द्रोणपर्व
अध्यायः ७५
सञ्जय उवाच।
प्रतिज्ञाते तु पार्थेन सिन्धुराजवधे तदा।
वासुदेवो महाबाहुर्धनञ्जयमभाषत।।
भ्रातॄणां मतमज्ञाय त्वया वाचा प्रतिश्रुतम्।
सैन्धवं चास्मि हन्तेति तत्साहसमिदं कृतम्।।
असम्मन्त्र्य मया सार्धमतिभारोऽयमुद्यतः।
कथं तु सर्वलोकस्य नावहास्या भवेमहि।।
धार्तराष्ट्रस्य शिबिरे ये तु प्रणिहिताश्चराः।
त इमे शीघ्रमागम्य प्रवृत्तिं वेदयन्ति नः।।
त्वया वै सम्प्रतिज्ञाते सिन्धुराजवधे प्रभो।
सिंहनादः सवादित्रः सुमहानिह तैः श्रुतः।।
तेन शब्देन वित्रस्ता धार्तराष्ट्राः ससैन्धवाः।
नाकस्मात्सिंहनादोऽयमिति मत्वा व्यवस्थिताः।।
सुमहाञ्शब्दसम्पातः कौरवाणां महाभुज।
आसीन्नागाश्वपत्तीनां रथघोषश्च भैरवः।।
अभिमन्योर्वधं श्रुत्वा ध्रुवमार्तो धनञ्जयः।
रात्रौ निर्यास्यति क्रोधातिति मत्त्वा व्यवस्थिताः।।
तैश्चारेभ्य इयं कृत्स्ना श्रुता सत्यवतस्तव।
प्रतिज्ञा सिन्धुराजस्य वधे राजीवलोचन।।
ततो विमनसः सर्वे त्रस्ताः क्षुद्रमृगा इव।
आसन्सुयोधनामात्याः स च राजा जयद्रथः।।
अथोत्थाय सहामात्यैर्दीनः स्वशिविरात्किल।
अयात्सौवीरसिन्धूनामीश्वरो राजसंसदम्।।
स मन्त्रकाले संमन्त्र्य सर्वां नैश्रेयसीं क्रियाम्।
सुयोधनमिदं वाक्यमब्रवीद्राजसंसदि।।
मामसौ पुत्रहन्तेति श्वोऽभियाता धनञ्जयः।
प्रतिज्ञातो हि सेनाया मध्ये तेन वधो मम।।
तां न देवा न गन्धर्वा नासुरोरगराक्षसाः।
उत्सहन्तेऽन्यथा कर्तुं प्रतिज्ञां सव्यसाचिनः।।
ते मां रक्षत सङ्ग्रामे मा वो मूर्ध्नि धनञ्जयः।
पदं कृत्वाऽऽप्नुयाल्लक्ष्यं युक्तं प्रतिविधीयताम्।।
अथ रक्षा न मे सम्यक्क्रियते कुरुनन्दन।
अनुजानीहि मां राजन्गमिष्यामि गृहान्प्रति।।
एवमुक्तस्त्ववाक्शीर्षो विमनाः ससुयोधनः।
श्रुत्वा तं समयं तस्य ध्यानमेवान्वपद्यत।।
तमार्तमभिसम्प्रेक्ष्य राजा किल स सैन्धवः।
मृदु चात्महितं चैव सापेक्षमिदमुक्तवान्।।
नेह पश्यामि भवतां तथावीर्यं धनुर्धरम्।
योऽर्जुनस्यास्त्रमस्त्रेण प्रतिहन्यान्महाहवे।।
वासुदेवसहायस्य गाण्डीवं धुन्वतो धनुः।
कोऽर्जुनस्याग्रतस्तिष्ठेत्साक्षादपि शतक्रतुः।।
महेश्वरोऽपि पार्थेन श्रूयते योधिनः पुरा।
पदातिना महावीर्यो गिरौ हिमवति प्रभुः।।
दानवानां सहस्राणि हिरण्यपुरवासिनाम्।
जघानैकरथेनैव देवराजप्रचोदितः।।
समायुक्तो हि कौन्तेयो बासुदेवेन धीमता।
सामरानपि लोकांस्त्रीन्हन्यादिति मतिर्मम।।
सोऽहमिच्छाम्यनुज्ञातुं रक्षितुं वा महात्मना।
द्रोणेन सहपुत्रेण वीरेण यदि मन्यसे।।
श्रीभगवानुवाच।
स राज्ञा स्वयमाचार्यो भृशमत्रार्थितोऽर्जुन।
संविधानं च विहितं रथाश्च किल सज्जिताः।।
कर्णो भूरिश्रवा द्रौणिर्वृषसेनश्च दुर्जयः।
कृपश्च मद्रराजश्च षडेतेऽस्य पुरोगमाः।।
शकटः पद्मकश्चार्धो व्यूहो द्रोणेन निर्मितः।
पद्मकर्णिकमध्यस्थः सूची पार्श्वे जयद्रथः।।
स्थास्यते रक्षिते वीरैः सिन्धुराट् स सुदुर्मदः।
धनुष्यस्त्रे च वीर्ये च प्राणे चैव तथौरसे।।
अविषह्यतमा ह्येते निश्चिताः पार्थ षड्रथाः।
एतानजित्वा सगणान्नैव प्राप्यो जयद्रथः।।
तेषामेकैकशो वीर्यं षण्णां त्वमनुचिन्तय।
सहिता हि नरव्याघ्र न शक्या जेतुमञ्जसा।।
भूयस्तु मन्त्रयिष्यामि नीतिमात्महिताय वै।
मन्त्रज्ञैः सचिवैः सार्धं सुहृद्भिः कार्यसिद्धये।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि
प्रतिज्ञापर्वणि पञ्चसप्ततितमोऽध्यायः।। 75 ।।