द्रोणपर्व
अध्यायः ८७
सञ्जय उवाच।
तस्यां निशायां व्युष्टायां द्रोणः शस्त्रभृतां वरः।
स्वान्यनीकानि सर्वाणि प्राक्रामद्व्यूहितुं ततः।।
शूराणां गर्जतां राजन्सङ्क्रुद्धानाममर्षिणाम्।
श्रूयन्ते स्म गिरश्चित्राः परस्परवधैषिणाम्।।
विष्फार्य च धनूंष्यन्ये ज्याः परे परिमृज्य च।
विनिःश्वसन्तः प्राक्रोशन्क्वेदानीं स धनञ्जयः।।
विकोशान्सुत्सरूनन्ये कृतधारान्समाहितान्।
पीतानाकाशसङ्काशानसीन्केचिच्च चिक्षिपुः।।
चरन्तस्त्वसिमार्गांश्च धनुर्मार्गांश्च शिक्षिताः।
सङ्ग्राममनसः शूरा दृश्यन्ते स्म सहस्रशः।।
सघण्टाश्चन्दनादिग्धाः स्वर्णवज्रविभूषिताः।
समुत्क्षिप्य गदाश्चान्ये पर्यपृच्छन्त पाण्डवम्।
अन्ये बलमदोन्मत्ताः परिघैर्बाहुशालिनः।
चक्रुः सम्बाधमाकाशमुच्छ्रितेन्द्रध्वजोपमैः।।
नानाप्रहरणैश्चान्ये विचित्रस्रगलङ्कृताः।
सङ्ग्राममनसः शूरास्तत्रतत्र व्यवस्थिताः।।
क्वार्जुनः क्व स गोविन्दः क्व च मानी वृकोदरः।
क्व च ते सुहृदस्तेषामाह्वयन्ते रणे तदा।।
ततः शङ्खमुपाध्माय त्वरयन्वाजिनः स्वयम्।
इतस्ततस्तान्रचयन्द्रोणश्चरति वेगितः।।
तेष्वनीकेषु सर्वेषु स्थितेष्वाहवनन्दिषु।
भारद्वाजो महाराज जयद्रथमथाब्रवीत्।।
त्वं चैव सौमदत्तिश्च कर्णश्चैव महारथः।
अश्वत्थामा च शल्यश्च वृषसेनः कृपस्तथा।।
शतं चाश्वसहस्राणां रथानामयुतानि षट्।
द्विरदानां प्रभिन्नानां सहस्राणि चतुर्दश।।
पदातीनां सहस्राणि दंशितान्येकविंशतिः।
गव्यूतिषु त्रिमात्रासु मामनासाद्य तिष्ठत।।
तत्रस्थं त्वां न संसोढुं शक्ता देवाः सवासवाः।
किं पुनः पाण्डवाः सर्वे समाश्वसिहि सैन्धव।।
सञ्जय उवाच।
एवमुक्तः समाश्वस्तः सिन्धुराजो जयद्रथः।
सम्प्रायात्सहगान्धारैर्वृतस्तैश्च महारथैः।
वर्मिभिः सादिभिर्यत्तैः प्रासपाणिहयस्थितैः।।
चामरापीडिनः सर्वे जाम्बूनदविभूषिताः।
जयद्रथस्य राजेन्द्र हयाः साधुप्रवाहिनः।।
ते चैकसप्तसाहस्रास्त्रिसाहस्राश्च सैन्धवाः।।
मत्तानां सुविरूढानां हस्त्यारोहैर्विशारदैः।
हस्तिनां भीमरूपाणां वर्मिणां रौद्रकर्मिणाम्।।
अध्यर्धेन सहस्रेण पुत्रो दुर्मर्षणस्तव।
अग्रतः सर्वसैन्यानां योत्स्यमानो व्यवस्थितः।।
ततो दुःशासनश्चैव विकर्णश्च तवात्मजौ।
सिन्धुराजार्थसिद्ध्यर्थमग्रानीके व्यवस्थितौ।।
दीर्घो द्वादशगव्यूतिः पश्चार्धे पञ्चविस्तृतः।
व्यूहस्तु चक्रशकटो भारद्वाजेन निर्मितः।।
नानानृपतिभिर्वीरैस्तत्रतत्र व्यवस्थितैः।
रथाश्वगजपत्त्योघैर्द्रोणेन विहितः स्वयम्।।
पश्चार्धे तस्य पद्मस्तु गर्भव्यूहः पुनः कृतः।
सूचीपद्मस्य गर्भस्थो गूढो व्यूहः कृतः पुनः।।
एवमेतं महाव्यूहं व्यूह्य द्रोणो व्यवस्थितः।
सूचीमुखे महेष्वासः कृतवर्मा व्यवस्थितः।।
अनन्तरं च काम्भोजो जलसन्धश्च मारिष।
दुर्योधनश्च कर्णश्च तदनन्तरमेव च।।
ततः शतसहस्राणि योदानानमनिवर्तिनाम्।
व्यवस्थितानि सर्वाणि शकटे मुखरक्षिणाम्।।
तेषां च पृष्ठतो राजा बलेन महता वृतः।
जयद्रथस्ततो राजा सूचीपार्श्वे व्यवस्थितः।।
शकटस्य तु राजेन्द्र भारद्वाजो मुखे स्थितः।
नात्र तस्याभवद्भोदो जुगोपैनं ततः स्वयम्।।
श्वेतवर्माम्बरोष्णीषो व्यूढोरस्को महाभुजः।
धनुर्विस्फारयन्द्रोणस्तस्थौ क्रुद्ध इवान्तकः।
`तस्य सैन्यस्य सर्वस्य नेता गोप्ता च वीर्यवान्'।।
ताकिनं शोणहयं वेदीकृष्णाजिनध्वजम्।
द्रोणस्य रथमालोक्य प्रहृष्टाः कुरवोऽभवन्।।
सिद्धचारणसङ्घानां विस्मयः सुमहानभूत्।
द्रोणेन विहितं दृष्ट्वा व्यूहं क्षुब्धार्णवोपमम्।।
सशैलसागरवनां नानाजनपदाकुलाम्।
ग्रसेद्व्यूहः क्षितिं सर्वामिति भूतानि मेनिरे।।
बहुरथमनुजाश्वपत्तिनागं
प्रतिभयनिःस्वनमद्भुतानुरूपम्।
अहितहृदयभेदनं महद्वै
शकटमवेक्ष्य कृतं ननन्द राजा।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिसयुद्धे सप्ताशीतितमोऽध्यायः।। 87 ।।