द्रोणपर्व
अध्यायः ७
द्रोण उवाच।
वेदं षडङ्गं वेदाहमर्थविद्यां च मानवीम्।
त्रैय्यम्बकमथेष्वस्त्रं शस्त्राणि विविधानि च।।
ये चाप्युक्ता मयि गुणा भवद्भिर्जयकाङ्क्षिभिः।
चिकीर्षुस्तानहं सर्वान्योधयिष्यामि पाण्डवान्।।
पार्षतं तु रणे राजन्न हनिष्ये कथञ्चन।
स हि सृष्टो वधार्थाय ममैव पुरुषर्षभः।।
योधयिष्यामि सैन्यानि नाशयन्सर्वसोमकान्।
न च मां पाण्डवा युद्धे योधयिष्यन्ति हर्षिताः।।
सञ्जय उवाच।
स एवमभ्यनुज्ञातश्चक्रे सेनापतिं ततः।
द्रोणं तव सुतो राजन्विधिदृष्टेन कर्मणा।।
अथाभिषिषिचुर्द्रोणं दुर्योधनमुखा नृपाः।
`स्वस्तिवादरवैश्चान्यैः श्लक्ष्णैश्चान्यैर्मनोरमैः'।
सैनापत्ये यथा स्कन्दं पुरा शक्रमुखाः सुराः।।
ततो वादित्रघोषेण शङ्खानां च महास्वनैः।
प्रादुरासीत्कृते द्रोणे हर्षः सेनापतौ तदा।।
ततः पुण्याहघोषेण साशीर्वादस्वनेन च।
संस्तवैर्गीतशब्दैश्च सूतमागधबन्दिनाम्।।
जयशब्दैर्द्विजाग्र्याणां सुभगानर्तितैस्तथा।
सत्कृत्य विधिना द्रोणं मेनिरे पाण्डवाञ्जितान्।।
सञ्जय उवाच।
सैनापत्यं तु संप्राप्य भारद्वाजो महारथः।
युयुत्सुर्व्यूह्य सैन्यानि प्रायात्तव सुतैः सह।।
सैन्धवश्च कलिङ्गश्च विकर्णश्च तवात्मजः।
दक्षिणं पार्श्वमास्थाय समतिष्ठन्त दंशिताः।।
प्रपक्षः शकुनिस्तेषां प्रवरैर्हयसादिभिः।
ययौ गान्धारकैः सार्धं विमलप्रासयोधिभिः।।
कृपश्च कृतवर्मा च चित्रसेनो विविंशतिः।
दुःशासनमुखा यत्ताः सव्यं पक्षमपालयन्।।
तेषां प्रपक्षाः काम्भोजाः सुदक्षिणपुस्सराः।
ययुरश्चैर्महावेगैः शकाश्च यवनैः सह।।
मद्रास्त्रिगर्ताः साम्बष्ठाः प्रतीच्योदीच्यमालवाः।
शिबयः शूरसेनाश्च शूद्राश्च मलदैः सह।।
सौवीराः कितवाः प्राच्या दाक्षिणात्याश्च सर्वशः।
नवात्मजं पुरस्कृत्य सूतपुत्रस्य पृष्ठतः।।
हर्षयन्तः स्वसैन्यानि ययुस्तव सुतैः सह।
प्रवरः सर्वयोधानां बलेषु बलमादधम्।।
ययौ वैकर्तनः कर्णः प्रमुखे सर्वधन्विनाम्।
तस्य दीप्तो महाकायः स्वान्यनीकानिहर्षयन्।।
हस्तिकक्ष्यो गहाकेतुर्बभौ सूर्यसमद्युतिः।
न भीष्मव्यसनं कश्चिदृष्ट्वा कर्णममन्यत।।
विशोकाश्चाभवन्सर्वे राजानः कुरुभिः सह।
हृष्टाश्च बहवो योधास्तत्राजल्पन्त वेगतः।।
न हि कर्णं रणे दृष्ट्वा युधि स्थास्यन्ति पाण्डवाः।
कर्णो हि समरे शक्तो जेतुं देवान्सवासवान्।।
किमु पाण्डुसुतान्युद्धे हीनवीर्यपराक्रमान्।
भीष्मेण तु रणे पार्थाः पालिता बाहुशालिना।।
तांस्तु कर्णः शरैस्तीक्ष्णैर्नाशयिष्यति संयुगे।
एवं ब्रुवन्तस्तेऽन्योन्यं हृष्टरूपा विशांपते।।
राधेयं पूजयन्तश्च प्रशंसन्तश्च निर्ययुः।
अस्माकं शकटव्यूहों द्रोणेन विहितोऽभवत्।।
परेषां क्रौञ्च एवासीद्व्यूहो राजन्महात्मनाम्।
प्रीयमाणेन विहितो धर्मराजेन भारत।।
व्यूहप्रमुखतस्तेषां तस्थतुः पुरुषर्षभौ।
वानरध्वजमुच्छ्रित्य विष्वक्सेनधनंजयौ।।
ककुदं सर्वसैन्यानां धाम सर्वधनुष्मताम्।
