द्रोणपर्व

अध्यायः ७३

Drona Parva (Sanskrit) · Adhyaya 73
अक्षर का आकार

युधिष्ठिर उवाच।

त्वयि याते महाबाहो संशप्तकबलं प्रति।
प्रयत्नमकरोत्तीव्रमाचार्यो प्रहणे मम।।

व्यूढानीकं ततो द्रोणं यतमानं महामृधे।
प्रतिव्यूह्य सहानीकाः प्रत्यरुध्म वयं बलात्।।

स वार्यमाणो रथिभिर्मयि चापि सुरक्षिते।
अस्मानभिजगामाशु पीडयन्निशितैः शरैः।।

ते पीड्यमाना द्रोणेन द्रोणानीकं न शक्नुमः।
प्रतिवीक्षितुमप्याजौ भेत्तुं तत्कुत एव तु।।

ततस्तमप्रतिरथमहं सौभद्रमब्रवम्।
द्रोणानीकमिदं भिन्द्धि द्वारं सञ्जनयस्व नः।।

स तथा चोदितोऽस्माभिः सदश्व इव वीर्यवान्।
असह्यमपि तं भारं वोढुमेवोपचक्रमे।।

स तवास्त्रोपदेशेन वीर्येण च समन्वितः।
प्राविशत्तद्बलं बालः सुपर्ण इव सागरम्।।

तेऽनुयाता वयं वीरं सात्वतीपुत्रमाहवे।
प्रवेष्टुकामास्तेनैव येन स प्राविशच्चमूम्।।

ततः सैन्धवको राजा क्षुद्रस्तात जयद्रथः।
वरदानेन रुद्रस्य सर्वान्नः समवारयत्।।

ततो द्रोणः कृपः कर्णो द्रौणिः कौसल्य एव च।
कृतवर्मा च सौभद्रं षड्रथाः पर्यवारयन्।।

परिवार्य तु तैः सर्वैर्युधि बालो महारथैः।
यतमानः परं शक्त्या बहुभिर्विरथीकृतः।।

ततो दौःशासनिः क्षिप्रं तथा तैर्विरथीकृतम्।
`संशयं परमं प्राप्तं पदातिनमवस्थितम्।
गदाहस्तोऽभ्ययात्तूर्णं जिघांसुरपराजितम्।।

गदिनं त्वथ तं दृष्ट्वा वासवस्यात्मजात्मजः।
स जग्राह गदां वीरो गदायुद्धविशारदः।।

गदामण्डलमार्गस्थौ सर्वक्षत्रस्य पश्यतः।
तौ सम्प्रजग्मतुर्वीरावन्योन्यस्यान्तरैषणौ।।

तावन्योन्यं गदाग्राभ्यां ताडितौ युद्धदुर्मदौ।
इन्द्रध्वजाविवोत्सृष्टौ गतसत्वौ महींगतौ।।

दौःशासनिरथोत्थाय कुरूणां कीर्तिवर्धनः।
उत्तिष्ठमानं सौभद्रं गदया मूर्ध्न्यताडयत्।।

गदावेगेन महता व्यायामेन च मोहितः।
विमना न्यपतद्भूमौ सौभद्रः परवीरहा।।

स तु हत्वा सहस्राणि द्विपाश्वरथपत्तिनाम्'।
राजपुत्रशतं चाग्र्यं वीरांश्चालक्षितान्बहून्।।

बृहद्बलं च राजानं स्वर्गेण समयोजयत्।
`गतः सुकृतिनां लोकान्ये च स्वर्गजितां शुभाः।।

अदीनस्त्रासयञ्छत्रून्नन्दयित्वा च बान्धवान्।
असकृन्नाम विश्राव्य पितॄणां मातुलस्य च'।।

वीरो दिष्टान्तमापन्नः शोचयन्वान्धवान्बहून्।
`ततः स्म शोकसन्तप्ता भवताऽद्य समेयुषः'।।

एतावदेव निर्वृत्तमस्माकं शोकवर्धनम्।
स चैवं पुरुषव्याघ्रः स्वर्गलोकमवाप्तवान्।।

सञ्जय उवाच।

ततोऽर्जुनो वचः श्रुत्वा धर्मराजेन भाषितम्।
हा पुत्र इति निःश्वस्य व्यथितो न्यपतद्भुवि।।

