द्रोणपर्व
अध्यायः ६९
नारद उवाच।
पुथुं वैन्यं च राजानं मृतं सृञ्जय शुश्रुम।
यमब्यषिञ्चत्सम्मन्त्र्य राजसूये महर्षयः।।
अयं नः प्रथयिष्येत सर्वानित्यभवत्पृथुः।
क्षतान्नस्त्रास्यते सर्वानत्येवं क्षत्रियोऽभवत्।।
पृथुं वैन्यं प्रजा दृष्ट्वा रक्ताः स्मेति यदब्रुवन्।
ततो राजेति नामास्य अनुरागादजायत।।
अकृष्टपच्या पृथिवी आसीद्वैन्यस्य कामधुक्।
सर्वाः समादुघा गावः पुटकेपुटके मधु।।
आसन्हिरण्मया वृक्षाः सुखस्पर्शाः सुखावहाः।
तेषां चीरxx संवीताः प्रजास्तेष्वेव शेरते।।
फलान्यमृतकल्पानि स्वादूनि च मधूनि च।
तेषामासीत्तदाऽऽहारो निराहाराश्च नाभवन्।।
अरोगाः सर्वसिद्धार्था मनुष्या ह्यकुतोभयाः।
न्यवसन्त यथाकामं वृक्षेषु च गुहासु च।।
प्रविभागो न राष्ट्राणां पुराणां चाभवत्तदा।
यथासुखं यथाकामं तथैता मुदिताः प्रजाः।।
तस्य संस्तम्भिता ह्यापः समुद्रमभियास्यतः।
पर्वताश्च ददुर्मार्गं ध्वजभङ्गश्च नाभवत्।।
तं वनस्पतयः शैला देवासुरनरोरगाः।
सप्तर्षयः पुण्यजना गन्धर्वाप्सरसोऽपि च।
पितरश्च सुखासीनमभिगम्येदमब्रुवन्।।
सम्राडसि क्षत्रियोऽसि राजा गोप्ता पिताऽसि नः।
देह्यस्मभ्यं महाराज प्रभुः सन्नीप्सितान्वरान्।
यैर्वयं शाश्वतं तृप्ता वर्तयिष्यामहे सुखम्।।
`विज्ञापितः प्रजाभिस्तु प्रजानां हितकाम्यया।
धनुर्गृह्य पृषत्कांश्च वसुधामाद्रवद्बली।।
ततो वैन्यभयाद्राजन्गौर्भूत्वा प्राद्रवन्मही।
तां पृथुर्धनुरादाय द्रवन्तीमन्वसारयत्।।
सा लोकान्ब्रह्मलोकादीन्गत्वा वैन्यभयार्दिता।
सा ददर्शाग्रतो वैन्यं कार्मुकोद्यतपाणिकम्।।
ज्वलद्भिर्विशिखैर्बाणैर्दीप्ततेजःसमद्युतिम्।
महायोगं महात्मानं दुर्धर्षममरैरपि।।
अलभन्ती परित्राणं वैन्यमेवाभ्यपद्यत।
कृताञ्जलिपुटा राजन्पूज्यं लोकैस्त्रिभिस्तदा।।
उवाच चैनं नाधर्म्यं स्त्रीवधं कर्तुमर्हसि।
कथं धारयिता चासि प्रजा राजन्मया विना।।
पृथुरुवाच।
एकस्यार्थाय यो हन्यादात्मनो वा परस्य वा।
एकं प्राणान्बहून्वापि प्राणिनां नास्ति पातकं।।
यस्मिंस्तु निहते भद्रे बहवः सुखमेधते।
तस्मिन्हते त्वधं नास्ति पातकं नोपभुज्यते।।
सोऽहं पालनिमित्तं त्वां बधिष्यामि वसुंधरे।
यदि चेद्वचनादद्य न करिष्यसि मे प्रियम्।।
त्वां निहत्य तु बाणेन मच्छासनपराङ्मुखीम्।
आत्मानं प्रथयित्वाऽहं प्रजा धारयिता स्वयं।।
सुखं वचनमास्थाय मम धर्मभृतां वरे।
स़ञ्जीवय प्रजा नित्यं शक्ता ह्यसि वसुन्धरे।।
दुहितृत्वं च मे गच्छ एवमेतन्महाशरम्।
नियच्छेयं त्वदर्थाय उद्यतं घोरदर्शनम्।।
भूमिरुवाच।
सर्वमेतन्महाराज विधास्यासि परन्तप।
वत्सं त्वं पश्य राजन्वै क्षरेयं येन वत्सला।।
समां तु कुरु सर्वज्ञ मां तु धर्मभृतां वर।
यथा विष्यन्दमानं वै क्षीरं सर्वत्र भावये।।
नारद उवाच।
तत उत्सारयामास शिलाजालानि सर्वशः।
पृथुर्वैन्यस्तदा राजा तेन शैला विवर्धिताः।।
