।।

मृगाश्च घोरसन्नादः शिवाश्चाशिवदर्शनाः।।
दक्षिणेन प्रयातानामस्माकं नेदुरध्वनि।।

`लोकक्षये महाराज यादृशास्तादृशा हि ते।
अशिवा धार्तराष्ट्राणां शिवाः पार्थस्य संयुगे'।।

सनिर्घाता ज्वलन्त्यश्च पेतुरुल्काः सहस्रशः।
चचाल च मही कृत्स्ना भये घोरे समुत्थिते।।

विष्वग्वाताः सनीहारा रूक्षाः शर्करकर्षिणः।
ववुरायाति कौन्तेये सङ्ग्रामे समुपस्थिते।।

नाकुलिश्च शतानीको धृष्टद्युम्नश्च पार्षतः।
पाण्डवानामनीकानि प्राज्ञौ तौ व्यूहतुस्तदा।।

ततो रथसहस्रेण द्विरदानां शतेन च।
त्रिभिरश्वसहस्रैश्च पदातीनां शतैः शतैः।।

अध्यर्धमात्रे धनुषां सहस्रे तनयस्तव।
अग्रतः सर्वसैन्यानां स्थित्वा दुर्मर्षणोऽब्रवीत्।।

अद्य गाण्डीवधन्वानं तपन्तं युद्धदुर्मदम्।
अहमावारयिष्यामि वेलेव मकरालयम्।।

अद्य पश्यन्तु सङ्ग्रामे धनञ्जयममर्षणम्।
विषक्तं मयि दुर्धर्षं भिन्नं कुम्भमिवाश्मनि।।

तिष्ठध्वं रथिनो यूयं सङ्ग्राममभिकाङ्क्षिणः।
युध्यामि संहतानेतान्यशो मानं च वर्धयन्।।

एवं ब्रुवन्महाराज महात्मा स महीपतिः।
महेष्वासैर्वृतो राजन्महेष्वासो व्यवस्थितः।।

ततोऽर्जुनो महाराज महात्मा महतां पतिः।
महारथसमाख्यातो महेष्वासो व्यवस्थितः।।

कक्षाग्निरिव दुःस्पर्शः सवज्र इव वासवः।
दण्डपाणिरिवासह्यो मृत्युः कालेन चोदितः।।

शूलपाणिरिवाक्षोभ्यो वरुणः पाशवानिव।
युगान्ताग्निरिवार्चिष्मान्दिधक्षुः स्थास्नुजङ्गमम्।।

क्रोधामर्षबलोद्धूतो निवातकवचान्तकः।
युद्धे जेता स्थितः सत्ये पारयिष्यन्महाव्रतम्।।

आमुक्तकवचः खङ्गी जाम्बूनदकिरीटभृत्।
शुभ्रमाल्याम्बरधरः स्वङ्गदश्चारुकुण्‍डलः।।

रथप्रवरमास्थाय नरो नारायणानुगः।
विधुन्वन्गाण्डिवं सङ्ख्ये बभौ सूर्य इवोदितः।।

अग्रानीकस्य सोऽध्यर्ध इषुपाते धनञ्जयः।
व्यवस्थाप्य रथं राजञ्शङ्खं दध्मौ प्रतापवान्।।

अथ कृष्णोऽप्यसम्भ्रान्तः पार्थेन सह मारिष।
प्राध्मापयत्पाञ्चजन्यं शङ्खप्रवरमोजसा।।

तयोः शङ्खप्रणादेन तव सैन्ये विशाम्पते।
आसन्संहृष्टरोमाणः कम्पिता गतचेतसः।।

यथा त्रस्यन्ति भूतानि सर्वाण्यशनिनिःस्वनात्।
तथा शङ्खप्रणादेन वित्रेसुस्तव सैनिकाः।।

प्रसुस्रुवुः शकृन्मूत्रं वाहनानि च सर्वशः।
एवं सवाहनं सर्वमाविग्नमभवद्बलम्।।

सीदन्ति स्म नरा राजञ्शङ्खशब्देन मारिष।
विसंज्ञाश्चाभवन्केचित्केचिद्राजन्वितत्रसुः।।

ततः कपिर्महानादं सहभूतैर्ध्वजालयैः।
अकरोद्व्यादितास्यश्च भीषयंस्तव सैनिकान्।।

ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह।
पुनरेवाभ्यहन्यन्त तव सैन्यप्रहर्षणाः।।

नानावादित्रसंहादैः क्ष्वेडितास्फोटिताकुलैः।
सिंहनादैः समुत्क्रुष्टैः समाधूतैर्महारथैः।।

तस्मिंस्तु तुमुले शब्दे भीरूणां भयवर्धने।
अतीव हृष्टो दाशार्हमब्रवीत्पाकशासनिः।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे अष्टांशीतितमोऽध्यायः।। 88 ।।