विषण्णवदनाः सर्वे परिवार्य धनञ्जयम्।
नेत्रैरनिमिषैर्दीनाः प्रत्यवैक्षन्परस्परम्।।

प्रतिलभ्य ततः संज्ञां वासविः क्रोधमूर्च्छितः।
कम्पमानो ज्वरेणेव निःश्वसंश्च मुहुर्मुहुः।।

पाणिं पाणौ विनिष्पिष्य दन्तान्कटकटाय्य च।
`त्रिशिखां भ्रुकुटीं कृत्वा क्रोधसंरक्तलोचनः'।
उन्मत्त इव विप्रेक्षन्निदं वचनमब्रवीत्।।

अर्जुन उवाच।

सत्यं वः प्रतिजानामि श्वोऽस्मि हन्ताऽजयद्रथम्।
न चेद्वधभयाद्भीतो धार्तराष्ट्रान्प्रहास्यति।।

न चास्माञ्शरणं गच्छेत्कृष्णं वा पुरुषोत्तमम्।
भवन्तं वा महाराज श्वोऽस्मि हन्ता जयद्रथम्।।

धार्तराष्ट्रप्रियकरं मयि विस्मृतसौहृदम्।
पापं बालवधे हेतुं श्वोऽस्मि हन्ता जयद्रथम्।।

रक्षमाणाश्च तं सङ्ख्ये ये मां योत्स्यन्ति केचन।
अपि द्रोणकृपौ राजञ्छादयिष्यामि ताञ्छरैः।।

यद्येतदेवं सङ्ग्रामे न कुर्यां पुरुषर्षभाः।
मा स्म पुण्यकृतां लोकान्प्राप्नुयां शूरसम्मतान्।।

ये लोका मातृहन्तॄणां ये चापि पितृघातिनाम्।
गुरुदारगतानां ये पिशुनानां च ये सदा।।

साधूनसूयतां ये च ये चापि परिवादिनाम्।
ये च निक्षेपहन्तॄणां ये च विश्वासघातिनाम्।।

भुक्तपूर्वां स्त्रियं ये च निन्दतामघशंसिनाम्।
ब्रह्मघ्नानां च ये लोका ये च गोघातिनामपि।।

पायसं वा यवान्नं वा शाकं कृसरमेव वा।
संयावापूपमांसानि ये च लोका वृथाश्नताम्।
तानन्हायाधिगच्छेयं न चेद्धन्यां जयद्रथम्।।

वेदाध्यायिनमत्यर्थं संशितं वा द्विजोत्तमम्।
अवमन्यमानो यान्याति वृद्धान्साधून्गुरूंस्तथा।।

स्पृशतो ब्राह्मणं गां च पादेनाग्निं च या भवेत्।
याऽप्सु श्लेष्म पुरीषं च मूत्रं वा मुञ्चतां गतिः।
तां गच्छेयं गतिं कष्टां न चेद्धन्यां जयद्रथम्।।

नग्नस्य स्नायमानस्य या च वन्ध्याऽतिथेर्गतिः।
उत्कोचिनां मृषोक्तीनां वञ्चकानां च या गतिः।।

आत्मापहारिणां या च या च मिथ्याभिशंसिनाम्।
भृत्यैः सन्दृश्यमानानां पुत्रदाराश्रितैस्तथा।।

असंविभज्य क्षुद्राणां या गतिर्मिष्टमश्नताम्।
तां गच्छेयं गतिं घोरां न चेद्धन्यां जयद्रथम्।।

संश्रितं चापि यस्त्यक्त्वा साधुं तद्वचने रतम्।
न बिभर्ति नृसंसात्मा निन्दते चोपकारिणम्।।

अर्हते प्रातिवेश्याय श्राद्धं यो न ददाति च।
अनर्हेभ्यश्च यो दद्याद्वृषलीपतये तथा।।

मद्यपो भिन्नमर्यादः कृतघ्नो भर्तृनिन्दकः।
तेषां गतिमियां क्षिप्रं न चेद्धान्यां जयद्रथम्।।

भुञ्जानानां तु सव्येन उत्सङ्गे चापि खादताम्।
पालाशमासनं चैव तिन्दुकैर्दन्तधावनम्।।