आदित्यपथगः केतुः पार्थस्यामिततेजसः।।
दीपयामास तत्सैन्यं पाण्डवस्य महात्मनः।
यथा प्रज्वलितः सूर्यो युगान्ते वै वसुंधराम्।।
दीप्यन्दृश्येत हि तथा केतुः सर्वत्र धीमतः।
योधानामर्जुनः श्रेष्ठो गाण्डीवं धनुषां वरम्।।
वासुदेवश्च भूतानां चक्राणां च सुदर्शनम्।
चत्वार्येतानि तेजाञ्सि वहञ्श्वेतहयो रथः।।
परेषामग्रतस्तस्थौ कालचक्रमिवोद्यतम्।
एवं तौ सुमहात्मानौ बलसेनाग्रगावुभौ।।
तावकानां मुखे कर्णः परेषां च धनंजयः।
ततो जयाभिसंरब्धौ परस्परवधैषिणौ।।
अवेक्षेतां तदान्योन्यं समरे कर्णपाण्डवौ।
ततः प्रयाते सहसा भारद्वाजे महारथे।।
सिंहनादेन घोरेण वसुधा समकम्पत।
ततस्तुमुलमाकाशमावृणोत्सदिवाकरम्।।
वातोद्भूतं रजस्तीव्रं कौशेयनिकरोपमम्।
ववर्ष द्यौरनभ्राऽपि मांसास्थिरुधिराण्युत।।
गृध्राः श्येना बकाः कङ्का वायसाश्च सहस्रशः।
उपर्युपरि सेनां ते तदा पर्यपतन्नृप।।
गोमायवश्च प्राक्रोशन्भयदान्दारुणान्रवान्।
अकार्षुरपसव्यं च बहुशः पृतनां तव।।
चिखादिषन्तो मांसानि पिपासन्तश्च शोणितम्।
अपतद्दीप्यमाना च सनिर्घाता सकम्पना।।
उल्का ज्वलन्ती सङ्ग्रामे पुच्छेनावृत्य सर्वशः।
परिवेषो महांश्चापि सविद्युत्स्तनयित्नुमान्।।
भास्करस्याभवद्राजन्प्रयाते वाहिनीपतौ।
एते चान्ये च बहवः प्रादुरासन्सुदारुणाः।
उत्पाता युधि वीराणां जीवितक्षयकारिणः।।
ततः प्रववृते युद्धं परस्परवधैषिणाम्।
कुरुपाण्डवसैन्यानां शब्देनापूरयज्जगत्।।
ते त्वन्योन्यं सुसंरब्धाः पाण्डवाः कौरवैः सह।
अभ्यघ्नन्निशितैः शस्त्रैर्जयगृद्धाः प्रहारिणः।।
स पाण्डवानां महतीं महेष्वासो महाद्युतिः।
वेगेनाभ्यद्रवत्सेनां किरञ्शरशतैः शितैः।।
द्रोणमभ्युद्यतं दृष्ट्वा पाण्डवाः सहसृञ्जयैः।
प्रत्यगृह्णंस्तदा राजञ्छरवर्षैः पृथक्पृथक्।।
विक्षोभ्यमाणआ द्रोणेन भिद्यमाना महाचमूः।
व्यशीर्यत सपाञ्चाला वातेनेव वलाहकाः।।
बहूनीह विकुर्वाणो दिव्यान्यस्त्राणि संयुगे।
अपीडयत्क्षणेनैव द्रोणः पाण्डवसृञ्जयान्।।
ते वध्यमाना द्रोणेन वासवेनेव दानवाः।
पाञ्चालाः समकम्पन्त धृष्टद्युम्नपुरोगमाः।।
ततो दिव्यास्त्रविच्छूरो याज्ञसेनिर्महारथः।
अभिनच्छरवर्षेण द्रोणानीकमनेकधा।।
द्रोणस्य शरवर्षाणि शरवर्षेण पार्षतः।
सन्निवार्य ततः सर्वान्कुरूनप्यवधीद्बली।।
संयम्य तु ततो द्रोणः समवस्थाप्य चाहवे।
स्वमनीकं महेष्वासः पार्षतं समुपाद्रवत्।।
स बाणवर्षं सुमहदसृजत्पार्षतं प्रति।
मघवान्समभिक्रुद्धः सहसा दानवानिव।।
ते कम्प्यमाना द्रोणेन बाणैः पाण्डवसृञ्जयाः।
पुनःपुनरभज्यन्त सिंहेनैवेतरे मृगाः।।
तथा पर्यपतद्रोणः पाण्डवानां बले बली।
अलातचक्रवद्राजंस्तदद्भुतमिवाभवत्।।
खचरनगरकल्पं कल्पितं शास्त्रदृष्ट्या चलदनिलपताकं ह्लादनं वल्गिताश्वम्।
स्फटिकविमलकेतुं त्रासनं शात्रवाणां रथवरमधिरूढः सञ्जहारारिसेनाम्।।
।। इति श्रीमन्महाभारते
द्रोणपर्वणि द्रोणाभिषेकपर्वणि