द्रोणपर्व
अध्यायः ७४
सञ्जय उवाच।
श्रुत्वा तु तं महाशब्दं पाण्डूनां पुत्रगृद्धिनाम्।
चारैः प्रवेदितस्त्रस्तः समुत्थाय जयद्रथः।।
शोकसम्मूढहृदयो दुःखेनाभ्याहतो भृशम्।
मज्जमान इवागाधे विपुले शोकसागरे।
जगाम समितिं राज्ञां सैन्धवो विमृशन्बहु।।
स तेषां नरदेवानां सकाशे पर्यदेवयत्।
अभिमन्युपितुर्भीतः सव्रीडो वाक्यमब्रवीत्।।
योऽसौ पाण्डोः किल क्षेत्रे जातः शक्रेण कामिना।
स निनीषति दुर्बुद्धिर्मां किलैकं यमक्षयम्।।
स्वस्ति वोऽस्तु गमिष्यामि स्वगृहं जीवितेप्सया।
अथवास्त्रप्रतिबलास्त्रात मां क्षत्रियर्षभाः।
पार्थेन प्रार्थितं वीरास्ते सन्दत्त ममाभयम्।।
द्रोणदुर्योधनकृपाः कर्णमद्रेशबाह्लिकाः।
दुःशासनादयः शक्तास्त्रातुमप्यन्तकार्दितम्।।
किमङ्ग पुनरेकेन फल्गुनेन जिघांसता।
न त्रास्यन्ति भवन्तो मां समस्ताः पतयः क्षितेः।।
प्रतिज्ञां पाण्डवेयानां श्रुत्वा मम महद्भयम्।
सीदन्ति मम गात्राणि मुमूर्षोरिव पार्थिवाः।।
वधो नूनं प्रतिज्ञातो मम गाण्डीवधन्वना।
तथाहि हृष्टाः क्रोशन्ति शोककालेऽपि पाण्डवाः।।
तन्न देवा न गन्धर्वा नासुरोरगराक्षसाः।
उत्सहन्तेऽन्यथा कर्तुं कुत एव नराधिपाः।।
तस्मान्मामनुजानीत भद्रं वोऽस्तु नरर्षभाः।
अदर्शनं गमिष्यामि न मां द्रक्ष्यन्ति पाण्डवाः।।
सञ्जय उवाच।
एवं विलपमानं तं भयाद्व्याकुलचेतसम्।
आत्मकार्यगरीयस्त्वाद्राजा दुर्योधनोऽब्रवीत्।।
न भेतव्यं नरव्याघ्र को हि त्वां पुरुषर्षभ।
मध्ये क्षत्रियवीराणां तिष्ठन्तं प्रार्थयेद्युधि।।
`एतेषां नरदेवानां मत्तमातङ्गगामिनाम्।
सङ्घातमुपयातानामपि विभ्येत्पुरन्दरः'।।
अहं वैकर्तनः कर्णश्चित्रसेनो विविंशतिः।
भूरिश्रवाः शलः शल्यो वृषसेनो दुरासदः।।
पुरुमित्रो जयो भोजः काम्भोजश्च सुदक्षिणः।
सत्यव्रतो महाबाहुर्विकर्णो दुर्मुखश्च ह।।
दुःशासनः सुबाहुश्च कालिङ्गश्चाप्युदायुधः।
विन्दानुविन्दावावन्त्यौ द्रोणो द्रौणिश्च सौबलः।।
`मायावी बलवाञ्छूरो राक्षसश्चाप्यलम्बुसः'।
एते चान्ये च बहवो नानाजनपदेश्वराः।
ससैन्यास्त्वाभिगोप्स्यन्ति व्येतु ते मानसो ज्वरः।।
त्वं चापि रथिनां श्रेष्ठः स्वयं शूरोऽमितद्युते।
स कथं पाण्डवेयेभ्यो भयं पश्यसि वैन्धव।।
अक्षौहिण्यो महावीर्य मदीयास्तव रक्षणे।
यत्ता योत्स्यन्ति माभैस्त्वं सैन्धव व्येतु ते भयम्।।
सञ्जय उवाच।
एवमाश्वासितो राजन्पुत्रेण तव सैन्धवः।
दुर्योधनेन सहितो द्रोणं रात्रावुपागमत्।।
उपसङ्गृह्य चरणौ द्रोणाय स विशाम्पतिः।
उपोपविश्य प्रणतः पर्यपृच्छदिदं वचः।।
निमित्ते दूरपातित्वे लघुत्वे दृढवेधने।
मम ब्रवीतु भगवान्विशेषं फल्गुनस्य च।।
विद्याविशेषमिच्छामि ज्ञातुमाचार्य तत्त्वतः।
अर्जुनस्यात्मनश्चैव याथातथ्यं प्रचक्ष्व मे।।
द्रोण उवाच।
सममाचार्यकं तात तव चैवार्जुनस्य च।
योगाद्दुःखोषितत्वाच्च तस्मात्त्वत्तोऽधिकोऽर्जुनः।।
न तु ते युधि सन्त्रासः कार्यः पार्थात्कथञ्चन।
अहं हि रक्षिता तात भयात्त्वां नात्र संशयः।।
न हि मद्बाहुगुप्तस्य प्रभवन्त्यमरा अपि।
व्यूहयिष्यामि तं व्यूहं यं पार्थो न तरिष्यति।।
तस्माद्युध्यस्व माभैस्त्वं स्वधर्ममनुपालय।
पितृपैतामहं मार्गमनुयाहि महारथ।।
अधीता विधिवद्वेदा अग्नयः सुहुतास्त्वया।
इष्टं च बहुभिर्यज्ञैर्न ते मृत्युर्भयङ्करः।।
दुर्लभं मानुषैर्मन्दैर्महाभाग्यमवाप्य तु।
भुजवीर्यार्जिताँल्लोकान्दिव्यान्प्राप्स्यस्यनुत्तमान्।।
कुरवः पाण्डवाश्चैव वृष्णयोऽन्ये च मानवाः।
अहं च सहपुत्रेण अध्रुवा इति चिन्त्यताम्।।
पर्यायेण वयं सर्वे कालेन बलिना हताः।
परलोकं गमिष्यामः स्वैःस्वैः कर्मभिरन्विताः।।
तपस्तप्त्वा तु याँल्लोकान्प्राप्नुवन्ति तपस्विनः।
क्षत्रधर्माश्रिताः वीराः क्षत्रियाः प्राप्नुवन्ति तान्।।
एवमाश्वासितो राजा भारद्वाजेन सैन्धवः।
अपानुदद्भयं पार्थाद्युद्धाय च मनो दधे।।
ततः प्रहर्षः सैन्यानां तस्य चासीद्विशाम्पते।
वादित्राणां ध्वनिश्चोग्रः सिंहनादरवैः सह।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि
प्रतिज्ञापर्वणि चतुःसप्ततितमोऽध्यायः।। 74 ।।