ये चावर्जयतां लोकाः स्वपतां च तथोषसि।
शीतभीताश्च ये विप्रा रणभीताश्च क्षत्रियाः।।

एककूपोदकग्रामे वेदध्वनिविवर्जिते।
षण्मासं तत्र वसतां तथा शास्त्रं विनिन्दताम्।।

दिवामैथुनिनां चापि दिवसेषु च शेरते।
अगारदाहिनां चैव गरदानां च ये मताः।।

अग्न्यातिथ्यविहीनाश्च गोपानेषु च विघ्नदाः।
रजस्वलां सेवयन्तः कन्यां शुल्केन दायिनः।।

या च वै बहुयाजिनां ब्राह्मणानां श्ववृत्तिनाम्।
आस्यमैथुनिकानां च ये दिवामैथुने रताः।।

ब्राह्मणस्य प्रतिश्रुत्य यो वै लोभाद्ददाति न।
तेषां गतिं गमिष्यामि श्वो न हन्यां जयद्रथम्।।

धर्मादपेता ये चान्ये मया नात्रानुकीर्तिताः।
ये चानुकीर्तितास्तेषां गतिं क्षिप्रमवाप्नुयाम्।।

यदि व्युष्टामिमां रात्रिं श्वो न हन्यां जयद्रथम्।
इमां चाप्यपरां भूयः प्रतिज्ञां मे निबोधत।।

यद्यस्मिन्न हत्ते पापे सूर्योऽस्तमुपयास्यति।
इहैव सम्प्रवेष्टाऽहं ज्वलितं जातवेदसम्।।

असुरसुरमनुष्याः पक्षिणो वोरगा वा
पितृरजनिचरा वा ब्रह्मदेवर्षयो वा।
चरमचरमपीदं यत्परं चापि तस्मा--
त्तदपि मम रिपुं तं रक्षितुं नैव शक्ताः।।

यदि विशति रसातलं तदग्र्यं
वियदपि देवपुरं दितेः पुरं वा।
तदपि शरशतैरहं प्रभाते
भृशमभिमन्युरिपोः शिरोऽभिहर्ता।।

सञ्जय उवाच।

एवमुक्त्वा विचिक्षेप गाण्डीवं सव्यदक्षिणम्।
तस्य सर्वमतिक्रम्य धनुःशब्दोऽस्पृशद्दिवम्।।

अर्जुनेन प्रतिज्ञाते पाञ्चजन्यं जनार्दनः।
प्रदध्मौ तत्र सङ्क्रुद्धो देवदत्तं च फल्गुनः।।

स पाञ्चजन्योऽच्युतवक्त्रवायुना
भृशं सुपूर्णोदरनिःसृतध्वनिः।
जगत्सपातालवियद्दिगीश्वरं
प्रकम्पयामास युगात्यये यथा।।

ततो वादित्रघोषाश्च प्रादुरासन्सहस्रशः।
सिंहनादश्च पाण्डूनां प्रतिज्ञाते महात्मना।।

`प्रानृत्यदिव गाण्डीवं शरास्तूणीगता मुदा।
निराक्रामन्निव तदा स्वयमेव मृधैषिणः।।

भीमसेनः सुसंहृष्टः प्रत्यभाषत भारत।
धनञ्जयमभिप्रेक्ष्य हर्षगद्गदया गिरा।।

प्रतिज्ञोद्भवशब्देन कृष्णशङ्खस्वनेन च।
निहतो धार्तराष्ट्रोऽयं सानुबन्धः सुयोधनः।।

अथ मृदिततमाग्र्यदाममाल्यं
तव सुतशोकमयं च रोषजातम्।
व्यपनुदति महाप्रभावसेन--
न्नरवर वाक्यमिदं महार्थमिष्टम्।।

सञ्जय उवाच।

अथ शङ्ख्यैश्च भेरीभिः पणवैः सैनिकास्तथा।
ससूतमागधा जिष्णुं स्तुतिभिः समपूजयन्।।

तदा भीमं बलं सर्वे तेन नादेन मोहितम्।
तावकं तन्महाराज विषण्णं समपद्यत'।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि त्रिसप्ततितमोऽध्यायः।। 73 ।।