द्रोणपर्व

अध्यायः ६८

Drona Parva (Sanskrit) · Adhyaya 68
अक्षर का आकार

नारद उवाच।

दौष्यन्ति भरतं चापि मृतं सृञ्जय शुश्रुम।
कर्माण्यसुकराण्यन्यैः कृतवान्यः शिशुर्वने।।

हिमावदातान्यः सिंहान्नखदंष्ट्रायुधान्बली।
निर्वीर्यांस्तरसा कृत्वा विचकर्ष बबन्ध च।।

क्रूरांश्चोग्रतरान्व्याघ्रान्दमित्वा चाकरोद्वशे।
मनःशिला इव शिलाः संयुक्ता जतुराशिभिः।।

त्रायलादींश्चातिबलवान्सुप्रतीकान्गजानपि।
दंष्ट्रासु गृह्य विमुखाञ्शुष्कास्यानकरोद्वशे।।

महिषानप्यतिबलो बलिनो विचकर्ष ह।
सिंहानां च सुदृप्तानां शतान्याकर्षयद्बलात्।।

बलिनः सृमरान्खङ्गान्नानासत्त्वानि चाप्युत।
कृच्छ्रप्राणान्वने बद्ध्वा दमयित्वाप्यवासृजत्।।

तं सर्वदमनेत्याहुर्द्विजास्तेनास्य कर्मणा।
तं प्रत्यषेधज्जननी मा सत्वानि व्यनीनशः।।

सोऽश्वमेधशतेनेजे यमुनामनु वीर्यवान्।
त्रिशतैश्च सरस्वत्यां गङ्गामनु चतुःशतैः।।

सौऽश्वमेधसहस्रेण राजसूयशतेन च।
पुनरीजे महायज्ञैः समाप्तवरदक्षिणैः।।

अग्निष्टोमातिरात्राणामुक्थ्यविश्वजितां च सः।
वाजपेयसहस्रामां सहस्रैश्च सुसंवृतैः।।

इष्ट्वा शाकुन्तलो राजा तर्पयित्वा द्विजान्धनैः।
सहस्रं यत्र पद्मानां कण्वाय भरतो ददौ।
जाम्बूनदस्य शुद्धस्य कनकस्य महायशाः।।

यस्य यूपाः सतव्यामाः परिणाहेन काञ्चनाः।
समागम्य द्विजैः सार्धे सेन्द्रैर्देवैः समुच्छ्रिताः।।

अलङ्कृतान्राजमानान्सर्वरत्नैर्मनोहरैः।
हैरण्यान्द्विरदानश्वान्रथानुष्ट्रानजाविकान्।।

दासी दासं धनं धान्यं गाः सवत्साः पयस्विनीः।
ग्रामान्गृहांश्च क्षेत्राणि विविधांश्च परिच्छदान्।।

कोटीशतायुतांश्चैव ब्राह्मणेभ्यो ह्यमन्यत।
चक्रवर्ती ह्यदीनात्मा जितारिर्ह्यजितः परैः।।

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि
षोडशराजकीये अष्टषष्टितमोऽध्यायः।। 68 ।।