न हि पूर्वनिसर्गे वै विषमे वसुधातले।
प्रविभागः पुराणां वा ग्रामाणां वा महीपते।।
न सस्यानि न गोरक्ष्यं न कृषिर्न वणिक्पथः।
वैन्यात्प्रभृति राजेन्दर सर्वस्यैतस्य सम्भवः।।
यत्रयत्र च साम्यं तु भूमावासीत्किलानघ।
तत्रतत्र प्रजास्तात निवासमभिरोचयन्।
कृच्छ्रेण च महाराज इत्येवमनुशुश्रुम।।
तथेत्युक्त्वा पुनर्वैन्यो गृहीत्वाऽऽजगवं धनुः।
शरांश्चाप्रतिमान्घोरांश्चिन्तयित्वाऽब्रवीन्महीम्।।
पृथुरुवाच।
एह्येहि वसुधे क्षिप्रं क्षरैभ्यः काङ्क्षितं पयः।
मच्छसनातिगां वै त्वां प्रमथिष्याम्यहं शरैः।।
नारद उवाच।
तथोक्ता साऽत्मनः श्रेयश्चिन्तयित्वाऽब्रवीत्पृथुम्।
भूमिरुवाच।
वत्सं पात्राणि दोग्धॄंश्च क्षीराणि च समादिश।।
ततो दास्याम्यहं भद्र सर्वं यस्य यथेप्सितम्।
दुहितृत्वे च मां वीर सङ्कल्पयितुमर्हसि।।
नारद उवाच।'
तथेत्युक्त्वा पृथुः सर्वं विधानमकरोद्वशी।
ततो भूतनिकायास्तां वसुधां दुदुहुस्तदा।।
तां वनस्पतयः पूर्वं समुत्तस्थुर्दुधुक्षवः।
साऽतिष्ठद्वत्सला वत्सं दोग्धृपात्राणि चेच्छती।।
वत्सोऽभूत्पुष्पितः सालः प्लक्षो दोग्धाऽभवत्तदा।
छिन्नप्ररोहणं दुग्धं पात्रमौदुम्बरं शुभम्।।
उदयः पर्वतो वत्सो मेरुर्दोग्धा महागिरिः।
रत्नान्योषधयो दुग्धं पात्रमस्तमयं तथा।।
`देवानां वत्स इन्द्रोऽभूत्पात्रं दारुमयं तथा'।
दोग्धा च सविता देवो दुग्धमूर्जस्करं प्रियम्।।
असुरा दुदुहुर्मायामयःपात्रे तु तां तदा।
दोग्धा द्विमूर्धा तत्रासीद्वत्सश्चासीद्विरोचनः।।
कृषिं च सस्यं च नरा दुदुहुः पृथिवीतले।
स्वायंभुवो मनुर्वत्सस्तेषां दोग्धाऽभवत्पृथुः।।
अलाबुपात्रे च तथा विषं दुग्धा वसुन्धरा।
धृतराष्ट्रोऽभवद्दोग्धा तेषां वत्सस्तु तक्षकः।।
सप्तर्षिभिर्ब्रह्म दुग्धा तथा चाक्लिष्टकर्मभिः।
दोग्धा बृहस्पतिः पात्रं छन्दो वत्सश्च सोमराट्।।
अन्तर्धानं चामपात्रे दुग्धा पुण्यजनैर्विराट्।
दोग्धा वैश्रवणस्तेषां वत्सश्चासीद्वृषध्वजः।।
पुण्यगन्धान्पद्मपात्रे गन्धर्वाप्सरसोऽदुहन्।
वत्सश्चित्ररथस्तेषां दोग्धा विश्वरुचिः प्रभुः।।
स्वधां रजतपात्रेषु दुदुहुः पितरश्च ताम्।
वत्सो वैवस्वतस्तेषां यमो दोग्धान्तकस्तदा।।
एवं निकायैस्तैर्दुग्धा पयोऽभीष्टं हि सा विराट्।
यैर्वर्तयन्ति ते ह्यद्य पात्रैर्वत्सैश्च नित्यशः।।
यज्ञैश्च विविधैरिष्ट्वा पृथुर्वैन्यः प्रतापवान्।
सन्तर्पयित्वा भूतानि सर्वैः कामैर्मनःप्रियैः।।
हैरण्यानकरोद्राजा ये केचित्पार्थिवा भुवि।
तान्ब्राह्मणेभ्यः प्रायच्छदश्वमेधे महामखे।।
स षष्टिं गोसहस्राणि षष्टिं नागशतानि च।
सौवर्णानकरोद्राजा ब्राह्मणेभ्यश्च तान्ददौ।।
इमां च पृथिवीं सर्वां मणिरत्नविभूषिताम्।
सौवर्णीमकरोद्राजा ब्राह्मणेभ्यश्च तां ददौ।।
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि
षोडशराजकीये एकोनसप्ततितमोऽध्यायः।। 69 ।।